Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३३०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
व० → ऊट् । 'इवर्णादरस्वे०' (१।२।२१) यत् ।
म [हिरण्यष्ठयूः] 'ष्ठिवू निरसने' (११६६) ष्ठिव् । हिरण्यं हिरण्येन वा ष्ठीव्यतीति क्विप् । अनेन व० → ऊट । 'इवर्णादेरस्वे०' (१।२।२१) यत् ।
[द्यूतः] दिव् । दीव्यति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन व० → ऊट् । 'इवर्णादेरस्वे०' (१।२।२१) यत् ।
द्यूतवान] दिव । दीव्यति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन व० → ऊट । 'इवर्णादेरस्वे०' (१।२।२१) यत् ।
[दुबूषति] दिव् । देवितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । अनेन व० → ऊट । 'इवर्णादेरस्वे०' (१।२।२१) यत् । ‘सन्-यडश्च' (४।१।३) “धू"द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) यलुक् । 'हस्वः' (४।१।३९) ह्रस्वः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
वकारस्य विकल्पेनानुनासिकत्वाद्वन्-क्वनिपोः
[सुस्योवा, सुसेवा] सु “षिवूच् उतौ' (११६४) षिव् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिव् । सुष्टु सीव्यतीति । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) वन्प्र० । अनेन व० → ऊट । 'इवर्णादेरस्वे०' (१।२।२१) यत् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । पक्षे सुसेवा । 'वोः प्वयव्यञ्जने लुक्' (४।४।१२१) वलोपः ।
[सुस्यूवा, सुसित्वा] सु ‘षिवूच् उतौ' (११६४) षिव् । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) सिव् । सुष्ठु सीव्यतीति । 'मन्-वन्-क्वनिप्-विच क्वचित्' (५।१।१४७) क्वनिप्प्र० → वन् । अनेन व० → ऊट । 'इवर्णादेरस्वे०' (१।२।२१) यत् । पक्षे सुसित्वा । 'य्वोः प्वव्यञ्जने लुक्' (४।४।१२१) वलुक् । 'हस्वस्य तः पित्कृति' (४।४।११३) तोऽन्तः ।
[धुभ्याम्] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । दीव्यतीति । 'दिवेर्डिव' (उणा० ९४९) डिद इवप्र० । तृतीया भ्याम् । 'उः पदान्तेऽनूत्' (२।१।११८) व० → उ० । 'इवर्णादेरस्वे०' (१।२।२१) यत् ।
[धुभिः] दिव् । दीव्यतीति । 'दिवेर्डिव्' (उणा० ९४९) डिद् इव्प० । तृतीया भिस् । 'उः पदान्तेऽनूत्' (२।१।११८) व० → उ० । ‘इवर्णादेरस्वे०' (१।२।२१) यत् । 1 [धूभ्याम्] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । दीव्यतीति क्विप् । अनेन व० → ऊट् । अप्रयोगीत्' (११।३७) क्विप्लोपः । भ्याम् सानुबन्धकत्वात् दिव ऊटि कृते 'उः पदान्तेऽनूत्' (२।१।११८) इति न भवति ।
[भिः] दिव् । दीव्यतीति क्विप् । अनेन व० → ऊट् । 'अप्रयोगीत्' (१।१।३७) विप्लोपः । भिस् सानुबन्धकत्वात् दिव ऊटि कृते 'उ: पदान्तेऽनूत्' (२।१1११८) इति न भवति ।
[देद्योति दिव् । भृशं पुनः पुनर्वा दीव्यति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्य० । 'सन्-यडश्च' (४।१३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यङ्लुप्, ततो द्विः । अनेन व० → ऊट् । वर्त्तः तिव् ।
[देद्योषि] दिव् । भृशं पुनः पुनर्वा दीव्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'सन्-यडश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यङ्लुप्, ततो द्विः । अनेन व० → ऊट् । वर्त० सिव ।
[सेष्योति] सिव् । भृशं पुनः पुनर्वा सीव्यति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यङ्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यड्लुप्, ततो द्विः । अनेन व० → ऊट । वर्त्त०
तिव् ।
5 मध्यमवृत्तौ - बृहवृत्तौ च "हिरण्ययुः" ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400