Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
३२१
maamanamamanawwwwwwwwwwwwwwwwwwwwwwane
over
एवं शीतो वायुः गुणमात्रे तद्वति चार्थे स्पर्शविषयो भवति ।
[संश्यानो वृश्चिकः] संश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१११) क्तप्र० → त । 'व्यञ्जनान्तस्थाऽ5तोऽख्या-ध्यः' (४।२७१) त० → न० । प्रथमा सि । वृश्चिकः । शीतेन सड़कुचित इत्यर्थः ।।छ।।
प्रतेः ।।४।१९८।।
[प्रतेः] प्रति पञ्चमी ङसि ।
[प्रतिशीनः] प्रति-श्या । प्रतिश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन शीतस्य न० ।
[प्रतिशीनवान्] प्रतिश्यायते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । एतौ द्वावपि कर्त्तर्यागच्छतः, अनेन शी-तस्य न० । प्रतिपूर्वोऽयं रा(रो)गे वर्त्तते । पूर्वेणाप्राप्तौ वचनम् ॥छ।।
वाऽभ्यवाभ्याम् ।।४।१९९।।
[वा] वा प्रथमा सि । [अभ्यवाभ्याम्] अभिश्च अवश्च = अभ्यवौ, ताभ्यां = अभ्यवाभ्याम्, पञ्चमी भ्याम् । पूर्वसूत्रेऽस्पर्श इति नोक्तं रोगेऽसंभवात्, अत्र तु अस्पर्श-क्तयोस्तस्य नो भवति ।
[अभिशीनः, अभिश्यानः] अभि-श्या । अभिश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० →त | अनेन शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० ।
[अभिशीनवान्, अभिश्यानवान्] अभिश्यायते स्म । ‘क्त क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन शीतस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० ।
[अवशीनः, अवश्यानः] अव-श्या । अवश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० ।
[अवशीनवान्, अवश्यानवान्] अवश्यायते स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । अनेन शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२।७१) त० → न० ।
[अभिशीनं, अभिश्यानं घृतम्] अभि-श्या । अभिश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन शी-तस्य नश्च । प्रथमा सि । 'अतः स्यमोऽम्' (११४१५७) अम् । घृत प्रथमा सि । 'अतः स्यमोऽम्' (१।४५७) अम् ।
[अवशीनं, अवश्यानं हिमम्] अवश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन शी-तस्य नश्च ।
[अभिशीतो वायुः] स्पर्शत्वान्न नत्वम् ।
[अभिश्यानो वायुः] अभि-श्या । अभिश्यायते स्म । क्तप्र० । 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० । स्पर्शऽपि नत्वम् ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400