Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३२४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
NRNA
गुणावन्यादेः' (४191४८) गु० ए । वर्त० ते ।
[वेविच्यते] 'व्यचत् व्याजीकरणे' (१४३२) व्यच् । भृशं पुनः पुनर्वा विचति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यप्र० । 'व्यचोऽनसि' (४।१९८२) य्वृत् । 'सन्-यडश्च' (४।१३) “विच्"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) यलुक् । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । वर्त० ते ।।छ।।
दीर्घमवोऽन्त्यम् ।।४।१।१०३॥ [दीर्घम] दीर्घ प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (११४१४६) अलोपः ।
[अवः] न वा = अवा । 'नञत्' (३।२।१२५) न० → अ०, तस्य = अवः । पष्ठी ङस् । 'लुगाऽऽतोऽनापः' (२।११०७) आलोपः ।
[अन्त्यम्] अन्त । अन्ते भवं = अन्त्यम् । 'दिगादिदेहांशाद् यः' (६।३।१२४) यप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । सि-अम् ।
[जीनः] 'ज्यांश हानौ' (१५२४) ज्या ।है जिनाति स्म । 'गत्यर्था-5कर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'ज्या-व्यधः क्डिति' (४।१1८१) यवृत् । अनेन दीर्घः । 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न० ।
[जीनवान्] जिनाति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । ‘ज्या-व्यध-क्ङिति' (४।१।८१) वृत् । अनेन दीर्घः । 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न० ।
[जिनाति ज्या । वर्त्त० तिव् । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । 'ज्या-व्यधः क्डिति' (४।१।८१) यवृत् । अनेन दीर्घः । 'प्वादेहूस्वः' (४।२।१०५) ह्रस्वः ।
[संवीतः] सम् 'व्यंग् संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या । संवीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'यजादि-वचेः किति' (४।१७९) य्वृत् इ० । अनेन दीर्घः ।
हूतः] 'हॅग् स्पर्धा-शब्दयोः' (९९४) हे । 'आत् सन्ध्यक्षरस्य' (४।२११) ह्वा । हूयते स्म । क्तप्र० → त । 'यजादिवचेः किति' (४।१७९) वृत् । अनेन दीर्घः ।
[शूनः] 'ट्वोश्वि गति-वृद्ध्योः ' (९९७) श्चि । शूयते स्म । क्तप्र० →त । 'यजादि-वचेः किति' (४।१७९) य्वृत् । अनेन दीर्घः । ‘सूयत्याद्योदितः' (४।२।७०) त० → न० ।
[उतः] 'वेंग तन्तुसन्ताने' (९९२) वे । 'आत् सन्ध्यक्षरस्य' (४।२।१) वा । ऊयते स्म । क्तप्र० । 'यजादि-वचेः किति' (४।१७९) वृत् ।
[उतवान्] वयति स्म । 'क्त-क्तवतू' (५1१1१७४) क्तवतुप्र० → तवत् । 'यजादि० (४/१७९) वृत् ।
[सुप्तः] 'जिष्वपंक् शये' (१०८८) ष्वप् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्वप् । स्वपिति स्म । 'ज्ञानेच्छाऽर्चार्थ-जीच्छील्यादिभ्यः क्तः' (५।२।९२) क्तप्र० → त । 'स्वपेर्यङ्-डे च' (४।१।८०) य्वृत् व० → उ० ।
[उप्तः] 'डुवपी बीजसंताने' (९९५) वप् । उप्यते स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५1१1११) क्तप्र० →त । 'यजादि:वचेः किति' (४१७९) य्वृत् व० → उ० । प्रथमा सि । 'सो रुः' (२११७२) स० → ० । 'रः पदान्ते०' (१३५३) विसर्गः ।छ।'
P.
जीयते स्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400