Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 123
________________ सुलभचरित्राणि-२ २८२ अन्वयः - नेत्रामृतं मुनिं नैत्रै: आपीय नत्त्वा तौ नृप - मन्त्रिणौ, कर्णामृतं वचः पातुं न्यविशेताम् ॥३६॥ मुनीशं देशनान्तेऽथ पप्रच्छ पृथिवीपतिः । धन्यस्य कथमस्यासन्विपत्कालेऽपि संपदः ॥३७॥ अन्वयः - अथ देशना अन्ते पृथिवीपतिः मुनीशं पप्रच्छ, धन्यस्य अस्य विपत्काले अपि संपदः कथं (अभूवन्)? ||३७|| अथाचष्ट मुनिः स्पष्टविभवा भुवि भाति पूः । धन्यभारच्युतेव द्यौः पद्मनेत्रेति विश्रुता ॥ ३८ ॥ अन्वयः- अथ मुनिः आचष्ट स्पष्टविभवा, धन्यभारच्युता द्यौः इव पद्मनेत्रा इति विश्रुता 'पू: भुवि भाति ॥३८॥ तत्रादित्य इति क्ष्मापस्तत्प्रसादास्पदं धनी । श्रेष्ठी सुदत्त इत्यासीज्जिनधर्मधुरन्धरः ॥ ३९ ॥ अन्वयः- तत्र आदित्य इति क्ष्मापः, तत् प्रसाद - आस्पदं धनी जिन - धर्म - धुरन्धरः सुदत्त इति श्रेष्ठी आसीत् ||३९|| सोऽन्यदा पापरोगाणामौषधं पौषधं स्थितः । तस्थौ निशि निशान्तेऽसौ शान्तेन मनसा रसात् ॥४०॥ अन्वयः- अन्यदा सः निशि पाप - रोगाणां औषधं - पौषधं स्थितः, निशा अन्ते असौ रसात् शान्तेन मनसा तस्थौ ||४०|| तदा कश्चिदवस्वाप - विद्या - वेदी तदोकसि । भूरिभीमपरीवारः प्राविशत्तस्कराग्रणीः ॥४१॥ अन्वयः - तदा तद् ओकसि ' अवस्वापविद्या - वेदी, भूरिभीमपरिवारः कश्चित् तस्कर - अग्रणीः प्राविशत् ॥४१॥ १. द्यौः=स्वर्ग । २. पू=नगरी । ३. अवस्वापविद्यावेदी=अवस्वापिनी=निद्रा, ते विद्यानो जाणकार ।

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154