Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 141
________________ ३०० सुलभचरित्राणि-२ जिनदासः अपि धन-आख्यं तं सार्थवाहं निरीक्ष्य, अयं श्वसुरः इति ज्ञात्वा चमत्कृतः नमः चक्रे ॥३६॥ ननाम नितरां प्रीत्या पितरं रत्नवत्यपि । अहो भाग्यस्य सौरभ्यं चिन्तयन्ती स्वचेतसि ॥३७॥ अन्वयः- अहो ! भाग्यस्य सौरभ्यं (इति) स्व मनसि चिन्तयन्ती रत्नवती अपि प्रीत्या पितरं नितरां ननाम ॥३७॥ अथास्मै सार्थवाहाय किमेतदिति पृच्छते । जिनदासः स्ववृत्तं तदादितोऽपि न्यवेदयत् ॥३८॥ अन्वयः- अथ 'किं एतद्' इति पृच्छते (सति) जिनदासः तद् स्ववृत्तं आदितः अपि अस्मै सार्थवाहाय न्यवेदयेत् ॥३८॥ तादृस्वजनसम्पर्कनिपीतव्यापदूर्मयः । अथ ते तोषपोषेण तस्थुर्वसनवेश्मनि ॥३९॥ अन्वयः- अथ तादृक् 'स्वजनसम्पर्क निपीतव्यापत् ऊर्मयः ते तोषपोषण 'वसन-वेश्मनि तस्थुः ॥३९॥ अथास्मिंश्चरिते चित्रे गत्वार्केणेव शंसिते । तद्वीक्षाकौतुकेनेव सन्ध्यायां विधुरुद्ययौ ॥४०॥ अन्वयः- अथ अर्केण गत्वा अस्मिन् चित्रे चरिते शंसिते (सति), तद् वीक्षा कौतुकेन इव सन्ध्यायां विधुः उद्ययौ ॥४०॥ तोयपात्रं गृहीत्वाथ जिनदासो निशागमे । तरूनन्तरयामास देहचिन्ताकृते बहून् ॥४१॥ १. स्वजनसम्पर्कनिपीतव्यापत् ऊर्मयः स्वजनना मेळापथी विपत्तिरूपी उर्मिओ (मोजा) विनाश पामे छे । २. वसनवेश्मन् (वसन वस्त्र) कापडना घर (तंबु-टेन्ट) ।

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154