Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 148
________________ ३०७ श्री सुमित्रा चरित्रं साधो ! विशुद्धमाहारं गृहाणानुगृहाण माम् । वदन्त्येति सहर्षाश्रु प्रत्यलाभि मुनिस्तया ॥७६॥ अन्वयः- (हे) साधो ! विशुद्धं आहारं गृहाण मां अनुगृहाण, ___इति सहर्षाश्रु वदन्त्या तया मुनिः प्रत्यलाभि ॥१६।। गन्धाम्बु-पुष्पवर्षान्तेऽवदच्छासनदेवता । धन्ये ! मासोपवासी यत्पारणं कारितस्त्वया ॥७७॥ तत्ते सत्त्वभवात् दानाच्छान्ता वृष्टिहतो ग्रहाः । अस्मादुर्जिरवाद्दिव्यादृष्टो दुर्भिक्षहृद्घनः ॥७८॥ युग्मम् ॥ अन्वयः- गन्ध-अम्बु-पुष्पवर्षा अन्ते शासनदेवता अवदत्, (हे) धन्ये! यत् त्वया मास-उपवासी (मुनिः) पारणं कारितः ॥७७॥ तत् ते 'सत्त्वभवात् दानात् 'वृष्टिहृतः ग्रहाः शान्ताः, अस्मात् दिव्यात् गजिरवात् 'दुर्भिक्षहृद् घनः वृष्टः ॥७८॥ युग्मम् ॥ अत्रोत्सवे कृते राज्ञा पौरैश्वाक्षतपात्रिभिः । मातरं क्षमयामास नत्त्वा दत्तो जयान्वितः ॥७९॥ अन्वयः- राज्ञा अक्षतपात्रिभिः पौरैः च अत्रं उत्सवे कृते (सति), जया अन्वितः दत्तः मातरं नत्वा क्षमयामास ॥७९।। तेऽथ धर्मं व्यधुः शुद्धं श्रद्धावन्तो निरन्तरम् । भुक्त्वायुस्तत्र जज्ञेऽत्र सुमित्रात्मा नृपो भवान् ॥८०॥ अन्वयः- अथ श्रद्धावन्तः ते निरन्तरं शुद्धं धर्मं व्यधुः, तत्र आयुः भुक्त्वा सुमित्रात्मा भवान् अत्र नृपः जज्ञे ॥८०॥ १. सत्त्वभवात् दानात् सात्त्विक दानथी। २. वृष्टिहृतः वरसादने हरनारा (अटकावनारा) । ३. दुर्भिक्षहद्धनः दुकाश नाशक वादळ ।

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154