________________
३४०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
w
wwwwwwwwwwwwwwwwwwwwwwwwwtee
wwwwwne
न वञ्चर्गतौ ।।४।१११३।।
[न] न प्रथमा सि ।
[वञ्चेः] वञ्चि षष्ठी डस् । गतौ] गति सप्तमी ङि ।
-
[वञ्चम वञ्चन्ति] 'वशू गतौ' (१०६) वश्च । वच्यत इति । घञप्र० । द्वितीया अम् । वञ्च । वर्त्त० अन्ति । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । गन्तव्यं गच्छतीत्यर्थः । यदुक्तम् - पश्यैते व्याधवा—ण्यसडकुले वित्तवत्तमाः ।
रात्रावपि महाऽरण्ये वश्यं वञ्चन्ति वाणिजाः ।।१।।
[व्याधवार्कण्यसड्कुले वृक एव = वार्केण्यः । 'वृकाट्टेण्यण' (७।३।६४) टेण्यणप्र० → एण्य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धि: आर् । व्याधश्च वार्केण्यश्च = व्याधवाण्यौ , ताभ्यां सङ्कुलम्, तस्मिन् ।
[वित्तवत्तमाः] वित्त । वित्तं विद्यते येषां ते = वित्तवन्तः । 'तदस्याऽस्त्यस्मिन्निति मतुः' (७।२।१) मतुप्र० → मत् । 'मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः' (२।१।९४) म० → व० । प्रकृष्टा वित्तवन्तः = वित्तवत्तमाः । 'प्रकृष्टे तमप्' (७।३।५) तमप्प० → तम । प्रथमा जस् ।
[वाणिजाः] ‘पणि व्यवहार-स्तुत्योः ' (७१०) पण । 'गुपौ-धूप-विच्छि-पणि-पनेरायः' (३।४19) आयप्र० । पणायत इति । 'भृ-पणिभ्यामिज भुरवणौ च' (उणा० ८७५) इप्र० पस्य व० । वणिज एव = वाणिजाः । 'प्रज्ञादिभ्योऽण' (७।२।१६५) अण्प्र० → अ । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । प्रथमा जस् ।
[वर्ल्ड काष्ठम् वच्यत इति । 'भावा-ऽकोः ' (५।३।१८) घञ्प्र० । 'क्तेऽनिटश्चजोः क-गौ घिति' (४191१११) च० → क० । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न० → ङ० । सि-अम् । काष्ठ सि-अम् । कुटिलमित्यर्थः ।।छ।।
यजेर्यज्ञाङ्गे ।।४।१।११४।।
[यजेः] यजि षष्ठी डस् ।
[यज्ञाङ्गे] यज्ञस्य अङ्गं = यज्ञाङ्गम्, तस्मिन् ।
[पञ्च प्रयाजाः] पञ्चन् प्रथमा जस् । ‘डति-ष्णः संख्याया लुप्' (१।४।५४) जसलुप् । 'यजी देवपूजा-सङ्गतिकरणदानेषु' (९९१) यज्, प्रोपसर्गपूर्व० । प्रेज्यन्त एभिरिति । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प० । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[त्रयोऽनुयाजाः] त्रि प्रथमा जस् । 'जस्येदोत्' (१।४।२२) ए । 'एदैतोऽयाय' (१।२।२३) अय् । अन्विज्यन्ते एभिरिति । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० । अनुयजनानि वा । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
. [एकादशोपयाजाः] उपेज्यन्ते एभिरिति । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० । उपयजनानि वा । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । “णिति' (४।३।५०) उपान्त्यवृद्धिः ।
9 मध्यमवृत्तौ-बृहद्वृत्तौ च वञ्चति ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org