________________
३२२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[संश्यानः] संश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५।१।११) क्तप्र० → त । 'व्यञ्जनान्तस्थाऽऽतोऽख्याध्यः' (४।२७१) त० → न० ।
[संश्यानवान्] संश्यायते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तवतुप्र०. → तवत् । 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० ।
[अभिसंशीनः, अभिसंश्यानः] अभिसंश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त । मतान्तरेऽनेन विकल्पे शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) तस्य न० ।
[अभिसंशीनवान्, अभिसंश्यानवान्] अभिसंश्यायते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । मतान्तरेऽनेन विकल्पे शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४२७१) तस्य न० ।
[अवसंशीनः, अवसंश्यानः] अवसंश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिव-भुजेः' (५।१।११) क्तप्र० →त । मतान्तरेऽनेन विकल्पे शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० ।
[अवसंशीनवान, अवसंश्यानवान् अवसंश्यायते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । मतान्तरेऽनेन विकल्पे शी-तस्य नश्च । द्वितीये 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० ।
- तदाऽभ्यवाभ्यां तृतीया व्याख्येया ।
[समभिश्यानः] समभिश्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'व्यञ्जनान्तस्थाऽऽतोऽख्याध्यः' (४।२७१) त० → न० ।।
[समभिश्यानवान] समभिश्यायते स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप० → तवत् । 'व्यञ्जनान्तस्थाऽऽतोऽख्याध्यः' (४।२७१) त० → न० ।
[समवश्यानवान् समवश्यायते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'व्यञ्जनान्तस्थाऽऽतोऽख्याध्यः' (४।२७१) त० → न० |छ।।
श्रः शृतं हविः-क्षीरे ।।४।१1१००।
[श्रः] श्री षष्ठी डस् । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलोपः । [शृतं] शृत प्रथमा सि । [हविःक्षीरे] हविश्च क्षीरं च = हविःक्षीरम्, तस्मिन् ।
[शृतं हविः, शृतं क्षीरं स्वयमेव] 'मैं' (४५)- 'धै पाके' (४६) भै । 'श्रांक पाके' (१०६५) श्रा । श्रायति स्म वा हविः क्षीरं देवदत्तः, स एवं विवक्षिते नाहं श्रायामि-श्रामि, किन्तु श्रायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त । अनेन शृ० । प्रथमा सि । 'अतः स्यमोऽम्' (१।४१५७) अम् । यद्वा श्रायति स्म, श्राति स्म वा हविःक्षीरं स्वयमेव । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० →त । श्राति-श्रायती हि अकर्मको कर्मकर्तृविषयस्य पचेरर्थे वर्त्त(त्र्ते)ते, तयोश्चैतन्निपातनम्, अतो न कर्मकर्तरि आत्मनेपदं स्यात् ।
[श्राणा यवागूः] श्रायति स्म, श्राति स्म वा यवाग्वं चैत्रः, स एवं विवक्षते नाहं श्रायामि स्म, श्राति स्म वा, किन्तु श्रायते स्म यवागूः स्वयमेव । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२७१) त० → न० । 'र-पृवर्णान्नो ण०' (२।३।६३) न० →ण० । 'आत्' (२।४।१८) आप्प्र० →आ ||छ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org