________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[मांसपाकः] मांसं पचतीति । 'कर्मणोऽण् ' ( ५।१।७२ ) अण्प्र० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । अनेन
कत्वनिपातः ।
३३८
[पिण्डपाकः ] पिण्डं पचतीति । 'कर्मणोऽण्' (५।१।७२ ) अणूप्र० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । अनेन कत्वनिपातः ।
[कपोतपाकः] कपोतं पचतीति । 'कर्मणोऽण्' ( ५।१।७२ ) अण्प्र० । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । अनेन कत्वनिपातः ।
[उलूकपाकः] उलूकं पचतीति । 'कर्मणोऽण्' (५।१।७२ ) अण्प्र० । ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अनेन कत्वनिपातः ।
अणभावे
[नीचेपाकः] नीच सप्तमी ङि । 'डुपचष् पाके' (८९२) पच् । नीचे पचति ओदनं देवदत्तः, स एवं विवक्षितेनाहं पचामि, किन्तु नीचे पच्यते स्वयमेव । 'अच्' (५।१।४९ ) अच्प्र० अ ।
-
[ श्वपचः ] श्वानं पचति । 'लिहादिभ्यः' ( ५|१|५० ) अच्प्र० अ ।
[दूरेपाकः] दूरे पचत्योदनं देवदत्तः, स एवं विवक्षिते नाहं दूरे पचामि, किन्तु दूरे पच्यते स्वयमेव । 'अच्' (५।१।४९ ) अच्प्र० अ ।
[ फलेपाकः ] फले पचत्योदनं देवदत्तः स एवं विवक्षिते नाहं फले पचामि, किन्तु फले पच्यते स्वयमेव । 'अच्' (५।१।४९ ) अच्प्र० अ ।
[क्षणेपाकः] क्षणे पचत्योदनं देवदत्तः, स एवं विवक्षिते नाहं क्षणे पचामि, किन्तु क्षणे पच्यते स्वयमेव । 'अच्’ (५।१।४९) अच्प्र० अ । अत्र कर्मकर्तर्यचि दीर्घत्वं च निपातनात् । ' तत्पुरुषे कृति' ( ३।२।२० ) इति बहुलाधिकारात् सप्तम्या अलुप् ।
"नीचेपाकु:' इत्यादिषु वाक्यं पूर्ववत् । अत एव निपातनादुकारः ।
[अनुवाकः] अनु 'बूंग्क् व्यक्तायां वाचि' (११२५) बू । अनुब्रवीति । 'अच्' (५।१।४९ ) अच्प्र० । 'अस्ति बुवोर्भू'वचावशिति' (४|४|१) वचादेशः ।
[सोमप्रवाकः ] सोम 'वचंक् भाषणे' (१०९६) वच्, प्रपूर्व० । सोमं प्रवक्तीति । 'कर्मणोऽण्' (५।१।७२ ) अणूप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अनेन निपातः ।
[ न्योको वृक्षः शकुन्तो वा] नि 'उचच् समवाये' (११७६) उच् । न्युच्यति समवैतीति । 'लिहादिभ्यः' (५।१।५० ) अच्प्र० अ । अनेन निपातः, वृक्षः शकुन्तो वा ।
[उद्गः, समुद्गः, न्युद्गः, अभ्युद्गः] 'उब्जत् आर्जवे' (१३४८) उब्ज्, सम्-नि-अभिपूर्व० । उब्जनम् । समुब्जनम् I न्युब्जनम् । अभ्युब्जनम् । 'भावा- ऽकर्त्रीः ' ( ५।३।१८ ) घञ्प्र० । अनेन ते सेट्त्वाद् गत्वमुपान्त्यस्य च दत्वं निपात्यते ।
[सर्गः, विसर्गः, अवसर्गः, उपसर्ग: ] 'सृजी ( जं) त् विसर्गे' (१३४९) सृज्, वि-अव उपपूर्व० । सृजति । विसृजति । अवसृजति । उपसृजतीति । 'लिहादिभ्यः' (५।१।५० ) अच्प्र० अ । अनेन निपातः ।
[व्यतिषङ्गः] 'षयं सङ्गे' (१७३) पञ्ञ् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सञ्ज्, वि- अतिपूर्व० । व्यतिषजते ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org