Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३०५
श्री सुमित्रा चरित्रं सत्फलं नियमान्मत्वेत्येषाभिग्रहमग्रहीत् । स्वेच्छया विधिवद्दानं दत्त्वा भोक्ष्येऽहमन्वहम् ॥६५॥ अन्वयः- नियमात् सत्फलं इति मत्वा 'अहं अन्वहं स्वेच्छया विधिवत्
. दानं दत्त्वा भोक्ष्ये' इति अभिग्रहं एषा अग्रहीत् ॥६५॥ ततः सुत-स्नुषाभ्यां चानुमताभिमतं जनम् । पूरयन्ती मुदा कालं कियन्तं सात्यवाहयत् ॥६६॥ अन्वयः- ततः सुत-स्नुषाभ्यां अनुमता, अभिमतं च जनं पूरयन्ती मुदा
कियन्तं कालं सा अत्यवाहयत् ॥६६॥ दैवज्ञैः कथितेऽत्यर्थमवृष्टे दारुणेऽन्यदा । दुर्भिक्षे सर्वतो जाते जया दत्तमदोऽवदत् ॥६७॥ अन्वयः- अन्यदा दैवज्ञैः अत्यर्थं अवृष्टे कथिते,
सर्वतो दुर्भिक्षे जाते जया दत्तं अदः अवदत् ॥६७॥ मूलेऽपि रौरवः कालोऽपत्यपूर्णं च ते गृहम् । अतः स्वां जननी दानात् कुटुम्बाधार ! वारय ॥१८॥ अन्वयः- मूले अपि रौरवः कालः, ते गृहं च अपत्यपूर्ण,
अतः कुटुम्बाधार ! स्वां जननी दानात् वारय ॥६८॥ अथ तेन निसिद्धाम्बा सुमित्रा दानतः क्षणात् । निःसत्त्वतामपि ह्यङ्गीकुर्वन्ति स्त्रीजिता नराः ॥६९॥ अन्वयः- अथ तेन क्षणात् सुमित्रा अम्बा दानतः निसिद्धा, हि स्त्रीजिताः
नराः निःसत्त्वतामपि अङ्गीकुर्वन्ति ॥६९॥ संस्मृत्य नियमं सा स्वं निश्चिकायेति चेतसि । अदत्ते भोज्यमात्रेऽपि न भोक्ष्येऽन्तेऽपि जन्मनः ॥७०॥

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154