Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३२३
अथ चतुर्थाध्यायस्य प्रथमः पादः ॥
श्रपेः प्रयोक्ौक्ये ।।४।१।१०१।। [श्रपेः] श्रपि षष्ठी डस् । 'डित्यदिति' (१।४।२३) ए । 'एदोद्भ्यां डसि-डसो रः' (१।४।३५) र० ।
[प्रयोक्त्रैक्ये] एकस्य भावः कर्म वा = ऐक्यम् । 'पति-राजान्त-गुणाङ्ग राजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र० → य । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । प्रयोक्तुरैक्यं = प्रयोक्ौक्यम्, तस्मिन् ।
शृतं हविश्चैत्रेण, शृतं क्षीरं चैत्रेण] श्राति श्रायति वा हविः-क्षीरं वा स्वयमेव, तत् श्रान् श्रायद्वा चैत्रः प्रयुक्ते । 'प्रयोक्तव्यापारे णिग' (३।४।२०) णिगप्र० । 'अर्ति-री-ब्ली-ही-क्नयि-क्ष्माय्यातां पुः' (४।२।२१) पोऽन्तः । 'घटादेईस्वो दीर्घस्तु वा जि-णम्परे' (४।२।२४) ह्रस्वः । श्रप्यते स्म । क्तप्र० । णिगा सह शृरादेशोऽनेन ।
[श्रपितं हविश्चैत्रेण मैत्रेण] हविस् । श्रा(श्र)प्यते हविश्चैत्रेण, तत एवं विवक्षते न मया श्रप्यते, किन्तु श्रप्यते हविश्चैत्रेण मैत्रेण । द्वितीयो णिग् । ‘णेरनिटि' (४।३।८३) प्रथमणिग्लोपः । श्रप्यते स्म । क्तप्र० । 'स्ताद्यशितो०' (४।४।३२) इट् । 'सेट्क्तयोः' (४।३१८४) णिग्लोपः ।
[श्रपिता यवागूः] श्राति स्म, श्रायति स्म वा यवागूः स्वयमेव सा श्राणवती चैत्रेण प्रयुज्यते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'अर्त्ति-री-व्ली-ही०' (४।२।२१) पोऽन्तः । 'घटादेईस्वो दीर्घस्तु वा ञि-णम्परे' (४।२१२४) ह्रस्व: । श्रप्यते स्म । क्तप्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'सेटक्तयोः' (४।३/८४) णिग्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ । यवागू प्रथमा सि ।।छ।।
यवृत् सकृत् ।।४।१११०२।।
[य्वृत्] इश्च उच्च ऋच्च = य्वृत् । प्रथमा सि | 'अनतो लुप्' (१।४।५९) सिलोपः ।
[सकृत् एक । एको वारोऽस्य । 'एकात् सकृच्चास्य' (७।२।१११) सुचप्र० सकृदादेशः । 'पदस्य' (२१७८९) स्लोपः । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः ।
[संवीयते] सम् 'व्यग् संवरणे' (९९३) व्ये । 'आत् सन्ध्यक्षरस्य' (४।२।१) व्या । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'यजादि-वचेः किति' (४।१।७९) वृत् ।卐 'दीर्घमवोऽन्त्यम्'( ४।१।१०३) दीर्घः ।
[विध्यते 'व्यधंच ताडने' (११५७) व्यध् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'ज्या-व्यधः विडति' (४१८१) वृत् इ० ।
[विच्यते] 'व्यचत् व्याजीकरणे' (१४३२) व्यच् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० --→ य । 'व्यचोऽनसि' (४।१८२) यवृत् इ० ।
[वेवीयते] 'व्येग संवरणे' (९९३) व्ये । भृशं पुनः पुनर्वा व्ययति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्य० । 'व्येस्यमोर्यङि' (४।१८५) वृत् । 'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । 'सन्-यडश्च' (४।१३) "वी"द्वि: । 'हस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । वर्त० ते ।
विविध्यते] 'व्यधंच ताडने' (११५७) व्यध् । भृशं पुनः पुनर्वा विध्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'ज्या-व्यधः क्डिति' (४।१।८१) यवृत् । ‘सन्-यडश्च' (४।१।३) “विध्'"द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) धलुक् । 'आ
P.
'दीर्घश्च्चि -यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400