Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 126
________________ श्री मित्रानन्द मन्त्रीश्वर चरित्रं धनोऽयं नैव जानाति चौरव्यतिकरात्पुरा । अस्मै महात्मने मूल्यान्मया हारोऽयमर्पितः ॥५२॥ अन्वयः- धनः अयं नैव जानाति चौरव्यतिकरात् पुरा अस्मै महात्मने अयं हार: मया मूल्यात् अर्पितः ॥५२॥ तदयं मुच्यतां माऽस्मिन्नुच्यतां चौर्यदुर्यशः । रोहिणीयोग मात्रात्किं स्यात्कलङ्कीन्दुवद्रविः ॥५३॥ अन्वयः- तत् अयं मुच्यतां अस्मिन् चौर्यदुर्यशः मा उच्यतां, 'रोहिणीयोगमात्रात् रविः किं इन्दुवत् कलङ्कीस्यात् ? ॥५३॥ द्वादशव्रतधर्तायं नासत्यं वदतीत्यथ । सुदत्तवचसा - मुञ्चत्तलारक्षो मलिम्लुचम् ॥५४॥ अन्वयः- अथ अयं द्वादशव्रतधर्ता असत्यं न वदति, इति सुदत्तवचसा तलारक्षः 'मलिम्लुचं अमुञ्चत् ॥५४॥ असत्यमपि तत्सत्यं यत्प्राणिहितमित्यसौ । असत्ययापि वाचामुं श्रेष्ठी चौरममुञ्चत् ॥५५॥ अन्वयः - असत्यं अपि यत् प्राणिहितं (भवति) तत् सत्यं, इति असो श्रेष्ठी असत्यया वाचा अपि अमुं चौरं अमुञ्चत् ॥५५॥ श्रेष्ठ तं भोजयित्वा च वरे दत्त्वा च चीवरे । नाकृत्येषु मतिः कृत्येत्युक्त्वा च प्राहिणोत्कृती ॥५६॥ अन्वयः- कृती श्रेष्ठी तं भोजयित्वा वरे चीवरे च दत्त्वा, अकृत्येषु मति: न कृत्या इति उक्त्वा प्राहिणोत् ॥५६॥ १. रोहिणी = २७ नक्षत्रोमांनुं एक नक्षत्र । २. मलिम्लुचः = चोर । ३. चीवर = वस्त्र | २८५

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154