Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२९६
सुलभचरित्राणि - २
अन्वयः- अथ चौरच्छेलन तं आलब्धुं कृतादरः असौ मन्त्री निशि तद् आवासमार्गं भृत्यैः अरोधयत् ॥१५॥
`मत्वेति कर्मकृद्वेषः सह लक्ष्मीधरेण सः । प्रभाववन्ति रत्नानि गृहीत्वा निःसृतः पुरात् ॥१६॥ अन्वयः- इति कर्मकृत् द्वेषः (षं) मत्वा सः प्रभाववन्ति रत्नानि गृहीत्वा लक्ष्मीधरेण सह पुरात् निःसृतः ॥१६॥
अजान्नपि पन्थानं गच्छन्नेष निरन्तरम् ।
अरण्ये पतितः क्वापि तृष्णातरललोचनः ॥१७॥ अन्वयः - पन्थानं अजानन् अपि निरन्तरं गच्छन्, तृष्णातरललोचनः एषः क्वापि अरण्ये पतितः ||१७||
तत्र वस्त्रलवाबद्धां रत्नालीं सुहृदः करे । णोऽयमर्पयामास जीवितव्यमिवात्मनः ॥१८॥
अन्वयः- तत्र आत्मन: जीवितव्यं इव वस्त्रलवाबद्धां रत्नालीं सुहृदः करे रीणः अयं अर्पयामास ||१८||
क्वापि पश्यन्पयः कूपे रत्नलोभात् द्विजेन सः । कराभ्यां पातितः प्रेर्य विश्वासः कोऽस्तु जीवताम् ॥१९॥ अन्वयः- क्व अपि पयः पश्यन् सः रत्नलोभात् द्विजेन कराभ्यां प्रेर्य कूपे पातितः जीवतां विश्वासः कः अस्तु ॥ १९ ॥ स तदा पतितः कूपे कोऽयमित्यशृणोद्वचः । उपलक्ष्य स्वरेणाथ प्राह रत्नवतीं प्रियाम् ॥२०॥
१. च्छलेन=बहानाथी । २. मत्वा कर्मकृतं द्वेषं आवुं पद होवुं जोईए । ३. रीण = पीडित (तरसथी) ।

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154