Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 03
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 333
________________ ३१८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [आपेपीतः] प्याय, आपूर्व० । भृशं पुनः पुनर्वा आप्यायेते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्स० । अनेन प्याय → पी० । 'सन्-यडश्च' (४।१३) “पी'द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४१६४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यड्लुप् । वर्त० तस् ।।छ।। __क्तयोरनुपसर्गस्य ।।४।१।१२।। [क्तयोः] क्त अवयवयोगात् क्तवतुरपि, क्तश्च क्तश्च = क्तौ, तयोः = क्तयोः । 'स्यादावसंख्येयः' (३।१।११९) एकशेषः । 'ए बहुस्भोसि' (११४१४) ए । 'एदैतोऽयाय्' (१२।२३) अय् । [अनुपसर्गस्य] न विद्यते उपसर्गो यस्याऽसौ अनुपसर्गस्तस्य । [पीनं मुखम्] प्याय् । प्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1१) क्तप्र० । सूयत्याद्योदितः' (४।२७०)त० → न० । अनेन पी० । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । पीनवन मुखम] प्याय् । प्यायते स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । 'सूयत्याद्योदितः' (४।२७०) त० -→ न० । अनेन पी० । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । 'अनतो लुप्' (१।४।५९) सिलोपः । 卐 [प्याय्यते] प्याय् । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । [प्रप्यानो मेघः प्याय, प्रपूर्व० । प्रप्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त । 'य्वोः प्वव्यञ्जने लुक्' (४।४।१२१) यलोपः । 'व्यञ्जनान्तस्थाऽऽतोऽख्या-ध्यः' (४।२।७१) तस्य न०, सूयत्यादित्वाद्वा ।।छ।। आडोऽन्धूधसोः ।।४।१।९३।। [आङः] आङ् षष्ठी डस् । [अन्धूधसोः] अन्धुश्च ऊधस् च = अन्धूधसौ, तयोः = अन्धूधसोः, सप्तमी ओस् । [आपीनोऽन्धुः] आप्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'सूयत्याद्योदितः' (४।२।७०) त० → न० । अनेन पी० । _[आपीनमूधः] आप्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'सूयत्याद्योदितः' (४।२७०) त० → न० । अनेन पी० । अन्धुर्वणमूधसो वा पर्यायः, तर्हि ऊधोग्रहणं किमर्थः, अन्धुग्रहणेनैव तस्य संगृहीत्वात, ना अन्धुग्रहणेनास्य विशेषणत्वं ऊध्म(स)द्वारेण छद्मपर्यायत्वं विशेषणत्वं वेति पृथगुपादानम् । [प्रप्यानोऽन्धुः] प्रप्यायते स्म । शेषं पूर्ववत् । [परिप्यानमूधः] परिप्यायते स्म । शेषं पूर्ववत् । [आप्यानश्चन्द्रः] आप्यायते स्म । क्तप्र० । 'व्यञ्जनान्तस्था०' (४।२७१) त० → न० । 'य्वोः प्वव्यञ्जने लुक्' (४।४।१२१) यलोपः । आडोन्धौ इति सिद्धे ऊधस्ग्रहणं बोधयति व्रणे विशेषणतया ऊधसि च पर्यायेण आपीन इति सिद्ध्यति, आङ एव नियमात् प्राप्यानमूधः इत्यत्र, अत्र पूर्वसूत्रादनुपसर्गस्येत्येवानुवर्तनीयम्, तेनाङ्पूर्वस्य प्यायः पीः, कथंभूतस्याङ ? अनुपसर्गस्य, ॐ बृहद्वृत्तौ - प्यायते । Jain Education Intemational For Private & Personal Use Only For Private & Personal use only www.jainelibrary.org www.janello

Loading...

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400