Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२७८
सुलभचरित्राणि-२ अन्वयः- यत् तृषितान् आह्वातुं अब्जच्छलात् 'लोल
लहरीहस्तगणं 'भृङ्ग-घन-स्वनाः वक्त्रकोटीः दधौ ॥१५॥ स कृतस्नानपानोऽत्र स्थितः पाल्यां तरोस्तले । नभसो रभसोत्तीर्णमपश्यत्पुरुषं पुरः ॥१६॥ अन्वयः- अत्र कृत-स्रानपानः पाल्यां तरोः तले स्थितः सः
नभसः रभसा पुरः उत्तीर्णं पुरुषं अपश्यत् ॥१६॥ सन्ध्यायां चिन्तितं सैन्यं दास्यत्येष मणिस्तव । पश्चादपि श्रियं भूरि पूरयिष्यति पूजितः ॥१७॥ इत्युक्त्वा किं किमित्युक्तेरुच्चैश्चित्रस्य मन्त्रिणः । पाणौ चिन्तामणिं मुक्त्वा स द्यां दिव्यनरोऽगमत् ॥१८॥
युग्मम्॥ अन्वयः- एष मणिः सन्ध्यायां तव चिन्तितं सैन्यं दास्यति,
पश्चात् अपि पूजितः भूरि श्रियं पूरयिष्यति ॥१७॥ इति उक्त्वा किं किं इति उक्तेः उच्चैः चित्रस्य मन्त्रिणः पाणौ
चिन्तामणि मुक्त्वा सः दिव्यनरः द्यां अगमत् ॥१८॥युग्मम्।। अथाब्जैर्मणिमभ्यर्च्य रोमाञ्चितवपुश्चिरम् । विरचय्य चमूचक्र सायं सोऽगात्पुरं प्रति ॥१९॥ अन्वयः- अथ रोमाञ्चित-वपुः सः अब्जैः मणि चिरं अभ्यर्च्य चमू
चक्रं विरचय्य सायं पुरंप्रति अगात् ॥१९।। गजवाजिरथाभोगमग्ननिस्वाननिस्वनः । तैर्बलैर्वलयामास मित्रानन्दोऽथ तत्पुरम् ॥२०॥ १. लोल लहरी-चपळ लहर, २. भृङ्गः (भ्रमरा) । घन=समूह स्वनाः अवाज) भृङ्गघनस्वनाः भमराओना समूहनो गणगणाट ।

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154