________________
श्री मित्रानन्द मन्त्रीश्वर चरित्रं
२८१ अथ विस्मयविस्मेरनेत्रपत्रजनेक्षितः । मित्रानन्देन सानन्दः पृथ्वीन्दुः प्राविशत्पुरम् ॥३१॥ अन्वयः- अथ विस्मय-विस्मेर-नेत्रपत्रजनेक्षितः,
____ सानन्दः पृथ्वीन्दुः मित्रानन्देन पुरं प्राविशत् ॥३१॥ उपायैः फलितं श्रीभिर्मणिमाहात्म्यतोऽधिकम् । ववृधे च नरेन्द्रेण मन्त्रिणो मैत्र्यमद्भुतम् ॥३२॥ अन्वयः- मणिमाहात्म्यतः उपायैः श्रीभिः अधिकं फलितं च नरेन्द्रेण
मन्त्रिणः मैत्र्यं अद्भुतं ववृधे ॥३२॥ कदापि भानुभूपेन सहोत्तंसितसंसदम् । आरादारामिकोऽभ्येत्य तं धर्मज्ञं व्यजिज्ञपत् ॥३३॥ अन्वयः- कदा अपि भानुभूपेन सह उत्तंसित-संसदं तं धर्मज्ञं आरात्
अभ्येत्य आरामिकः व्यजिज्ञपत् ॥३३॥ दिष्ट्याद्य वर्धसे स्वामिन्नङ्गी धर्म इवागमत् । मुनिः सुमन्धरो नाम ज्ञानी लीलावनीं तव ॥३४॥ अन्वयः- (हे) स्वामिन् ! अद्य दिष्ट्य वर्धसे, अङ्गी धर्मः इव
सुमन्धर नाम ज्ञानी मुनिः तव लीलावनी आगमत् ॥३४॥ प्रीत्याथ तस्मै दत्त्वाङ्गभूषणानि क्षणेन सः । जगामारामजगतीं जगतिपतिना समम् ॥३५॥ अन्वयः- अथ तस्मै प्रीत्या अङ्ग-भूषणानि दत्त्वा, सः क्षणेन
जगतिपतिना समं आराम-जगतीं जगाम ॥३५॥ मुनि नेत्रामृतं नैत्रैरापीय नृप-मन्त्रिणौ । नत्वाथ न्यविशेतां तौ पातुं कर्णामृतं वचः ॥३६॥ १. विस्मेर विकसित । २. अङ्गी = साक्षात् ।