Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
श्री सुमित्रा चरित्रं
अन्वयः - सः व्यवहारी काशिनिवासिनः धनस्य सार्थवाहस्य रत्नवतीं नाम्ना ख्यातां सुतां 'व्युवाहः ॥९॥ जिनदासस्य विश्वासपात्रं लक्ष्मीधराभिधः । विप्रो बभूव भ्रातेव चरमः परमः सुहृत् ॥१०॥ न मन्त्री न कलत्रं न पुत्रो धात्रीपतेः पुनः । नान्यत्किञ्चिच्च तस्याभूज्जिनदास इव प्रियम् ॥११॥
अन्वयः- तस्य धात्रीपतेः न मन्त्री, न कलत्रं, न पुत्रः, न च अन्यत् किञ्चित्, जिनदासः इव प्रियं अभूत् ॥११॥
मित्रे नृपः कदाप्यत्र मन्त्रितामपि दास्यति । राजमन्त्रीति तं हन्तुं विरुद्धं विदधे मनः ॥ १२॥ अन्वयः- नृपः कदा अपि अत्र मित्रे मन्त्रितां दास्यति,
इति राजमन्त्री तं हन्तुं विरुद्धं मनः विदधे ॥ १२ ॥ जिनदासस्तु दाक्ष्येण परचित्तोपलक्षकः । चक्षुर्वचो विकारेण तं विरुद्धमबुध्यत ॥१३॥ अन्वयः - परचित्तउपलक्षक: जिनदासः तु दाक्ष्येण चक्षुः- वचो विकारेण तं विरुद्धं अबुध्यत ॥१३॥ ततो भूपालमापृच्छ्य तीर्थयात्रापदेशतः । पत्नीं रत्नवतीं प्रैषीदसौ पितृगृहं प्रति ॥ १४॥
अन्वयः - ततः भूपालं आपृच्छ्य असौ तीर्थयात्रा - अपदेशतः रत्नवतीं पत्नीं पितृगृहं प्रति प्रैषीत् ||१४||
अथ चौरच्छलेनासौ तमालब्धुं कृतादरः । मन्त्री निशि तदावासमार्गं भृत्यैररोधयत् ॥१५॥
१. व्युवाहः=परण्यो । २. अपदेशतः = बहाने ।
२९५
''

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154