________________
श्री मित्रानन्द मन्त्री श्वर चरित्रं
विद्या चौरस्मृता लोकं तत्रामूर्छयताखिलम् । सुदत्ते सा नमस्कारमन्त्रध्याने तुं नास्फुरत् ॥४२॥ अन्वयः- तत्र चौरस्मृता विद्या अखिलं लोकं अमूर्च्छयत्,
सा तु नमस्कारमन्त्र-ध्याने सुदत्ते न अस्फुरत् ॥४२॥ तं पश्यन्तमपश्यन्त एकान्तस्थं मल्लिम्लुचाः । जगृहुस्तद्गृहद्रव्याण्यखिलान्यस्खलन्मुदः ॥४३॥ अन्वयः- एकान्तस्थं पश्यन्तं तं अपश्यन्तः, अस्खलन्-मुदः
२८३
मलिम्लुचा: अखिलानि तद् गृह- द्रव्याणि जगृहुः ||४३|| द्राग्भञ्जन्ति स्म मञ्जुषाः कपाटौघमपाटयन् । द्रव्याय स्पष्टयामासुरमी भूमिगृहाण्यपि ॥४४॥ अन्वयः - द्रव्याय (कृते) अमी मञ्जुषाः द्राग् भञ्जन्ति स्म,
कपाट-’ओघं अपाटयन् भूमिगृहाणि अपि स्पष्टयामासुः ॥४४॥ अहो महात्मनस्तस्य धर्मावष्टम्भयन्त्रितम् । जातेऽप्युत्पातजातेऽस्मिन्न ध्यानाच्चलितं मनः ॥४५॥ अन्वयः- अहो ! अस्मिन् 'उत्पात - जाते जाते अपि तस्य महात्मनः धर्म 'अवष्टंभ-यन्त्रितं मनः ध्यानात् न चलितम् ॥४५॥ अनागतेष्वथागत्य गृह्णत्सु धनपद्धती: । तेषु यातेषु च ध्यानभेदोऽभूत्तस्य न क्वचित् ॥४६॥ अन्वयः - अथ तेषु अनागतेषु, आगत्य धन-पद्धती: गृह्णत्सु, यातेषु च (तेषु) तस्य क्वचित् ध्यान - भेदः न अभूत् ॥४६॥
१. मञ्जुषाः=पेटीओ । २. ओघ = समूह । ३. उत्पातजात = उत्पातनो समूह । ४. अवष्टंभ - टेको ।