Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३०४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[किति] क् इत् अनुबन्धो यस्याऽसौ कित्, तस्मिन् । नेति निवृत्तम्, प्राप्तेरभावात् ।
[ईजतः, ईजुः] 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । परोक्षा अतुस्-उस् । अनेन वृत् य० → इ० । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) “इज्'द्विः । 'व्यञ्जनस्याऽनादेर्लुक' (४।१।४४) जलुक् । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः ।
[इज्यते] यज् । वर्त्त० ते । 'क्यः शिति' (३।४७०) क्यप्र० → य । अनेन वृत् य० → इ० । [इज्यात्] यज् । आशीः क्यात् → यात् । अनेन वृत् य० → इ० ।
[इष्टः] यज् । इज्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । अनेन वृत् य० → इ० । 'यज-सृज-मृजराज-भ्राज-भ्रस्ज-वस्च-परिवाजः शः षः' (२।१८७) ज० → ष० । 'तवर्गस्य श्ववर्ग०' (१३।६०) त० → ट० । प्रथमा सि ।
[इष्टवान्] यज् । यजति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन य्वृत् य० → इ० । 'यजसृज-मृज०' (२।१९८७) ज० → ष० । 'तवर्गस्य श्ववर्ग०' (१1३।६०) त० →ट० । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘पदस्य' (२।१।८९) तलोपः ।
न] यज् । इयाज । 'तत्र क्वसु-कानौ तद्वत्' (५।२।२) क्वसुप्र० → वस् । अनेन वृत् य० → इ० । 'घसेकस्वराऽऽतः क्वसोः' (४।४।८२) इट् । द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) अनादिव्यञ्जनलोपः । 'समानानां०' (१।२।१) दीर्घः ।
[इष्टवा यज् । यजनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन वृत् य० → इ० । 'यजसृज-मृज०' (२।११८७) ज० → ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० ।
[इष्टिः] यज् । यजनं = इष्टिः । 'वादिभ्यः' (५।३।९२) क्तिप्र० →ति । अनेन वृत् य० → इ० । 'यजसृज-मृज-राज०' (२।१।८७) ज० → ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ट० । प्रथमा सि । ‘सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (११३५३) विसर्गः ।
[ऊयतुः] 'वेंग तन्तुसन्ताने' (९९२) वे । परोक्षा अतुस् । 'वेर्वय्' (४।४।१९) वय् । अनेन य्वृत् । द्वि० "उय" । 'व्यञ्जन०' (४।१।४४) यलुक् । 'समानानां०' (१।२।१) दीर्घः ।
[ऊयुः] वे । परीक्षा उस् । शेषं 'ऊयतुः' वत् ।
[ऊयते वे । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० →य । अनेन य्वृत् । दीर्घश्च्चि -यङ्-यक' (४।३।१०८) दीर्घः ।
[ऊयात्] वे । आशी: क्यात्प्र० → यात् । अनेन य्वृत् । 'दीर्घश्च्चि-यङ्' (४।३।१०८) दीर्घः ।
[उतः] वे | ‘आत् सन्ध्यक्षरस्य' (४।२।१) वा । ऊयते स्म । 'क्त-क्तवत्' (५।१।१७४) क्तप्र० → त । अनेन वृत् वा० → उ० । प्रथमा सि |
[उतवान्] वे । वयति स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० →तवत् । अनेन य्वृत् वा० →उ० । प्रथमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400