________________
सुलभचरित्राणि २
२८०
अन्वयः - स्वस्थीभूय कैश्चित् जनैः परिवृतः अथ कृती
'भूजानिः यत्र मित्रानन्दः स्वयं स्थितः तत्र ययौ ॥२५॥ अभ्युत्तस्थौ तदा मन्त्री निर्माल्य नृपतिं पुरः । इष्टे हि दर्शनं यावद्विरोधो युज्यते सताम् ॥२६॥ अन्वयः - तदा मन्त्रीः नृपतिं निर्माल्य पुरः अभ्युत्तस्थौ,
हि सतां विरोधः यावत् इष्टे दर्शनं ( तावत्) युज्यते ||२६|| प्रणिपत्याथ पृथ्वीन्दुर्निष्कपीठे निवेशितः । बलादर्धासने स्वस्य सचिवं न्यस्य योऽवदत् ॥२७॥ अन्वयः- अथ प्रणिपत्य पृथ्वीन्दुः निष्कपीठे निवेशितः,
सः बलात् स्वस्य अर्ध-आसने सचिवं न्यस्य अवदत् ॥२७॥ वरेण्यं पुण्यमस्त्येव शौर्यादिव्यवसायतः । पुण्यभाजां हि जायन्ते किङ्करा व्यवसायिनः ॥२८॥ अन्वयः- शौर्यादिव्यवसायतः पुण्यं एव वरेण्यं अस्ति,
हि व्यवसायिनः पुण्यभाजां किङ्कराः जायन्ते ॥२८॥ भवद्भाग्योदयः कश्चिदयमीदृक् चमूचयः । येनाहं तव भर्तापि भृत्यवद्धामि तेऽग्रतः ॥ २९॥ अन्वयः - कश्चिद् अयं भवत् भाग्योदयः ईदृक् चमूचयः,
येन अहं तव भर्ता अपि ते अग्रतः भृत्यवत् भामि ||२९|| किन्त्वसावियती भूतिर्बभूव भवतः कुतः । इत्युक्तो भूभुजा मन्त्री स्वचरित्रमचीकथत् ॥३०॥ अन्वयः- किन्तु भवतः असौ इयती भूतिः कुतः बभूव ? इति भूभुजा उक्तः मन्त्री स्व-चरित्रं अचीकथत् ॥३०॥
१. भूजानि = राजा, २. निष्कपीठे - सोनाना आसन उपर, ३. वरेण्यं = श्रेष्ठ