Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
३२५
स्वर-हन-गमोः सनि धुटि ।।४।१।१०४।। स्विरहनगमोः] स्वरश्च हन् च (हनश्च) गमुश्च = स्वरहनगमु, तस्य । [सनि] सन् सप्तमी ङि । [धुटि] धुट् सप्तमी ङि ।
[चिचीषति] 'चिंगट् चयने' (१२९०) चि । चेतुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० → स । अनेन दीर्घः । ‘सन्-यडश्च' (४।१।३) “ची"द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त्तः तिव् ।
निनूषति] ‘णुक स्तुतौ' (१०८१) णु । 'पाठे धात्वादेर्णो नः' (२।३।९७) नु । नवितुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । अनेन दीर्घः । 'सन्-यडश्च' (४।१।३) "नू"द्विः । 'हस्वः' (४१।३९) ह्रस्वः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० तिव ।
[चिकीर्षति] 'डुबंग करणे' (८८८) कृ । कर्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । अनेन दीर्घः । 'कृतां क्डितीर्' (४।४।११६) इर् । 'सन्-यडश्च' (४।१३) किर्द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) रलुक् । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'भ्वादेर्नामिनो दीर्घो र्वोर्व्यञ्जने' (२।१।६३) दीर्घः । 'नाम्यन्तस्था०' (२१३।१५) षत्वम् । वर्त० तिव् ।
[जिघांसति] 'हनंक हिंसा-गत्योः' (११००) हन् । हन्तुमिच्छति । सन्प्र० । अनेन दीर्घः । 'सन्-यडश्च' (४।१३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) नलुक् । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'म्नां धुड्वर्गे०' (१।३।३९) अनुनासिकः (?) । ('शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः) ।
[जिगांस्यते] 'इंण्क् गतौ' (१०७५) इ । एतुमिच्छति । सन्प० । 'सनीडश्च' (४।४।२५) गमु० → गम् । अनेन दीर्घः । ‘सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४१।४४) मलुक् । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'सन्यस्य' (४११५९) इ । इरूपसाम्यादिणस्थानस्यापि' 'समो गमृच्छि-प्रच्छि०' (३।३।८४) इत्यस्य प्रवृत्तौ 'प्राग्वत्' (३।३।७४) इति प्रवर्त्तते । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य ।
[संजिगांसते] सम्-इ । समेतुमिच्छति । सन्प्र० । 'सनीडश्च' (४।४।२५) गमु० → गम् । अनेन दीर्घः । 'सन्यडश्च' (४।१३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) मलुक् । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'सन्यस्य' (४।१५९) इ । इरूपसाम्यादिणस्थानस्यापि 'समो गमृच्छि-प्रच्छि०' (३।३।८४) इत्यस्य प्रवृत्तौ ‘प्राग्वत्' (३।३।७४) इति प्रवर्त्तते । वर्त० ते । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[अधिजिगांस्यते माता] अधि 'इंक् स्मरणे' (१०७४) इ । अध्येतुमिष्यते । सन्प्र० । 'सनीडश्च' (४।४।२५) इ० → “गमु" आदेशः । अनेन दीर्घः । 'सन्-यडश्च' (४।१३) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक'(४।१।४४) मलुक । 'ग-होर्जः' (४।१।४०) ग० ज० । 'सन्यस्य' (४।१।५९) इ । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'अतः' (४।३।८२) अलोपः ।
[अधिजिगांसते सूत्रम् अधि 'इंफू अध्ययने' (११०४) इ । अध्येतुमिच्छति । सन्प्र० । 'सनीडश्च' (४।४।२५)
P.卐 "गा" द्विः । 'हूस्वः' (४।१।३९) हूस्वः ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400