Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
[शूट्] श् च ऊटू च
तत् ।
[प्रश्नः ] 'प्रछंत् ज्ञीप्सायाम् ' (१३४७) प्रछ् । प्रच्छनं = प्रश्नः । ' यजि - स्वपि रक्षि-यति-प्रच्छो नः' (५।३।८५) नप्र० । अनेन छ० श० ।
[विश्नः ] 'विछत् गतौ' (१३४३) विछ् । विच्छनं = विश्नः । 'विच्छो नङ्' (५।३।८६) न० न । अनेन छ० → श० । छस्य द्विःपाठात् द्वयोरपि शकारः अपिशब्दात् केवलस्य, तेन 'वाछु इच्छायाम् ' (१२२) इत्यस्य वान्, वांशी, वांश इत्यादि सिद्धम्, सूत्रे द्विच्छकारपाठात् केवलस्य न स्यादिति न वाच्यम्, छ् च च्छू चेति कृते 'पदस्य' (२।१।८९) इत्यनेन एकस्य लोपे निमित्ताभावेन चस्य छत्वे 'अघोषे० ' (१।३।५०) इत्यनेन छस्य चत्वे च च् छ् इति साधितत्वात्, यद्वा पूर्वं द्विः च्छकारः द्वितीयस्तु लघु ततः च्छ् च छ् चेति कृते 'पदस्य' (२।१।८९) इति लघुछकारस्य लुक्, तदा निमित्ताभावइत्यादि न क्रियते ।
[शब्दप्राट् ] शब्द 'प्रछंत् ज्ञीप्सायाम्' (१३४७) प्रछ् । शब्दं पृच्छतीत्येवंशीलः ।
[शब्दप्राशौ ] शब्दं पृच्छत इत्येवंशीलौ । दिद्युद् ददृद् - जगज्जुहू-वाक्-प्राट्-धी-श्री-दू-सू-ज्वायतस्तू- कटप्पू-परिव्राड्-भ्राजादयः क्विप्' (५।२।८३) क्विप् निपातनात् य्वृदभावो दीर्घत्वं च । अनेन छ० श० ।
[गोविट्] गो 'विछत् गतौ' (१३४३) विछ् । गां विच्छतीति ।
[ गोविशौ] गां विच्छत इति ।
३२९
[पृष्टः ] 'प्रछंत् ज्ञीप्सायाम्' (१३४७) प्रछ् । पृच्छति स्म । 'गत्यर्था - ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन छ० → श० । ‘यज-सृज- मृज-राज० ' (२।१।८७) श० ष० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त०८० | 'ग्रह - वस्व भ्रस्ज- प्रच्छ: ' ( ४|१|८४ ) य्वृत् ।
[पृष्टवान्] पृच्छति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० (२।१।८७) श० ष० । 'तवर्गस्य श्चवर्ग ०' (१।३१६०) त०
तवत् । अनेन छ० श० । 'यज- सृज- मृज० ' ट० । 'ग्रह- वस्व - भ्रस्ज-प्रच्छः ' (४।१।८४) वृत् । तृ । अनेन छ० श० । 'यज-सृज - मृज० ' (२1१1८७) श० → ष० । 'तवर्गस्य श्चवर्ग० ' (१।३।६०) त०ट० । प्रथमा सि । 'ऋदुशनस्- पुरुदंशोऽनेहसश्च सेर्डा : ' (१।४।८७ ) आ० । ' डित्यन्त्यस्वरादेः ' (२।१।११४) अन्त्यस्वरादिलोपः ।
[प्रष्टा] पृच्छतीति । ‘णक-तृचौ ' ( ५।१।४८) तृच्प्र०
सि०
डा०
[ प्रष्टुम् ] प्रच्छनाय । 'क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुमप्र० । अनेन छ० श० । 'यज-सृज - मृज० ' (२।१।८७) श० ष० । ' तवर्गस्य श्चवर्ग ० ' (१।३।६०) त०ट० ।
[स्योमा] 'षिवूच् उतौ' (११६४ ) षिव् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः ' (२।३।९८) सिव् । सीव्यतीति । 'मन्-वन्क्वनिप्-विच् क्वचित्' (५।१।१४७) मन्प्र० । अनेन व० ऊटू । 'इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१) यत् । ‘नामिनो गुणोऽक्ति' (४।३।१) गु० ओ । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः ।
[स्योनः] सिव् । सीव्यतीति स्योनः । 'प्या- धा-पन्यनि - स्वदि- स्वपि - वस्यज्यति - सिविभ्यो नः' (उणा० २५८) नप्र० । अनेन व० ऊट् । 'इवर्णादेरस्वे० ' (१।२।२१) यत् । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३ |१) गु० ओ ।
[अक्षद्यूः ] अक्ष 'दिवूच् क्रीडा - जयेच्छा - पणि-द्युति-स्तुति - गतिषु' (११४४) दिव् । अक्षान् दीव्यतीति । क्विप् । अनेन P. शूट् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400