Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
३४१
[उपांशुयाजाः] उपांशु एकान्ते यजनानि । 'सप्तमी शौण्डाद्यैः' (३१८८) समासः । प्रथमा जस् ।
[पत्नीसंयाजाः] पत्न्या संयजनानि । 'ऊनार्थपूर्वाद्यैः' (३।१।६७) समासः ।
[ऋतु(सं)याजाः] ऋतून् संयजन्ते । भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[याजः] यजनं = याजः । घञ्प्र० ।
[प्रयागः ॥ प्रेज्यते । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । तेऽनिटश्चजोः क-गौ घिति' (४।१।१११) ज० → ग० । प्रथमा सि ।
[अनुयागः] अनुयजनं = अनुयागः । 'भावा-ऽक;:' (५।३।१८) घञ्प्र० । 'ज्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'क्तेऽनिटश्च-जोः०' (४।१।१११) ज० → ग० ।
[यागः] यजनं = यागः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'क्तेऽनिटश्चजो:०' (४191१११) ज० → ग० ।।छ।।
घ्यण्यावश्यके ||४|१1११५।।
[ध्यणि] घ्यण् सप्तमी ङि ।
[आवश्यके] अवश्यमो भावः । 'योपान्त्याद् गुरूपोत्तमादसुप्रख्यादकञ्' (७।१।७२) अकञ्प० -> अक । 'त्रन्त्यस्वरादेः' (७।४।४३) अम्लोपः । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः, तस्मिन्, उपाधिके विशेषणे इत्यर्थः ।
[अवश्यपाच्यम्] अवश्यम् ‘डुपचीष् पाके' (८९२) पच् । अवश्यं पच्यते । ‘ऋवर्ण-व्यञ्जनाद् घ्यण' (५१।१७) घ्यणप० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'कृत्येऽवश्यमो लुक्' (३।२।१३८) मलुक् ।
[अवश्यरेच्यम् अवश्यम् ॥ 'रिचत् स्तुतौ' ( ) रिच (?) । ('रिचूंपी विरेचने' (१४७४) रिच्) । अवश्य रिच्यते । 'ऋवर्ण-व्यञ्जनाद्' (५।१।१७) घ्यणप० → य । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । ‘कृत्योऽवश्यमो०' (३।२।१३८) मलोपः ।
[अवश्यरञ्ज्यम्] 'रजी रागे' (८९६) रञ्ज, अवश्यम्पूर्व० । अवश्यं रज्यते ।
[अवश्यभञ्ज्यम्] "भोंप आमर्दने' (१४८६) भङ्ग, अवश्यंपूर्व० । अवश्यं भज्यते । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य । कृत्येऽवश्यमो लुक् (३।२।१३८) मलुक् ।।छ।।
नि-प्राद युजः शक्ये ।।४।१।११६।।
[निप्रात् निश्च प्रश्च = निप्रम्, तस्मात् । [युजः] युज् षष्ठी डस् ।
[शक्ये] 'शक्लृट् शक्ती' (१३००) शक् । शक्यत इति । 'शकि-तकि-चति-यति-शसि-सहि-यजि-भजि-पवर्गात्' (५।१।२९) यप्र०, तस्मिन् ।
P.卐 卐
प्रयजन्ति अत्रेति । तुदादिगणपाठे - 'ऋचत् स्तुतौ' ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400