Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 139
________________ २९८ सुलभचरित्राणि-२ अन्वयः- तेषु मद्भोगलुब्धेषु (सत्सु) अहं वेगात् इह आपतम्, हि स्त्रीणां मरणं वरं, न पुनः शीलखण्डनम् ॥२५॥ कृतान्तमुखरूपेऽस्मिन्कूपेऽपि पतिता प्रिय । जीवितास्मि भवद्भक्त्रालोकभोक्तव्यकर्मभिः ॥२६॥ अन्वयः- (हे) प्रिय ! कृतान्तमुखरूपे अस्मिन् कूपे पतिता अपि भवत् वक्त्र आलोकभोक्तव्य कर्मभिः जीविता अस्मि ॥२६॥ कथ्यतां च कथं पातः कूपेऽत्र भवतामपि । सचिवः स च विद्वेषी विदधे किं विरोधतः ॥२७॥ अन्वयः- अत्र कूपे भवतां अपि पातः कथं (इति) कथ्यतां, विद्वेषी च स सचिवः विरोधतः किं विदधे ? ॥२७॥ जगाद जिनदासोऽथ सचिवे मारणोत्सुके । गृहतः कर्मकृत्कूटादेकोऽहं निशि निःसृतः ॥२८॥ अन्वयः- अथ जिनदासः जगाद सचिवे मारणउत्सुके (सति), कर्मकृत्कूटात् एकः अहं निशि गृहतः निःसृतः ॥२८॥ निरन्तरविहारेण कान्तारेऽत्र समागतः । तृषितोऽस्मिन्पयः पश्यन्पादस्खलनतोऽपतम् ॥२९॥ अन्वयः- निरन्तरविहारेण अत्र कान्तारे समागतः, तृषितः अस्मिन् पयः पश्यन् पादस्खलनतः अपतम् ॥२९॥ अनुक्तमित्रदौष्टयस्य तदा तस्यातिसत्त्वतः । कूपेऽस्मिन्नजलेऽप्यम्भो नाभिदनं ददुः शिराः ॥३०॥ अन्वयः- तदा अनुक्तमित्रदौष्ट्यस्य तस्य अतिसत्त्वतः, अजले अपि अस्मिन् कूपे शिराः अम्भः 'नाभिदघ्नं ददुः ॥३०॥ १. नाभिदघ्नं नाभि सुधी।

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154