SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३२३ अथ चतुर्थाध्यायस्य प्रथमः पादः ॥ श्रपेः प्रयोक्ौक्ये ।।४।१।१०१।। [श्रपेः] श्रपि षष्ठी डस् । 'डित्यदिति' (१।४।२३) ए । 'एदोद्भ्यां डसि-डसो रः' (१।४।३५) र० । [प्रयोक्त्रैक्ये] एकस्य भावः कर्म वा = ऐक्यम् । 'पति-राजान्त-गुणाङ्ग राजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र० → य । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । प्रयोक्तुरैक्यं = प्रयोक्ौक्यम्, तस्मिन् । शृतं हविश्चैत्रेण, शृतं क्षीरं चैत्रेण] श्राति श्रायति वा हविः-क्षीरं वा स्वयमेव, तत् श्रान् श्रायद्वा चैत्रः प्रयुक्ते । 'प्रयोक्तव्यापारे णिग' (३।४।२०) णिगप्र० । 'अर्ति-री-ब्ली-ही-क्नयि-क्ष्माय्यातां पुः' (४।२।२१) पोऽन्तः । 'घटादेईस्वो दीर्घस्तु वा जि-णम्परे' (४।२।२४) ह्रस्वः । श्रप्यते स्म । क्तप्र० । णिगा सह शृरादेशोऽनेन । [श्रपितं हविश्चैत्रेण मैत्रेण] हविस् । श्रा(श्र)प्यते हविश्चैत्रेण, तत एवं विवक्षते न मया श्रप्यते, किन्तु श्रप्यते हविश्चैत्रेण मैत्रेण । द्वितीयो णिग् । ‘णेरनिटि' (४।३।८३) प्रथमणिग्लोपः । श्रप्यते स्म । क्तप्र० । 'स्ताद्यशितो०' (४।४।३२) इट् । 'सेट्क्तयोः' (४।३१८४) णिग्लोपः । [श्रपिता यवागूः] श्राति स्म, श्रायति स्म वा यवागूः स्वयमेव सा श्राणवती चैत्रेण प्रयुज्यते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'अर्त्ति-री-व्ली-ही०' (४।२।२१) पोऽन्तः । 'घटादेईस्वो दीर्घस्तु वा ञि-णम्परे' (४।२१२४) ह्रस्व: । श्रप्यते स्म । क्तप्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'सेटक्तयोः' (४।३/८४) णिग्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ । यवागू प्रथमा सि ।।छ।। यवृत् सकृत् ।।४।१११०२।। [य्वृत्] इश्च उच्च ऋच्च = य्वृत् । प्रथमा सि | 'अनतो लुप्' (१।४।५९) सिलोपः । [सकृत् एक । एको वारोऽस्य । 'एकात् सकृच्चास्य' (७।२।१११) सुचप्र० सकृदादेशः । 'पदस्य' (२१७८९) स्लोपः । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः । [संवीयते] सम् 'व्यग् संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'यजादि-वचेः किति' (४।१।७९) वृत् ।卐 'दीर्घमवोऽन्त्यम्'( ४।१।१०३) दीर्घः । [विध्यते 'व्यधंच ताडने' (११५७) व्यध् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'ज्या-व्यधः विडति' (४१८१) वृत् इ० । [विच्यते] 'व्यचत् व्याजीकरणे' (१४३२) व्यच् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० --→ य । 'व्यचोऽनसि' (४।१८२) यवृत् इ० । [वेवीयते] 'व्येग संवरणे' (९९३) व्ये । भृशं पुनः पुनर्वा व्ययति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्य० । 'व्येस्यमोर्यङि' (४।१८५) वृत् । 'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । 'सन्-यडश्च' (४।१३) "वी"द्वि: । 'हस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । वर्त० ते । विविध्यते] 'व्यधंच ताडने' (११५७) व्यध् । भृशं पुनः पुनर्वा विध्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'ज्या-व्यधः क्डिति' (४।१।८१) यवृत् । ‘सन्-यडश्च' (४।१।३) “विध्'"द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) धलुक् । 'आ P. 'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003293
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy