SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य प्रथमः पादः ॥ ३२१ maamanamamanawwwwwwwwwwwwwwwwwwwwwwane over एवं शीतो वायुः गुणमात्रे तद्वति चार्थे स्पर्शविषयो भवति । [संश्यानो वृश्चिकः] संश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१११) क्तप्र० → त । 'व्यञ्जनान्तस्थाऽ5तोऽख्या-ध्यः' (४।२७१) त० → न० । प्रथमा सि । वृश्चिकः । शीतेन सड़कुचित इत्यर्थः ।।छ।। प्रतेः ।।४।१९८।। [प्रतेः] प्रति पञ्चमी ङसि । [प्रतिशीनः] प्रति-श्या । प्रतिश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन शीतस्य न० । [प्रतिशीनवान्] प्रतिश्यायते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । एतौ द्वावपि कर्त्तर्यागच्छतः, अनेन शी-तस्य न० । प्रतिपूर्वोऽयं रा(रो)गे वर्त्तते । पूर्वेणाप्राप्तौ वचनम् ॥छ।। वाऽभ्यवाभ्याम् ।।४।१९९।। [वा] वा प्रथमा सि । [अभ्यवाभ्याम्] अभिश्च अवश्च = अभ्यवौ, ताभ्यां = अभ्यवाभ्याम्, पञ्चमी भ्याम् । पूर्वसूत्रेऽस्पर्श इति नोक्तं रोगेऽसंभवात्, अत्र तु अस्पर्श-क्तयोस्तस्य नो भवति । [अभिशीनः, अभिश्यानः] अभि-श्या । अभिश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० →त | अनेन शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० । [अभिशीनवान्, अभिश्यानवान्] अभिश्यायते स्म । ‘क्त क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन शीतस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० । [अवशीनः, अवश्यानः] अव-श्या । अवश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० । [अवशीनवान्, अवश्यानवान्] अवश्यायते स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । अनेन शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२।७१) त० → न० । [अभिशीनं, अभिश्यानं घृतम्] अभि-श्या । अभिश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन शी-तस्य नश्च । प्रथमा सि । 'अतः स्यमोऽम्' (११४१५७) अम् । घृत प्रथमा सि । 'अतः स्यमोऽम्' (१।४५७) अम् । [अवशीनं, अवश्यानं हिमम्] अवश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन शी-तस्य नश्च । [अभिशीतो वायुः] स्पर्शत्वान्न नत्वम् । [अभिश्यानो वायुः] अभि-श्या । अभिश्यायते स्म । क्तप्र० । 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० । स्पर्शऽपि नत्वम् । Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy