SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य प्रथमः पादः ॥ 'अच्' (५।१।४९ ) अच्प्र० अ । 'स्था-सेनि-सेध-सिच-सच द्वित्वेऽपि ' (२।३।४०) स० [अनुषङ्गः] सञ्ज्, अनुपूर्व० । अनुषजते (ति) । 'अच्' (५।११४९ ) अच्प्र० → अ द्वित्वेऽपि ' (२।३।४०) स०प० । अनेन निपातः । [मद्गुः ] 'टुमस्जत् शुद्धौ' (१३५२) मस्ज् । मज्जतीति । 'भृ-मृ-तृ-त्सरि-तनि- धन्यनि-मनि- मस्जि-शी- वटि-कटि-पटिगडि-चञ्च्यसि-वसि-त्रपि-शृ-स्वृ-स्निहि-क्लिदि- कन्दीन्दि - विन्द्यन्दि-बन्ध्यणि- लोष्टि- कुन्थिभ्य उ:' ( उणा० ७१६) उप्र० । अत्र अनेन जस्य गत्वे, ‘निमित्ताभावे० ' ( वक्षस्कार (१) / सूत्र (२९)) शविवृतिदन्त्यसकारावस्थाने 'तृतीयस्तृतीय- चतुर्थे ' (१।३।४९ ) इत्यनेन दन्त्यसस्य दत्वम् । [भृगुः ] 'भ्रस्जत् पाके' (१३१६) भ्रस्ज् । भृज्जतीति । 'स्पशि- भ्रस्जेः स्लुक् च' (उणा० ७३१) किद् उप्र० सलोपश्च । अनेन भृगुनिपातः । ३३९ प० । अनेन निपातः । । 'स्था-सेनि - सेध - सिच-सञ्जां [गोयोगः] 'युजूंपी योगे' (१४७६) युज् | योजनं = योगः । गां योगः । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० । अनेन ग० । 'लघोरुपान्त्यस्य ' ( ४ | ३ | ४) गु० ओ । [मेघः] 'मिहं सेचने' (५५१) मिह् । मेहति - सिञ्चति पृथ्वीमिति मेघः । 'लिहादिभ्यः' (५/१/५० ) अच्प्र० → अ । 'लघोरुपान्त्यस्य' ( ४ | ३ | ४) गु० ए । अनेन घ० । [ओघः प्रवाहः ] 'वहीं प्रापणे' (९९६) वह् । वहतीति । अच्प्र० । अनेन अनुपसर्गस्य वस्य उ (ओ) कारश्च वकारेण ह घत्वं निपात्यते । प्रवहतीति । 'भावा ऽकर्त्री : ' (५।३।१८) घञ्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'घञ्युपसर्गस्य बहुलम्' (३।२।८६) दीर्घः । [ प्रवहः ] प्रवहतीति । [विवहः] विवहतीति । [परिवहः] परिवहतीति । [ संवहः ] संवहतीति । [उद्वहः] उद्वहतीति । [ अभिवहः] अभिवहतीति । [ निवहः ] निवहतीति, सर्वत्र अच्प्र० । [निदाघः ऋतुविशेषः ] 'दहं भस्मीकरणे' (५५२) दह् निपूर्व० । निदह्यते = निदाघः । भावा ऽकर्त्री : ' ( ५|३|१८) घञ्प्र० । अनेन हस्य घत्वम् । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । [अवदाघः केवलपानीयपक्वोऽपूपः ] 'दहं भस्मीकरणे (५५२) दहू, अवपूर्व० । अवाग् दह्यते = अवदाघः । भावाSकर्त्री : ' ( ५।३।१८) घञ्प्र० । अनेन हस्य घत्वम् । ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । केवलपानीयपक्वोऽपूपः । [अर्धो मूल्यं पूजाद्रव्यं च ] 'अर्ह पूजायाम्' (५६४) अर्ह । अर्हति तमित्यर्घः । भावा- ऽकर्त्रीः ' (५।३।१८) घञ्प्र० । अनेन ह० घ० निपातः । Jain Education Intemational [अर्हः ] अर्हतीति । 'अर्होऽच्' (५।१।९१ ) अच्प्र० अ । एवमविहितलक्षणानि कत्वगत्वघत्वानि द्रष्टव्यानि ॥ छ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy