Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 142
________________ श्री सुमित्रा चरित्रं ३०१ अन्वयः- अथ निशाआगमे देहचिन्ताकृते तोयपात्रं गृहीत्वा जिनदासः बहून् तरुन् अन्तः अयामास ॥४१॥ अथेन्दुद्युतिभिर्वीक्ष्य सुप्तं कञ्चिदसौ नरम् । यावद्यात्यग्रतस्तावन्मृतो लक्ष्मीधरः पुमान् ॥४२॥ अन्वयः- अथ इन्दुद्युतिभिः कञ्चित् नरं सुप्तं वीक्ष्य, असौ यावत् अग्रतः याति, तावत् लक्ष्मीधरः पुमान् मृतः॥४२॥ मृतमक्षतमेवैनं वीक्ष्यासौ मित्रवत्सलः । भुजङ्गदशनं तस्मिन्निश्चिनोति स्म दुःखितः ॥४३॥ अन्वयः- एनं अक्षतं एव मृतं वीक्ष्य दुःखितः मित्रवत्सलः असौ तस्मिन् 'भुजङ्गदशनं निश्चिनोति स्म ॥४३॥ आदाय स्वान्मणीस्तस्मात्कृष्ट्वा फणिमणिं ततः । तदीय स्पर्शपूतेन पयसा तमजीवयत् ॥४४॥ अन्वयः- ततः स्वान् मणीन् आदाय, तस्मात् फणिमणि कृष्ट्वा । ततः तदीयस्पर्शपूतेन पयसा तं अजीवयत् ॥४४॥ उपकृत्युपकुर्वाणा ध्रियन्ते धरया न के। अपकृत्युपकारी यस्तेन तु ध्रियते धरा ॥४५॥ अन्वयः- 'उपकृत्युपकुर्वाणा: के धरया न ध्रियन्ते, यः २अपकृत्युपकारी तेन तु धरा ध्रियते ॥४५॥ वीक्ष्य लक्ष्मीधरो जीवञ्जिनदासमयग्रतः । त्रपानतमुखाम्भोजस्तत्सौहार्दमिवानमत् ॥४६॥ अन्वयः- अथ जीवन् लक्ष्मीधरः जिनदासं अग्रतः वीक्ष्य, त्रपानतमुखाम्भोजः तत् सौहार्द इव आनमत् ॥४६॥ अथैनमाह माहात्म्यमयो रत्नवतीपतिः । अन्तःप्रेमसुधासिन्धुतरङ्गोत्तरया गिरा ॥४७॥ १. भुजङ्गदशनं साप करडवू । २. उपकृति=उपकार । ३. अपकृति अपकार ।

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154