________________
सुलभचरित्राणि-२
२८२
अन्वयः - नेत्रामृतं मुनिं नैत्रै: आपीय नत्त्वा तौ नृप - मन्त्रिणौ, कर्णामृतं वचः पातुं न्यविशेताम् ॥३६॥ मुनीशं देशनान्तेऽथ पप्रच्छ पृथिवीपतिः । धन्यस्य कथमस्यासन्विपत्कालेऽपि संपदः ॥३७॥ अन्वयः - अथ देशना अन्ते पृथिवीपतिः मुनीशं पप्रच्छ,
धन्यस्य अस्य विपत्काले अपि संपदः कथं (अभूवन्)? ||३७|| अथाचष्ट मुनिः स्पष्टविभवा भुवि भाति पूः । धन्यभारच्युतेव द्यौः पद्मनेत्रेति विश्रुता ॥ ३८ ॥ अन्वयः- अथ मुनिः आचष्ट स्पष्टविभवा, धन्यभारच्युता द्यौः इव पद्मनेत्रा इति विश्रुता 'पू: भुवि भाति ॥३८॥ तत्रादित्य इति क्ष्मापस्तत्प्रसादास्पदं धनी । श्रेष्ठी सुदत्त इत्यासीज्जिनधर्मधुरन्धरः ॥ ३९ ॥ अन्वयः- तत्र आदित्य इति क्ष्मापः, तत् प्रसाद - आस्पदं धनी जिन - धर्म - धुरन्धरः सुदत्त इति श्रेष्ठी आसीत् ||३९|| सोऽन्यदा पापरोगाणामौषधं पौषधं स्थितः । तस्थौ निशि निशान्तेऽसौ शान्तेन मनसा रसात् ॥४०॥ अन्वयः- अन्यदा सः निशि पाप - रोगाणां औषधं - पौषधं स्थितः, निशा अन्ते असौ रसात् शान्तेन मनसा तस्थौ ||४०|| तदा कश्चिदवस्वाप - विद्या - वेदी तदोकसि । भूरिभीमपरीवारः प्राविशत्तस्कराग्रणीः ॥४१॥ अन्वयः - तदा तद् ओकसि ' अवस्वापविद्या - वेदी,
भूरिभीमपरिवारः कश्चित् तस्कर - अग्रणीः प्राविशत् ॥४१॥
१. द्यौः=स्वर्ग । २. पू=नगरी । ३. अवस्वापविद्यावेदी=अवस्वापिनी=निद्रा, ते विद्यानो जाणकार ।