Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 357
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [नियोज्यः] 'युजुंपी योगे' (१४७६) युज्, निपूर्व० । नियोक्तुं शक्यः । ' शक्तार्ह कृत्याश्च' ( ५ | ४ | ३५) घ्यण्प्र० → य । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ओ । ३४२ [प्रयोज्यः] 'युजूंपी योगे' (१४७६) युज्, प्रपूर्व० । प्रयोक्तुं शक्यः । शक्ता कृत्याश्च' (५/४१३५) घ्यण्प्र० य । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४ ) गु० ओ । [नियोग्यः ] नितरां युज्यते । 'ऋवर्ण व्यञ्जनाद् ध्यण्' (५।१।१७) ध्यण्प्र०य । लघोरुपान्त्यस्य' (४।३।४ ) गु० ओ । 'क्तेऽनिटश्च - जो: क- गौ घिति' ( ४।१।१११ ) ज०म० । [ प्रयोग्यः ] प्रयुज्यते । 'ॠवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र० य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) ज०ग० ॥ छ ॥ भुजो भक्ष्ये ||४|१|११७॥ [भुजः] भुज् षष्ठी डस् । [भक्ष्ये] भक्ष्य सप्तमी ङि । [भोज्यमन्नम् ] 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । भुज्यत इति । 'ॠवर्ण व्यञ्जनाद् ध्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [भोज्या यवागूः ] भुज्यत इति भोज्या । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'आत्' (२।४।१८) आप्प्र ० आ । [भोग्यः कम्बलः ] भुज्यत इति भोग्यः । 'ॠवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र०य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । 'क्तेऽनिटश्च - जो: क- गौ घिति' (४।१।१११ ) ज०ग० । 'आत्' (२।४।१८) आप्प्र० आ । अपूपाः पालनीया इत्यर्थः ||छ || भक्ष्यमभ्यवहार्यमात्रं न खरविशदमेवेति कठिनप्रत्यक्षमेव कठोरप्रत्यक्षमेवेत्यर्थः अखरविशदमपि भक्षं ( क्ष्यं) दृष्टमिति दृष्टान्तमाह-अब्भक्ष्येति-अ ( आ ) पो द्रवरूपं न कठिनं प्रत्यक्षं त्वस्ति वायुस्तु कठिनो न प्रत्यक्षस्तस्यानुमानेन गम्यत्वात् तेन भोज्यं पय इत्यादि सिद्धम् । अब्भक्षतीत्येवंशीलः । ' शीलि - कामि - भक्ष्याचरीक्षि- क्षमो णः' (५।१।७३) प्र० अ, अपूक्षः (पः ) वायुभक्षः ( क्ष्यः ) || छ । त्यज-यज-प्रवचः ||४|१|११८॥ [ त्यजयजप्रवचः ] त्यज् च (जश्च ) यज् च (जश्च ) प्रवच्च = त्यज् (ज) यज्(ज) प्रवच्, तस्य । [त्याज्यम्] ‘त्यजं हानौ' (१७२) त्यज् । त्यज्यत इति त्याज्यम् । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र० य । 'ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः । [याज्यम्] 'यजीं देवपूजा-सङ्गतिकरण- दानेषु' (९९१) यज् । इज्यत इति । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७) घ्यण्प्र० → य । 'ञ्णिति' (४ | ३ |५० ) उपान्त्यवृद्धिः । [प्रवाच्यो नाम पाठविशेषः ] 'वचंक् भाषणे' (१०९६) वच् प्रपूर्व० । पोच्यत इति । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' ( ५1१/१७) घ्यण्प्र०य । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । प्रवाच्यो नाम पाठविशेषः, तदुपलक्षितो ग्रन्थोऽप्युच्यते, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400