________________
२८४
जने शोचत्यथनिद्रे धननाशं निशात्यये । व्यलसद्दिनकृत्येषु श्रेष्ठी पारितपौषधः ॥४७॥ अन्वयः - अथ निशा 'अत्यये 'उन्निद्रे जने धन- नाशं शोचति, पारित-पौषधः श्रेष्ठी (तु) दिनकृत्येषु व्यलसत् ॥४७॥ क्रमादर्जयतो भाग्यभङ्गीसङ्गीकृतात्मनः । धनधोरणयस्तस्य भूरयोऽप्यभवन्पुनः ॥ ४८ ॥ अन्वयः- भाग्य-भङ्गी-सङ्गी-कृत-आत्मनः क्रमात् अर्जयतः तस्य पुनः अपि भूरयः धन - धोरणयः अभवन् ॥४८॥ स कदाचिदवस्वापविद्याविच्चौरचक्रराट् । एकं तल्लोत्रतो हारं विक्रेतुं प्राप तां पुरीम् ॥४९॥ अन्वयः- कदाचित् अवस्वापविद्यावित् सः चौरचक्रराट्,
तत् लोप्तः एकं हारं विक्रेतुं तां पुरीं प्राप ॥ ४९॥ तं हारं श्रेष्ठिनस्तस्य वणिक्पुत्रो धनाभिधः । उपलक्ष्यार्पयामास तलारक्षाय तस्करम् ॥५०॥ अन्वयः - धन- अभिधः वणिक्पुत्रः तस्य श्रेष्ठिनः तं हारं उपलक्ष्य, तस्करं ४तलारक्षाय अर्पयामास ॥५०॥ तद्विज्ञाय द्रुतं गत्वा श्रेष्ठी तत्र कृपामयः । स्वं वणिक्पुत्रमाक्षिप्य तलारक्षमदोऽवदत् ॥५१॥ अन्वयः - तत् विज्ञाय कृपामयः श्रेष्ठी तत्र द्रुतं गत्वा, स्वं वणिक्पुत्रं आक्षिप्य तलारक्षं अदः अवदत् ॥५१॥
सुलभचरित्राणि-२
१. अत्यय = पूर्ण थवुं, विनाश थवो । २. उन्निद्रे = लको जाग्या त्यारे । ३. लोप्जं चोरेलुं धन । ४. तलारक्ष = कोटवाळ ।
=