Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 32
________________ कं. ३ ] क्षेत्रसमासकथनम् । स्थापयेत् यथा तदग्रं संमुखपार्श्वमान्यां लगति । ततस्तद्योगबिन्दोः कोणदिग्गतभुजपर्यन्तं पार्श्वमानीखण्डं यत्, तत्र यत्समचतुरस्रं तदेवाभीष्टम्, अर्थात् बृहत्प्रमाणाल्पप्रमाणसमचतुरस्रयोरन्तररूपम् (१) । यथा क. ग. च. बृहत्प्रमाणकसमचतुरस्रात् इ. उ. व. र. अल्पप्रमाणकसमचतुरस्रमपनेतव्यम्, तदा अ. क. कोणाभ्याम् अ. प. क. म.रेखे अल्पप्रमाण कसमचतुरस्रभुजतुल्ये छित्वा प.म. छेदनबिन्दुद्वये शङ्क निखाय प. म. शङ्कुमूलगता रेखा कार्या । एवं सति श्र.क. म. प. दीर्घचतुरस्रं निष्पद्यते । यत्र अ क प म रेखे दीर्घचतुरस्रभुज - तुल्ये, श्र. प., क. म. रेखे च अल्पचतुरस्रभुजतुल्ये श्रसाते ततः अ. के भुजतुल्यां रेखां क. कोण बिन्दोस्तथा स्थापनीया, यथा तदग्रं प. म. रेखायां ल. बिन्दौ भवेत् । एवं सति ल. म. रेखानिमित्तं समचतुरस्रंयत्, तदेव बृहच्चतुरस्राल्पचतुरस्रयोरन्तररूपं भवितुमर्हति ॥ १ ॥ - ल क म उ २१ व (१) "चतुरस्रात् = महतः समचतुरस्रात् चतुरस्रं = ह्रस्वं समचतुरस्रं निर्जिहीर्षन् = निर्हर्तुमिच्छन् पृथक्कर्तुमिच्छन् यावत् = यत्प्रमाणं समचतुरस्रं निर्जिहीर्खेत = पृथक्कर्तुमिच्छेत्, तावत् = तत्प्रमाणां करणीमुभयतो महच्चतुरस्र गर्श्वमाम्योरपच्छिद्य = श्रोणित भारभ्याङ्कयित्त्वा चिन्हद्वये शङ्क निखाय पार्श्वमानीं कृत्वा शङ्कद्वयप्रसारितां महचतुरस्रकरणीभूतां रज्जुं पार्श्वमानीश्वेन परिकरूप्य पाश्वमानीसंमितां तामेत्र रज्जुमक्ष्गयां = कर्णपूत्रं तत्र = अधस्तिर्यङ्मान्यामुपसंहरति = एकतरशङ्कौ रज्जुपाशं निक्षिप्य तां रज्जुं तिर्यङ्गान्यामधः कर्णसूत्रत्वेन प्रसारयति स समासेऽपच्छेदः = समासे क्षेत्रद्वयस्यैक्ये कृते सति अपच्छेदस्त्याज्योंSशः, तस्यां रज्जौ तिर्यङ्मानीस्पृष्टायां त्रिकोणे जाते त्रिकोणबहिर्भूतो यो महाचतु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70