Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२८७
श्री मित्रानन्द मन्त्रीश्वर चरित्रं प्रभो द्रक्ष्यति तं मन्त्रीत्युक्ते राज्ञा मुनिर्जगौ । मन्त्रिणो जीवितान्ते तद्दर्शनं भावि मुक्तये ॥६३॥ अन्वयः- (हे) प्रभो ! तं मन्त्री द्रक्ष्यति ? इति राज्ञा उक्ते (सति) मुनिः
जगौ, मन्त्रिणः जीवितान्ते मुक्तये तद् दर्शनं भावि ॥६३॥ यतो नन्दीश्वरे देवानन्तुमस्याभिलाषिणः । समयज्ञसुरानीतविमानस्थस्य गच्छतः ॥६४॥ शुद्धध्यानलयस्यान्तकृतकेवलिनोऽयुजः । लवणाब्धेरुपर्येव मुक्तिर्भूप भविष्यति ॥६५॥ युग्मम् ॥ अन्वयः- (हे) भूप ! यतः नन्दीश्वरे देवान् नन्तुं अभिलाषिणः,
समय ज्ञ-सुर-आनीत विमान-स्थस्य गच्छतः ॥६४॥ शुद्ध-ध्यानलयस्य, अन्तकृतकेवलिनः अयुजः, अस्य लवण
अब्धेः उपरि एव मुक्तिः भविष्यति ॥६५॥ युग्मम् ॥ इत्याकर्ण्य मुनेर्वाचमुदञ्चद्धर्मबुद्धयः । सर्वेऽप्युर्वीश्वराधास्ते सानन्दा मन्दिराण्यगुः ॥६६॥ अन्वयः- इति मुनेः वाचं आकर्ण्य उदञ्चद् धर्म बुद्धयः,
सानन्दाः उर्वीश्वराद्याः ते सर्वे अपि मन्दिराणि अगुः ॥६६।। एवं प्राक् पुण्यपूर्णधि मित्रानन्दनिदर्शनात् । भजन्तु भवपेषाय पौषधे सुधियो धियम् ॥६७॥ अन्वयः- एवं प्राक् पुण्यपूर्ण ऋद्धि मित्रानन्द निदर्शनात् सुधियः
भवपेषाय पौषधे धियं भजन्तु ॥६७॥
इति पौषधव्रत फलोपदर्शने मित्रानन्दमन्त्रिचरित्रं समाप्तम् ॥

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154