Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 30
________________ १९ कं. २] चतुरस्रादिक्षेत्रकथनम् । करण्याः = प्रक्रमरूपायास्तृतीयं = तृतीयो भागः पदम्पः करणीभूय चतुरस्त्रं कुर्वन् नवभागो भवति । नवमं भागं पदं सङ्: क्षिपतीत्यर्थः ॥१७॥ नव भागास्त्रयस्तृनीयकरणी ॥१८॥ प्रक्रमरूपकरणीत्रयस्य समचतुरस्रस्य ये त्रयो नव भागाः सा तृतीयकरणी । सा चेत्थं कार्या। पदमितया करण्या समचतुरस्त्रं कृत्वा तत्कर्णसूत्रं पददिकरणोरूपं पार्श्वमानी कृत्वा पदमितकरणोमेव च तिर्यमानीं विधाय ताभ्यां दीर्घचतुरस्र कृते तत्कर्णरज्जुस्तृतीयकरणो। सा च करणीभूय समचतुरस्रं कुर्यात् , तत्र त्रयो नव भागाः सक्षिप्यन्ते ॥१८॥ एवं “तृतीयकरण्येतेन व्याख्याना" (२०१५) इति प्रतिज्ञातं सूत्रत्रयेण निरूप्य तृतीयकरण्याः प्रयोजनं सूत्रद्वयेनाह सौत्रामण्यां प्रक्रमार्था ॥१६॥ सौत्रामणीयागे प्रक्रमकथनाय तृतीयकरणी उक्ता । सौत्रामण्यां तृतीयकरणोरूपप्रक्रमेण सोमवद्वेदिर्मिता सतो सौमित्या वेदेस्तृती. यांशरूपा स्यात् ॥१६॥ त्रिकरणी, समासा ॥२०॥ त्रिकरणी - तृतीयकरणी येयं पूर्वमुक्ता सा समासा = त्रया. णां प्रक्रमनवभागानां सङ्क्षपार्था । तया विना नवभागत्रयस्य संक्षे'तुमशक्यत्वात् । अतः प्रक्रमनवभागत्रयमेव सौत्रामणीप्रक्रम इत्यर्थः ॥२०॥ उक्तं चतुरस्रसमासं निगमयतितुल्यप्रमाणाना समचतुरस्त्राणामुक्तः समासः ॥२१॥ तुल्यं प्रमाणं येषां तानि तुल्यप्रमाणामि हस्तादिरूपाणि । तादृशानां समचतुरस्त्राणां समासः - संक्षेप एकीकरणप्रकार उक्तः॥२१॥ एवं तुल्यप्रमाणानां समचतुरस्त्राणां समासमुकवाऽतुल्य. प्रमाणानां समचतुरस्राणां समासमाहShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70