Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्री सुमित्रा चरित्रं
२९७
अन्वयः - कूपे पतितः स तदा 'अयं कः' इति वच: अशृणोत्, अथ स्वरेण रत्नवतीं प्रियां उपलक्ष्य प्राह ||२०||
अयि ! त्वमपि कूपेऽत्र पतितासि कुतः प्रिये ! । स ते परिजनः क्वास्ति धिग्धिग्विधिविडम्बितम् ॥२१॥ अन्वयः- अयि प्रिये ! त्वं अपि तत्र कूपे कुतः पतिता असि ?, स ते परिजनः क्वास्ति ? धिग् धिग् 'विधिविडम्बितम् ॥२१॥ साप्यवस्थागतं कान्तं वीक्ष्य प्राप्तं च संनिधौ । बाष्पं दृशि दधौ दुःखानन्दसंकरसंकटम् ॥२२॥ अन्वयः- सा अपि अवस्थागतं संनिधौ प्राप्तं च कान्तं वीक्ष्य, दृशि दुःख-आनन्दसंकरसंकटं बाष्पं दधौ ॥२२॥ मन्वाना धन्यमात्मानं तत्रापि प्रियदर्शनात् । ऊचे सतीशिरोरत्नमियं रत्नवती ततः ॥२३॥ अन्वयः- ततः प्रियदर्शनात् तत्र अपि आत्मानं धन्यं मन्वाना, सतीशिरोरत्नं इयं रत्नवती ऊचे ॥२३॥
तत्सर्वमटवीमध्ये गृहीतमिह तस्करैः ।
कान्दिशीकः समग्रोऽपि ययौ परिजनः क्वचित् ॥२४॥ अन्वयः- तत् सर्वं इह अटवीमध्ये तस्करैः गृहीतं,
`कान्दिशीकः समग्रः अपि परिवारः क्वचित् ययौ ॥२४॥ तेषु मद्भोगलुब्धेषु वेगादहमिहापतम् ।
वरं हि मरणं स्त्रीणां न पुनः शील खण्डनम् ॥२५॥
२. विधिविडम्बितम = भाग्यनो विलास - विधिनी व्रकता । १. कान्दिशीकः =भयभीत ( अभि० चिन्ता. ३६६ ) |

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154