Book Title: Shulb Sutram
Author(s): Katyayan Maharshi
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 61
________________ ५० सवृत्ति-कात्यायन-शुल्बसूत्रे [कं. ७ संख्याज्ञः परिमाणज्ञः समसूत्रनिरञ्छकः । समभूमौ भवेद्विद्वान् शुल्बवित् परिपृच्छकः ॥ ३ ॥ संख्याप्रतिपादकं गणितशास्त्र, तज्ज्ञः। परिमाणं मानविधिः, तज्ज्ञः। समसूत्रेणाकर्षणकर्ता । परिपृच्छकः शिल्पादीनाम् ॥३॥ न जलात्सममन्यत् स्यान्नान्यद्वृत्तात्प्रमा भवेत्। नान्यद् दूरं भ्रमादूध्वं नान्यत्सूत्रादृजुभवेत् ॥ ४॥ शतयोजनस्थमप्यभ्रान्तानां न दूरम् । यथा भ्रान्तिगोचरीकृ तमासन्नमपि दूरम् ॥४॥ तिर्यमान्याश्च सर्वाथैः पार्श्वमान्याश्च योगवित् । करणीनां विभागज्ञो नित्योयुक्तश्च कर्मसु ।।५॥ सर्वार्थः = सर्वप्रयोजने करणीनां करणीतत्करण्यदणयादी. नाम् ॥५॥ शास्त्रबुद्ध्या विभागज्ञः परशास्त्रकुतूहलः । शिल्पिभ्य स्थपतिभ्यश्चाप्याददीत मती: सदा ॥ ६॥ षडङ्गुलपरीणाहं द्वादशाङ्गुलमुच्छितम् । जरठं चावणं चैव शङ्ख कुर्याद्विचक्षणः ॥७॥ द्विवितस्तिप्रमाणस्तु खादिरो मुद्गरस्तथा । शङ्कस्तेन निखातव्यस्तस्मात्तस्य परिग्रहः ॥८॥ 'षडङ्गुलद्वादशाङ्गुलयोर्विकल्पोऽल्पबृहत्क्षेत्रसाधनव्यवस्थितः । परिणाहोऽधःशिरा, विस्तारो वा । जरठं दृढम् ॥ll एकतक्ष ऋजुस्तीक्ष्णः खादिरः सम अायतः । शङ्कः कार्यस्तु शुन्बस्तिस्यार्धं गमयेन्महीम् ॥ ६ ॥ एकत एव तक्षणेन सूक्ष्मीकरणार्थं तनूकृतः । खादिर इति सार. काटोपलक्षणार्थम् । अर्धमिति दृढ़स्थितियोग्यतोपलक्षणार्थम् ॥६॥ प्रादेशमात्रो हविर्यज्ञे पूर्वलक्षणलक्षितः । शङ्करामशिराः कार्यस्तस्याप्यधं निखापयेत् ॥१०॥ श्रामशिरा आशिराः ॥१०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70