________________
श्री मित्रानन्द मन्त्रीश्वर चरित्रं
धनोऽयं नैव जानाति चौरव्यतिकरात्पुरा । अस्मै महात्मने मूल्यान्मया हारोऽयमर्पितः ॥५२॥ अन्वयः- धनः अयं नैव जानाति चौरव्यतिकरात् पुरा अस्मै महात्मने अयं हार: मया मूल्यात् अर्पितः ॥५२॥ तदयं मुच्यतां माऽस्मिन्नुच्यतां चौर्यदुर्यशः । रोहिणीयोग मात्रात्किं स्यात्कलङ्कीन्दुवद्रविः ॥५३॥ अन्वयः- तत् अयं मुच्यतां अस्मिन् चौर्यदुर्यशः मा उच्यतां, 'रोहिणीयोगमात्रात् रविः किं इन्दुवत् कलङ्कीस्यात् ? ॥५३॥ द्वादशव्रतधर्तायं नासत्यं वदतीत्यथ । सुदत्तवचसा - मुञ्चत्तलारक्षो मलिम्लुचम् ॥५४॥ अन्वयः- अथ अयं द्वादशव्रतधर्ता असत्यं न वदति,
इति सुदत्तवचसा तलारक्षः 'मलिम्लुचं अमुञ्चत् ॥५४॥ असत्यमपि तत्सत्यं यत्प्राणिहितमित्यसौ । असत्ययापि वाचामुं श्रेष्ठी चौरममुञ्चत् ॥५५॥ अन्वयः - असत्यं अपि यत् प्राणिहितं (भवति) तत् सत्यं, इति असो श्रेष्ठी असत्यया वाचा अपि अमुं चौरं अमुञ्चत् ॥५५॥ श्रेष्ठ तं भोजयित्वा च वरे दत्त्वा च चीवरे । नाकृत्येषु मतिः कृत्येत्युक्त्वा च प्राहिणोत्कृती ॥५६॥ अन्वयः- कृती श्रेष्ठी तं भोजयित्वा वरे चीवरे च दत्त्वा, अकृत्येषु मति: न कृत्या इति उक्त्वा प्राहिणोत् ॥५६॥
१. रोहिणी = २७ नक्षत्रोमांनुं एक नक्षत्र । २. मलिम्लुचः = चोर । ३. चीवर = वस्त्र |
२८५