Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२९४
सुलभचरित्राणि-२ तन्मन्त्रीशो वसुर्जज्ञे यबुद्धिभरनीरजे । राज्यलक्ष्मीः सुखं तस्थौ विकाशाढ्ये दिवानिशम् ॥५॥ अन्वयः- वसुः तद् मन्त्रीशः जज्ञे, यद् विकाश-आढ्ये 'बुद्धि-भर
नीरजे राज्यक्ष्मीः दिवानिशं सुखं तस्थौ ॥५॥ जिनदासाभिधः श्रेष्ठी तस्य पृथ्वीपतेः प्रियः । बभूव तीर्थकृद्धर्मधौरेयः श्रेयसां निधिः ॥६॥ अन्वयः- तस्य पृथ्वीपतेः प्रियः तीर्थकृद्धर्मधौरेयः श्रेयसां निधिः
___जिनदास अभिधः श्रेष्ठी बभूव ॥६॥ तदर्जितैरसंख्यातैः स्वर्णरत्नैरपि ध्रुवम् । निष्पाद्येते क्षितौ मेरु-रोहणावपरावपि ॥७॥ अन्वयः- तद् अर्जितैः असंख्यातैः अपि स्वर्णरत्नैः क्षितौ ध्रुवं
अपि अपरौ रमेरु रोहणौ निष्पाद्यते ॥७॥ यक्षराजो धनाध्यक्ष इत्येव ख्यातिमर्हति । धनदो जिनदासस्तु स स्तुतोऽर्थिगणैरपि ॥८॥ अन्वयः- यक्षराज (धनदः) धन अध्यक्षः इति ख्यातं मर्हति
(लोके), स जिनदासस्तु 'धनदः (इति) अर्थिगणैः अपि
स्तुतः ॥८॥ धनस्य सार्थवाहस्य सुतां काशिनिवासिनः । ख्यातां रत्नवतीं नाम्ना व्यवहारी व्युवाह सः ॥९॥
.१. बुद्धिभरनीरजे (बुद्धिभर बुद्धिनो समुह, नीरजं=कमळ) बुद्धिना समूहरूपी कमळमां। २. धौरेयः अग्रेसर । ३. मेरु रोहणौ मेरू अने रोहणाचल पर्वतो । ४. धनदः कुबेर देव, अहीं धन आपनार, अर्थ करवो.

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154