Book Title: Shulb Sutram Author(s): Katyayan Maharshi Publisher: Achyut Granthmala View full book textPage 8
________________ [ ३ ] एवमीश्वरकृपया निर्मितस्यास्य विषये येभ्योऽहमधमर्णोऽतितरां, तेषां मध्ये प्रथमतोऽस्मत्तातपादानां सर्वतन्त्राणामपरेषां कात्यायनानां जगत्पूज्यचरणानामस्मद्गुरुभूतानां विद्वल्ललामभूतानां महामहोपाध्यायानां श्री १०६ प्रभुदत्तशास्त्रिणामाहिताग्नीनां चरणकमलेऽस्मदनुग्रहैकपरायणे अन्यत्कर्तुमनीशानः केवलं मनःकुसुमेनानवरतमर्चयामि, यत्प्रज्ञापारावारेऽनवरतमुल्लसन्त्या वैदिकविद्यावीचिपरम्पराया लेशमात्रमधिगम्य प्रभुरभवमेतद्व्याख्याकरणे। ग्रन्थस्यास्य विलेखने येषामुपकार श्रासीत् , तेभ्यः श्रीमद्भ्यः श्रीचन्द्रशेखरझामहोदयेभ्यः काशीस्थजोषीराममटरूमल्लगोयेनका संस्कृतमहाविद्यालयाध्यापकेभ्यो ज्योतिषाचार्येभ्यो महती कृतज्ञतां प्रकटयामि । ग्रन्थस्यास्य मुद्रणविषये महान्तमपि व्ययभारमविगणय्य गैर्वा णीवाणीप्रणयिभ्यो धार्मिकग्रन्थोद्धरणेऽनवरतमाविष्कृतादरेभ्यो वैदिकपथप्रतिष्ठापने निबद्धकक्षेभ्यः सुरभारतीसेवायामेव समर्पितनिजकरणत्रयेभ्यः, तदेव च परं पुरुषार्थ मन्वानेभ्यो विनयावनम्रभ्यो गुणैकनिधिभ्यः सनातनधमकमयजीवितेभ्यः श्रेष्ठिवर्येभ्यः श्रीगौरीशङ्करगोयेनकामहोदयेम्यो महतीमाशीःपरम्परां हृदयेन वितरामि, प्रार्थयामि च भगवन्तं लोकगुरुमुमापतिम् , सुरभारतीसमुद्रणैकफलेन इतोऽप्यधिकैश्वर्येण तादृशा चायुषा समेधयत्वेनमिति । येषां गुरुचरणानामसीमकृपया ग्रन्थोऽयं निर्विघ्नेन परिसमाप्ति मवाप, तेषामेव श्रीविश्वनाथसदृशानामस्मत्तातपादानां महामहोपाध्यायानामग्निहोत्रिणां श्री १०६ मतां प्रभुदत्तशास्त्रियां चरणकमलयोरेव ग्रन्थमिमं समर्पयामि, तेन च मन्ये भगवान् विश्वेश्वरोऽपि प्रीतो भवेदिति । . शोधनादिव्यापारेऽत्यन्तं जागरूकेण स्थितवतोऽपि मम बहव्योऽशुद्धयस्तथैव स्थिताः। अता विद्वजनान् विनम्रः प्रार्थये-पुनर्मुद्रणावसरे ते साक्षिगोचरीभूता अशुद्धीमा निवेद्य मामनुगृह्णन्त्विति, मयापि इतोऽप्यधिकतरमवहितेन ताः समीकरिष्यन्त इति । विदुषामनुचरःविद्याधरशर्मा। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70