Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 337
________________ ३२२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [संश्यानः] संश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५।१।११) क्तप्र० → त । 'व्यञ्जनान्तस्थाऽऽतोऽख्याध्यः' (४।२७१) त० → न० । [संश्यानवान्] संश्यायते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तवतुप्र०. → तवत् । 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० । [अभिसंशीनः, अभिसंश्यानः] अभिसंश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त । मतान्तरेऽनेन विकल्पे शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) तस्य न० । [अभिसंशीनवान्, अभिसंश्यानवान्] अभिसंश्यायते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । मतान्तरेऽनेन विकल्पे शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४२७१) तस्य न० । [अवसंशीनः, अवसंश्यानः] अवसंश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५।१।११) क्तप्र० →त । मतान्तरेऽनेन विकल्पे शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० । [अवसंशीनवान, अवसंश्यानवान् अवसंश्यायते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । मतान्तरेऽनेन विकल्पे शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० । - तदाऽभ्यवाभ्यां तृतीया व्याख्येया । [समभिश्यानः] समभिश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'व्यञ्जनान्तस्थाऽऽतोऽख्याध्यः' (४।२७१) त० → न० ।। [समभिश्यानवान] समभिश्यायते स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप० → तवत् । 'व्यञ्जनान्तस्थाऽऽतोऽख्याध्यः' (४।२७१) त० → न० । [समवश्यानवान् समवश्यायते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'व्यञ्जनान्तस्थाऽऽतोऽख्याध्यः' (४।२७१) त० → न० |छ।। श्रः शृतं हविः-क्षीरे ।।४।१1१००। [श्रः] श्री षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः । [शृतं] शृत प्रथमा सि । [हविःक्षीरे] हविश्च क्षीरं च = हविःक्षीरम्, तस्मिन् । [शृतं हविः, शृतं क्षीरं स्वयमेव] 'मैं' (४५)- 'धै पाके' (४६) भै । 'श्रांक पाके' (१०६५) श्रा । श्रायति स्म वा हविः क्षीरं देवदत्तः, स एवं विवक्षिते नाहं श्रायामि-श्रामि, किन्तु श्रायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त । अनेन शृ० । प्रथमा सि । 'अतः स्यमोऽम्' (१।४१५७) अम् । यद्वा श्रायति स्म, श्राति स्म वा हविःक्षीरं स्वयमेव । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० →त । श्राति-श्रायती हि अकर्मको कर्मकर्तृविषयस्य पचेरर्थे वर्त्त(त्र्ते)ते, तयोश्चैतन्निपातनम्, अतो न कर्मकर्तरि आत्मनेपदं स्यात् । [श्राणा यवागूः] श्रायति स्म, श्राति स्म वा यवाग्वं चैत्रः, स एवं विवक्षते नाहं श्रायामि स्म, श्राति स्म वा, किन्तु श्रायते स्म यवागूः स्वयमेव । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० । 'र-पृवर्णान्नो ण०' (२।३।६३) न० →ण० । 'आत्' (२।४।१८) आप्प्र० →आ ||छ।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400