Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 120
________________ २७९ श्री मित्रानन्द मन्त्रीश्वर चरित्रं अन्वयः- अथ गज-वाजिरथ आभोगमग्न-निस्वान-निस्वनः मित्रानन्दः तैः "बलैः तत्पुरं 'वलयामास ॥२०॥ कश्चकार पुरीरोधमिति बोधकृते नृपः । .. हेरिकान्प्रेरयामास, तान्प्रेक्ष्य सचिवोऽब्रवीत् ॥२१॥ अन्वयः- कः पुरीरोधं चकार ? इति बोधकृते नृपः हेरिकान् प्रेरयामास, तान् प्रेक्ष्य सचिवः अब्रवीत् ॥२१॥ भूजागर्वपराभूतभूरिभाग्यभरोद्भवः । अये ! मद्वचसा वाच्यो भवद्भिरिति भूपतिः ॥२२॥ अन्वयः- अये ! भवद्भिः भूजा-गर्व-पराभूत-भूरि-भाग्यभर-उद्भवः ____ भूपतिः मद् वचसा इति वाच्यः ॥२२॥ पुण्याप्तसैन्यसन्दर्भो मित्रानन्दः समागमत् । विक्रमाक्रान्तविश्वोऽसि संप्रहर्तुं बहिर्भव ॥२३॥ अन्वयः- पुण्य-आप्त सैन्य-सन्दर्भः मित्रानन्दः समागमत्, (त्वं) विक्रम -आक्रान्तविश्वः असि संप्रहर्तुं बहिः भव ॥२३॥ एवमाभाष्य संभूष्य प्रहिताः सचिवेन ते । गत्वा व्यज्ञपयन् राज्ञे सर्वमथ यथातथम् ॥२४॥ अन्वयः- एवं आभाष्य संभूष्य सचिवेन प्रहिताः ते, अथ गत्वा राज्ञे सर्वं यथातथं व्यज्ञपयन् ॥२४॥ स्वस्थीभूयाथ भूजानिः कैश्चित् परिवृतो जनैः । कृती तत्र ययौ यत्र मित्रानन्दः स्वयं स्थितः ॥२५॥ १. आभोगमग्न जग्यामां भरायेला । २. निस्वान-शब्द, अवाज । ३. निस्वन=शब्द, अवाजवाळो थयेलो (अर्थात् समृद्धिमान) । ४. बलं सैन्य । ५. वलयामास=(वल =जवादि, सेट् वलते-पाछा वळवू) । ६. हेरिक: जासूस ।

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154