Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 355
________________ ३४० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । w wwwwwwwwwwwwwwwwwwwwwwwwwtee wwwwwne न वञ्चर्गतौ ।।४।१११३।। [न] न प्रथमा सि । [वञ्चेः] वञ्चि षष्ठी डस् । गतौ] गति सप्तमी ङि । - [वञ्चम वञ्चन्ति] 'वशू गतौ' (१०६) वश्च । वच्यत इति । घञप्र० । द्वितीया अम् । वञ्च । वर्त्त० अन्ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । गन्तव्यं गच्छतीत्यर्थः । यदुक्तम् - पश्यैते व्याधवा—ण्यसडकुले वित्तवत्तमाः । रात्रावपि महाऽरण्ये वश्यं वञ्चन्ति वाणिजाः ।।१।। [व्याधवार्कण्यसड्कुले वृक एव = वार्केण्यः । 'वृकाट्टेण्यण' (७।३।६४) टेण्यणप्र० → एण्य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धि: आर् । व्याधश्च वार्केण्यश्च = व्याधवाण्यौ , ताभ्यां सङ्कुलम्, तस्मिन् । [वित्तवत्तमाः] वित्त । वित्तं विद्यते येषां ते = वित्तवन्तः । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः' (२।१।९४) म० → व० । प्रकृष्टा वित्तवन्तः = वित्तवत्तमाः । 'प्रकृष्टे तमप्' (७।३।५) तमप्प० → तम । प्रथमा जस् । [वाणिजाः] ‘पणि व्यवहार-स्तुत्योः ' (७१०) पण । 'गुपौ-धूप-विच्छि-पणि-पनेरायः' (३।४19) आयप्र० । पणायत इति । 'भृ-पणिभ्यामिज भुरवणौ च' (उणा० ८७५) इप्र० पस्य व० । वणिज एव = वाणिजाः । 'प्रज्ञादिभ्योऽण' (७।२।१६५) अण्प्र० → अ । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । प्रथमा जस् । [वर्ल्ड काष्ठम् वच्यत इति । 'भावा-ऽकोः ' (५।३।१८) घञ्प्र० । 'क्तेऽनिटश्चजोः क-गौ घिति' (४191१११) च० → क० । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न० → ङ० । सि-अम् । काष्ठ सि-अम् । कुटिलमित्यर्थः ।।छ।। यजेर्यज्ञाङ्गे ।।४।१।११४।। [यजेः] यजि षष्ठी डस् । [यज्ञाङ्गे] यज्ञस्य अङ्गं = यज्ञाङ्गम्, तस्मिन् । [पञ्च प्रयाजाः] पञ्चन् प्रथमा जस् । ‘डति-ष्णः संख्याया लुप्' (१।४।५४) जसलुप् । 'यजी देवपूजा-सङ्गतिकरणदानेषु' (९९१) यज्, प्रोपसर्गपूर्व० । प्रेज्यन्त एभिरिति । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प० । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [त्रयोऽनुयाजाः] त्रि प्रथमा जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय' (१।२।२३) अय् । अन्विज्यन्ते एभिरिति । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० । अनुयजनानि वा । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । . [एकादशोपयाजाः] उपेज्यन्ते एभिरिति । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० । उपयजनानि वा । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । “णिति' (४।३।५०) उपान्त्यवृद्धिः । 9 मध्यमवृत्तौ-बृहद्वृत्तौ च वञ्चति । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400