Page #1
--------------------------------------------------------------------------
________________
संस्कृत 122 10B
93
85
त्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
206
734
www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________
अच्युतग्रन्थमालायास्तृतीयं पुष्पम् ।
श्री महर्षिकात्यायनप्रणीतं
शुल्बसूत्रम्
KKKKKEEKEKeer
-
प्रकाशस्थानम् अच्युतग्रन्थमाला-कार्यालयः
काशी
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat
Page #3
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________
अच्युत ग्रन्थमालाया
तृतीयं पुष्पम्
।
शुल्बसूत्रम् कात्यायनमहर्षिविरचितम्
काशीविश्वविद्यालयाध्यापकेन काशीस्थजोषीराममटरूमल्लगोयेनका-संस्कृतमहाविद्यालयाध्यापकेन च श्रीविद्याधरशर्मणा विरचितया सरलया
वृत्या सहितम् । तेनैव संशोध्य सम्पादितम् ।
प्रकाशस्थानम्
अच्युतग्रन्थमाला-कार्यालय,
काशी।
संवत् १९८५
प्रथमावृत्तिः १००० ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________
प्रकाशक:श्रेष्ठिप्रवर श्रीगौरीशङ्कर गायेनक अच्युतग्रन्थमाला-कार्यालय,
काशी।
मुद्रकःमाधव विष्णु पराड़कर, ज्ञानमण्डल यन्त्रालय,
काशी।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________
भूमिका। भगवतः करुणार्णवस्य परमेश्वरस्यासीमानुकम्पया साम्प्रत. मिदं कात्यायनशुल्बसूत्रं सरलया वृत्या परिहितमध्येतृमनस्तोषाय मुद्रितपूर्व सत्प्रकाश्यते।
ग्रन्थोऽयं कात्यानश्रौतसूत्रात्पृथग्भूतोऽपि परिशिष्टेष्वन्तर्गतः तेनैव च महर्षिणा प्रणीतः। अल्पीयानप्ययं ग्रन्थोऽतिकठिनो बहुभिर्व्याख्यातृभियाख्यातोऽपि तत्वबुभुत्सायां तिरोहित इवात्मानं गोपायतोति प्रायो विदितमेव । अत एव च पूर्वतनैाख्यानबहुभिः मण्डितोऽप्ययं सरलां व्याख्यामपेक्षत एवेति मन्यमानोऽस्य व्याख्याने प्रवृत्तोऽभवम् ।
अस्य ग्रन्थस्य मदुपलम्भगोचरं व्याख्याचतुष्टयं पूर्वमेव प्रथितम् । तत्रादिमं कर्काचार्यकृतं भाष्यम् , द्वितीयं महीधरकृतम्, तृतीयं रामचन्द्रवाजपेयिकृतम्, तुरीयं गङ्गाधरनिर्मितम् । राम चन्द्रवाजपेयिकृता कारिकाऽपि सूत्रानुसारिणी वृत्यभिधाना काचन वर्तते। कर्कभाष्यं वाराणस्यां चौखम्भामुद्रणालये मुद्रितम् । रामचन्द्रवाजपेयिकृतं व्याख्यानं त्रिंशद्वर्षेभ्यः पूर्वं पण्डितपत्रे मुद्रितं, तदसम्पूर्णमेव । मया तु पूर्वोक्तेभ्यश्चतुभ्यो व्याख्यानेभ्यः सार. मादाय तत्र च नातीवोपयुक्तानंशान् परित्यज्य सरलशब्दसन्दर्भि तेयं वृत्तिरारचिता। मन्ये ग्रन्थोऽयमिदानी मस्कृतया वृत्या सनाथीकृतोऽध्येतृणां किञ्चनावश्यं सौकर्यमापादयेदिति ।
(शुल्वपरिचयः) श्रौतसूत्रे हि अग्निहोत्र-दर्शपूर्णमास-पशु-चातुर्मास्यादिषु हविर्यः ज्ञेषु, ज्योतिष्टोमादिसोमयागेषु च तत्कर्मोपयुक्तस्थानापेक्षायां सत्यां तेषु तेषु प्रकरणेषु वेदिरानाता। तस्याश्च स्वरूपं यावदपेक्षितं तदपि यथास्थानं निरूपितम् । एवं चयनादिष्वपि परिमाणविशेषविशिष्टेष्टकाविशेषसाध्यस्थण्डिलवत्सु इष्टकानामुपधानप्रकारः, (१) स्थण्डि. लस्यायामतो विस्तारतश्च प्रमाणं, तदनुसारेण सौमिकवेदेवद्धनं, तदुपयोगितया प्रक्रमविवर्धनं, द्वितीयादिषु चयनेषु यदा स्थण्डिल. स्वरूपविवृद्धिस्तदनुरोधेन इष्टकाविवर्द्धनं च तत्तत्प्रकरणे एव
(१) इष्टकानां प्रमाणं सङ्ख्यादिकं च इष्टकापूरणसूत्रतोऽवगन्तव्यम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________
[ २ ] सूत्रकारेण समानातम् । तेषां ये विशेषा अवश्यनिरूपणीया आसन् , यथा-अग्न्याधाने गार्हपत्याहवनीययो स्थानं निरूप्य विततीये दक्षिणाग्ने स्थानमुक्तम् । वितृतीयस्वरूपं तु न तत्र स्पष्टीकृतम् । एवं चातुर्मास्येषु रथ युग-शम्याप्रमाणानि वेदेर्विकल्पनाम्नातानि; रथादीनां स्वरूपं न तत्र निरूपितम् । तथा चयने सुपर्णचितेः स्वरूपं सुस्पष्टतया निरूपितम् , द्रोणचिदादीनां नाना परमुपादानं कृतम् , तेषां स्वरूपादिकं न तत्र स्पष्टमपि । एवं चयनादिषु विवृद्धौ केनो. पायेन कियता प्रमाणेन कियत्या च सङ्ख्यया इष्टकादयो वर्द्ध नीयाः, तदनुसारेण वा विवृद्धिः कथं सम्पादनीया, इत्या. दिकं तत्र तत्र सूत्रकारेण न निरूपितम् , ते च विशेषा अनिरूपिता अज्ञाताश्च उत्तरकतुषु अनुष्ठाने वैकल्यमापादयन्ति इति तेषामपि निरूपणमवश्यमापतितमिति मन्वानेन सूत्रकारणायं श्रौतसूत्रपरिशिष्टरूपो ग्रन्थो निरमायि। अनेनाऽपि अनिरूपिताः केचनावशिष्टाः पदार्थाः समपीपदन् , तामपि त्रुटिं पूरयितुमेतद्ग्रन्थान्ते काश्चन कारिकाः सूत्रकारेण रचिताः, यासां नाम श्लोकशुल्बमिति, यासु कारिकासु तत्र तत्र वेदिनिर्माणार्थं निखातस्य शङ्कोः प्रमाणं प्रक्रमस्याङ्गलादे. मुद्रादीनां च परिमाणं सुस्पष्टमुपवर्णितम् । एवं श्रौतसूत्रापेक्षित. पदार्थसमर्पकोऽयं ग्रन्थस्तत्र ज्ञानविशेष सम्पिपादयिषुभिरवश्य मध्येतव्य इति मत्वाऽस्थापि मुद्रणं कृतम् ।
बौधायनापस्तम्बाभ्यामपि शुल्बसूत्रमारचितम् । आपस्तम्बमहर्षिकृतं शुल्बसूत्रं प्रायशो बहुत्राक्षरशः संवदत्यनेन सूत्रेण। तस्य च व्याख्यात्रयमुपलभ्यते। एकं कपर्दिस्वामिकृतं भाष्यम्, अन्यत् करविन्दस्वामिकृतम् , अपरं च सुन्दरराजकृतम्। बौधायनीय. शुल्बसूत्रं द्वारिकानाथयज्वकृतव्याख्यया युतं पण्डितपत्रे मुद्रितम्। इतरे च सूत्रकाराः शुल्बसूत्राण्यरीरचन्न वा इत्यत्र तूष्णीं भाव एव शरणं यावदन्यतरनिश्चायकप्रमाणोपलम्भम् ।
सूत्रकारस्य समयः, एतत्कृता ग्रन्थाः, अस्य रचना शैली इत्या. दिकं तु श्रौतसूत्रभूमिकायामेव मयानिरूपितमिति नात्र पिष्टं पिष्यते । दर्शपूर्णमास-सोमयागीयानां वेदोनां चित्राणि तेषां निर्माणप्रकारः, चयने च यावन्तःप्रकाराः, तेषां स्वरूपावेदकानि चित्राणि, तेषां रचनारीतयश्च श्रौतसूत्रेणैव साकं मुद्रिता इति तत एव ते सर्वेऽव.
गन्तव्याः। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________
[ ३ ] एवमीश्वरकृपया निर्मितस्यास्य विषये येभ्योऽहमधमर्णोऽतितरां, तेषां मध्ये प्रथमतोऽस्मत्तातपादानां सर्वतन्त्राणामपरेषां कात्यायनानां जगत्पूज्यचरणानामस्मद्गुरुभूतानां विद्वल्ललामभूतानां महामहोपाध्यायानां श्री १०६ प्रभुदत्तशास्त्रिणामाहिताग्नीनां चरणकमलेऽस्मदनुग्रहैकपरायणे अन्यत्कर्तुमनीशानः केवलं मनःकुसुमेनानवरतमर्चयामि, यत्प्रज्ञापारावारेऽनवरतमुल्लसन्त्या वैदिकविद्यावीचिपरम्पराया लेशमात्रमधिगम्य प्रभुरभवमेतद्व्याख्याकरणे।
ग्रन्थस्यास्य विलेखने येषामुपकार श्रासीत् , तेभ्यः श्रीमद्भ्यः श्रीचन्द्रशेखरझामहोदयेभ्यः काशीस्थजोषीराममटरूमल्लगोयेनका संस्कृतमहाविद्यालयाध्यापकेभ्यो ज्योतिषाचार्येभ्यो महती कृतज्ञतां प्रकटयामि ।
ग्रन्थस्यास्य मुद्रणविषये महान्तमपि व्ययभारमविगणय्य गैर्वा णीवाणीप्रणयिभ्यो धार्मिकग्रन्थोद्धरणेऽनवरतमाविष्कृतादरेभ्यो वैदिकपथप्रतिष्ठापने निबद्धकक्षेभ्यः सुरभारतीसेवायामेव समर्पितनिजकरणत्रयेभ्यः, तदेव च परं पुरुषार्थ मन्वानेभ्यो विनयावनम्रभ्यो गुणैकनिधिभ्यः सनातनधमकमयजीवितेभ्यः श्रेष्ठिवर्येभ्यः श्रीगौरीशङ्करगोयेनकामहोदयेम्यो महतीमाशीःपरम्परां हृदयेन वितरामि, प्रार्थयामि च भगवन्तं लोकगुरुमुमापतिम् , सुरभारतीसमुद्रणैकफलेन इतोऽप्यधिकैश्वर्येण तादृशा चायुषा समेधयत्वेनमिति ।
येषां गुरुचरणानामसीमकृपया ग्रन्थोऽयं निर्विघ्नेन परिसमाप्ति मवाप, तेषामेव श्रीविश्वनाथसदृशानामस्मत्तातपादानां महामहोपाध्यायानामग्निहोत्रिणां श्री १०६ मतां प्रभुदत्तशास्त्रियां चरणकमलयोरेव ग्रन्थमिमं समर्पयामि, तेन च मन्ये भगवान् विश्वेश्वरोऽपि प्रीतो भवेदिति । .
शोधनादिव्यापारेऽत्यन्तं जागरूकेण स्थितवतोऽपि मम बहव्योऽशुद्धयस्तथैव स्थिताः। अता विद्वजनान् विनम्रः प्रार्थये-पुनर्मुद्रणावसरे ते साक्षिगोचरीभूता अशुद्धीमा निवेद्य मामनुगृह्णन्त्विति, मयापि इतोऽप्यधिकतरमवहितेन ताः समीकरिष्यन्त इति ।
विदुषामनुचरःविद्याधरशर्मा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________
१२-१५
१९-२०
२३
२४-२५
विषय-सूची। पृष्ठाङ्कः १ ग्रन्थकारप्रतिज्ञा ... २ प्राचीसाधनम् ... ३ उदीचीसाधनम् ... ३ पाशकरणप्रकारः ३ रज्ज्वां चिह्नकरणं तत्स्थानानि ५ शङ्कनिखननम् ५ श्रोणिसाधनम् ५ अंससाधनम् ... ६ निरञ्छनलक्षणम् ७ श्रोण्यंसस्थानम् ८ शकटमुखे चपने श्रोणिस्थानम् ८ प्राग्वंशादीनां प्रमाणम् ९ सत्रे सदोमानम् ... ९ सोमयागे सदोमानम्। ९ अपरिमितशब्दार्थः १० प्रमाणापेक्षायां शुल्बस्य युक्तेश्च प्रामाण्यम् १० दक्षिणाग्निस्थानम् ११ उत्करस्थानम् ...: १२ दक्षिणाभ्युत्करयोः स्थानान्तरम
इति प्रेथमा कण्डिका । १२ रथप्रमाणम् १३ ईषाप्रमाणम् ... १३ अक्षप्रमाणम् .... १३ युगप्रमाणम् ... १३ शम्याप्रमाणम् ... १४ पितृमेधवेदेर्निरूपणम् १४ रजुसंज्ञाः ... १५ दशपद्याया वेदेः करणी १५ चत्वारिंशत्पद्याया वेदेः करणी... १६ क्षेत्रज्ञानप्रकारः ... १६ क्षेत्रद्वैगुण्यादिकरणप्रकारः ... १७ त्रिकरणीसाधनम् १८ तृतीयकरणीकथनस्य प्रयोजनम् १९ समचतुरस्त्राणामेकीकरणप्रकारः
इति द्वितीया कण्डिका ।
२८ २९-३०
..........
१२-१३ १४ १५-२० २१-२२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________
पृष्ठाङ्कः
२० महत्क्षेत्र लघुक्षेत्रस्य पृथक्करणप्रकारः
२९ चतुस्रस्य मण्डलकरणप्रकारः, ३० वृत्तस्य चतुरस्रकरणोपायः
२१ दीर्घचतुरस्रस्य समचतुरस्त्रीकरणोपायः २३ अतिदीर्घचतुरस्त्रस्य समचतुरस्रीकरणोपायः २५ समचतुरस्त्रविषमचतुरस्र पोर्दीर्घ चतुरस्त्र करणोपायः
२७ अनादेशे चतुरस्रस्य ग्राह्यता २८ करणीनां क्षेत्रफलम्
( २ )
C
...
...
...
...
३० चितिनामानि ३१ द्रोणचिति निर्माणप्रकारः ३२ प्रउगचिति निर्माणप्रकारः ३३ उभयतः प्रउगचितिनिर्माणम ३३ प्रउगचितेश्वतुरस्त्रीकरणोपायः ३४ उभयतः प्रज्मचितेश्वतुरस्त्रीकरणम् ३५ त्रिकर्णपञ्चकककर्णद्विकर्ण समासः
४० अङ्गलादिमानम् ... ४० पुरुषवर्द्धने प्रकारान्तरम् ४१ अधिमानस्य पुरुषे प्रक्षेपः ४१ अष्टानवतिविधचयने विशेषः
...
३६ पुरुषवृद्धिकथनप्रतिज्ञा ३७ अश्वमेधचयने विशेषः
३७ एकविंशतिविधस्याग्नेः कथनम्
३७ पुरुषवर्द्धन प्रकारः
...
इति तृतीया कण्डिका ।
...
...
...
...
...
...
...
...
४२ वेदीष्टका वृद्धिकथनप्रतिज्ञा ४२ वेदिवर्द्धन प्रकारः ४६ अन्तः पात्य-गार्हपत्ययोर्न वृद्धिः ४७ यूपैकादशिन्यां वेदिवर्धनप्रकारः
४९ लोकशुल्वम
...
...
Cvj
...
...
...
...
...
इति चतुर्थी कसिडका ।
008
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
400
...
..
0.0
...
...
...
...
ra 680
इति पञ्चमी करिडका ।
...
...
...
...
...
...
...
0.30 ...
इति षष्ठी काहिका ।
...
इति सप्तमी कण्डिका ।
...
...
...
...
...
...
...
100
⠀⠀⠀⠀⠀⠀⠀⠀
...
...
...
...
⠀⠀⠀⠀
...
...
...
...
:
800
सूत्राडूः
Mata,
६-१२
१३
१४
१
२-४
S
29.V
८
९-१०.
१
२
४-८
९
१०
११
१२
199
$
i-'s
६ ८-११.
१-३९
www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________
श्रीगणेशाय नमः।
सरलवृत्तिसहितम् कात्यायन-शुल्बसूत्रम्.
जगदम्बावलम्बाय निरालम्बाय शूलिने । जगत्रयकुटुम्बाय नमः साम्बाय शम्भवे ॥१॥ जनकं ज्ञानदं नत्वा प्रभुदत्ताग्निहोत्रिणम् । तद्दर्शितपथीं कुर्वे वृत्ति शिशुविबोधिनीम् ॥२॥ श्रीमत्कात्यायनप्रोक्तशुल्बसूत्रं यथामति । व्याख्यातुमेष यत्नस्तत्प्रीयतांपरमः पिता ॥३॥
रज्जुसमासं वक्ष्यामः ॥ १॥ रज्वा (१) समस्यते सतिप्यते यः प्रदेशः स रज्जुसमासः(२)।
(१) रज्जुलक्षणं श्लोकशुल्बे
"अजीर्णा ग्रथिनी सूक्ष्मा समा श्लक्ष्णा त्वरोमशा। रज्जुर्मानाधिका कार्या अध्वरे योगमिच्छता । शाणी वा बालाजी चैव वैणवी वा विधीयते । रज्जुस्तूभयतःपाशा त्रिवृता यज्ञकर्मणि। रज्जुर्मुञ्जमयी कार्या शणैस्तु परिमिश्रिता।
कात्यायनो वदत्येवमखोडा कुशबावजैः ।" इति (श्लो. शु. १०.१२)। अखोडा =अरोमशा।
(२) "रज्जुशब्देन तत्साध्य क्षेत्रमुच्यते । समास एकीकरणम् । तेन तुल्यप्रमाणातुल्यप्रमाणानां क्षेत्राणामेकीकरणं वक्ष्यामः" इत्यर्थो गङ्गाधरभाष्ये । रजोः समासः = सम्यगसन क्षेत्रानुगुणतया धारणमिति वृत्तिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________
सवृत्ति कात्यायन शुल्बसूत्रे -
[ कं. १ समासो व्यासादेरप्युपलक्षकः (१) । रज्वा सङ्क्षिप्यते विस्तार्यते च यथा, (२) तंप्रकारं कथयिष्याम इति भावः ॥ १ ॥
आदौ दिक्साधनमाह
समे शङ्कं निखाय, शङ्कसम्मितया रज्वा मण्डलं परिलिख्य, यत्र लेखयोः शकग्रच्छाया निपतति तत्र शकू निहन्ति सा प्राची ॥ २ ॥
समे = मुकुरजठरवत्समीकृते देशे ( ३ ) शङ्कं निखाय, ( ४ ) शङ्कुसम्मितया = शङ्कौ सम्यक् मितया ( ५ ) प्रक्षिप्तया धारितया रज्वा मण्डलं = वृत्तं परिलिख्य = कृत्वा, लेखयोः (६) मण्डल पूर्वापरदिग्गतयोर्लेखयोः यत्र = यस्मिन् प्रदेशे शङ्कोरग्रस्य छाया पूर्वाहे पश्चिमरेखायां प्रविशति, अपराह्णे च पूर्वरेखायां निःसरति, तत्र =
(१) "समचतुरस्रं चिकीर्षन्” (३४) इत्यादिना व्यासादिरपि वक्ष्यते, अतः समासग्रहणमेतच्छाखप्रतिपाद्यसकलविषत्रस्योपलक्षणम् ।
( २ ) " वेणुना मिमीते" ( आप शु. ४ । १२ ) इति वेणोर्मानसाधनत्वेनाभिहितेऽपि इह रज्जूपादानमृज्वर्थम् । " नान्यत्सूत्राद्रुजुर्भवेत्” (श्लो. शु. ३) इति वचनात्, "त्रिपुरुषां रज्जुं मिस्वा" ( का . श्रौ. १६1०1१ ) इति स्वसूत्राच्च । (३) समत्वं जलनैव संभाव्यम् । " न जलात्सममन्यत्स्यात् " ( शुल्ब ३) इति वचनात् ।
(४) शङ्कुलक्षणम् -
" षडङ्गुलपरीणाहं द्वादशाङ्गुलमुच्छ्रितम् ।
जरठ (दृढं ) चात्रणं चैत्र शङ्कं कुर्याद्विचक्षणः ।" ( हो. शु. ६ )
तथा
" एकतक्ष ऋजुस्तीक्ष्णः खादिरः सममायतः ।
शङ्कुः
: कार्यस्तु शुल्त्रज्ञैस्तस्यार्द्ध गमयेन्महीम् ।" ( श्लो. शु. ८ )
तथा-
"प्रादेशमात्रो हविर्यज्ञे पूर्वलक्षणलक्षितः ।
शङ्करामशिराः कार्यस्तस्याप्यर्द्ध निखापयेत् ।" इति ( श्लो. शु. ९ ) । आमशिरा आशिराः ।
( ५ ) डुमिज् प्रक्षेपे ( ५ / ४ ) इत्यस्य क्तान्तस्य प्रयोगः । यद्वा 'मा माने' ( २/५२ ) इत्यस्य प्रयोगः । तदा शङ्कतुल्यया द्वादशाङ्गुलया रजवेत्यर्थः । (६) मण्डले लेखैकत्वेऽपि लेखयोरिति द्विवचनं पूर्वापरदिगभिप्रायम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________
३
कं. १]
परिभाषाप्रकरणम् । स्थलद्वये एकैकं शङ्ख (१) निखनेत् ; तयोः शक्वोरुपरि नीता रज्जुः प्राची = पूर्वापरा दिग्भवति । प्राकशङ्कः प्राची, पश्चिमशङ्कः प्रतीची । प्राचीशब्दस्य ससम्बन्धिकत्वात् प्रतीच्यपि लक्ष्यते ॥ २ ॥
उदीचीसाधनमाहतदन्तरठे रज्वाऽभ्यस्य, पाशौ कृत्वा, शक्कोः पाशी प्रतिमुच्य, दक्षिणाऽऽयम्य, मध्ये शकुं निहन्त्येव
मुत्तरतः सोदीची ॥३॥ तयोः= निखातयोः शक्कोरन्तरम् = अन्तरालम् अन्तराल. मितां भुवं रज्वा मित्वा, तां रज्जुम् अभ्यस्य = द्विगुणीकृत्य, द्विगुणीकृतरजोरन्तयोः पाशौ कृत्वा (२) तौ पाशौ शङ्कोः प्रक्षिप्य, द्विगुणीकृतरज्जुमध्यं कृतचिह्न दक्षिणस्यां दिश्याकृष्य यत्र रज्जुमध्यमापतति, तत्र मध्ये मध्यचिन्हेन स्पृष्टे भूभागे शत निहन्ति सा दक्षिणा दिक् । एवमुत्तरस्यां दिशि द्विगुणितरज्जुमाकृष्य मध्यभागे शङ्ख निहन्ति मुद्रेण, ( ३ ) सा उदीची दिग्भवति ॥ ३ ॥ क्षेत्रसाधनाय परिभाषामाह
रजवन्तयोः पाशौ करोति ॥४॥ अन्यत्रापि क्षेत्रमानार्थं या रज्जुरुपादीयमाना भवेत्, तत्र सर्वत्रापि रज्जुमात्रे तस्या अन्तयोः पाशौ कुर्यानियमेन ॥ ४ ॥
(१)चिन्हेनाप्यर्थसिद्धेः शङ्कनिखननं "तच्छड़े निहन्ति" (श. बा. ३।५।११) इति श्रुत्यनुरोधेन।
(२) यथा रजोर्मानं न हीयते तथा पाशौ करणीयौ"यथा न क्षीयते मानं यथा च न विवर्द्धते। यथा च रमते दृष्टिस्तथा योगं समाचरेत् ।" (श्लो. शु. १९) (३) मुद्गरलक्षणं च"चतुरस्र मुद्रं तत्षोडशाङ्गलमायतम् ।
अविद्धं क्रमणीयं च दारुमध्याञ्च निर्मितम् ।" (श्लो. शु. १०) अविद्धं काष्ठान्तरेण । क्रमणीयं शङ्कहननरूपक्रमणार्हम् । तथा"द्विवितस्तिप्रमाणस्तु खादिरो मुद्रस्तथा ।
शङ्कस्तेन निखातव्यस्त स्मात्तस्य परिग्रहः।"' श्लो. शु. ७) इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________
__. सवृत्ति-कात्यायन-शुल्बसूत्रे
[ कं. १ मानाथं गृहीतायां रजवां चिन्हस्थानान्याहश्रोण्यस-निरन्छन-सङख्यासमासभङ्गोषु
लक्षणानि॥५॥ वेद्यादेनैर्ऋत्य-वायव्यकोणौ श्रोणी, आग्नेयैशानकोणावंसावुच्येते। निरञ्छनं वक्ष्यमाणलक्षणम् (१।१२)। सङ्ख्ययोः प्रमापरज्वभ्यासरज्वोर्यः समासः = संयोग एकीकरणम्, तस्य भङ्गो = विभागः संख्यासमासभङ्गः । अर्थाद् द्विगुणरज्वा मध्ये यो बिन्दुः स एव सङ्ख्यासमासभङ्गपदवाच्यः । इष्टक्षेत्रायाममिता रज्जुः, तावत्परिमाणा द्वितीया रज्जुरभ्यासरज्जुरित्युच्यते । श्रोणी च अंसौ च निरञ्छनं च सङ्ख्यासमासभङ्गश्च, तेषु लक्षणानि = चिन्हानि कुर्यात्। अत्र श्रोण्यादिपदानि श्रोण्यादिमापकरज्जुपराणि। तेन क्षेत्रमानार्थ क्षेत्रद्विगुणां रज्जुमादाय तत्र श्रोणिचिह्नम् , अंसचिह्न, निरञ्छनचिह्न सङ्ख्यासमासभङ्गचिह्नं च कुर्यादित्यर्थः ॥ ५ ॥
प्राच्यन्तयोः शङ्क् निहन्ति ॥ ६ ॥ प्राची पूर्वा दिक् । अन्तः प्रतीची । प्राची च अन्तश्च प्राच्यन्तौ, तयोः शङ्क निहन्यात् । इष्टक्षेत्रे यावती प्राची इष्यते, यथा-दर्शपौर्णमासवेदिः "ध्यरनिं प्राचीम्" (२।६।१) इत्यनेन त्र्यरनिदी. र्घा विहिता, यथा च ज्योतिष्टोवेदिः “पुरस्तात्षत्रिशति" (३८) इति षट्त्रिंशत्प्रक्रमदीर्घा विहिता, तत्र सर्वत्र तावत्याः पूर्वापरान्तयोः शङ्क निखनेदिति भावः (१) ॥ ६ ॥ कोणेषु शङ्कनिखननमाह
श्रोण्यठ सयोश्च ॥ ७॥ श्रोणिद्वयेऽसद्वये च शङ्क निखन्याद्वक्ष्यमाणविधिना । सर्वत्र क्षेत्रमापने कोणेषु शङ्कुनिखननमिति भावः ॥ ७ ॥
(१) "समे शङ्क निखाय" (१२) इत्यादिना यत्प्राच्यन्तयोः शङ्कनिखननमुक्तं तत्प्राचीसाधनार्थम् । अत्र पुनरन्यत्रापि इष्टक्षेत्रे प्राच्यन्तयोः शङ्कद्वयं निखेयमित्येतदर्थमिदमुक्तम् । अतो न पुनरुक्तिः । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________
कं. १]
परिभाषाप्रकरणम् ।
श्रोण्यंससाधनमाह
शङ्कोः पाशौ प्रतिमुच्य निरञ्छनेन गृहीत्वा दक्षिपूर्वी दिश० हरन्ति ॥ ८ ॥
" प्राच्यन्तयोः शङ्क निहन्ति” ( १६ ) इत्यनेन यो पूर्वापरौ शङ्क निहतौ तयोः शङ्कोर्द्विगुणिताया रज्वा अन्तयोः कृतौ पाशौ प्रतिमुच्य वक्ष्यमाणलक्षणेन निरञ्छनसंज्ञकेन चिन्हेन रज्जुं गृहीत्वा आयीं दिशं प्रति श्राकर्षेत्, तत्रांसचिन्हे शङ्कर्देयः । एवं कृते सति क्षेत्र प्रमाण तिर्यङ्मानीकं पादोनक्षेत्र प्रमाणपार्श्वमानीकं सपादक्षेत्र प्रमाणादण्याकं व्यस्त्रि क्षेत्रं समुत्पद्यते । इदं च व्यस्त्रिक्षेत्रसमुत्पादनमंससाधनार्थम् । प्रदर्शित पार्श्वमानीरूपायां रजवामेव अंससाधनाथं शङ्कं दद्यात् इति "प्रमाणार्द्ध समचतुरस्रस्य शङ्कः " ( १।१६ ) इत्यादिना स्वयमेव वक्ष्यति । अत्र निरञ्छन चिह्नमंसचिह्नसमीपवर्ति कर्त्तव्यम् (१) ॥ = ॥
"
एवमुत्तरतः ॥ ६ ॥
एवं = शक्कोः पाशौ प्रतिमुच्य निरञ्छनेन रज्जुं गृहीत्वा उत्तरत ईशान्यां रज्जुमाकृषेत्, तत्रोत्तरांसचिन्हेऽपरः शङ्कर्देयः । श्रत्राप्युतरांससाधनाय पूर्ववत् व्यस्त्रि क्षेत्रमुत्पद्यते ॥ ६॥
विपर्यस्येतरतः ॥१०॥
इतरशब्देन क्षेत्रस्य पश्चिमप्रान्त उच्यते । विपर्यस्येत्यनेन रज्जुपाशयोर्विपर्यास उच्यते । तेनायमर्थः । इतरतः = पश्चिमभागे विपर्यस्य = रज्जुपाशौ परिवर्त्य पूर्वशङ्कपाशं प्रतीचीशङ्कौ, प्रत्यक्पाशं च पूर्वशङ्कौ प्रक्षिप्य निरञ्छनेन नैर्ऋत्यकोणे रज्जुमाकृष्य तत्र शङ्कर्देयः, सा दक्षिणा श्रोणिः । एवं वायव्यकोणे चाकृष्य शङ्कर्देयः, सा उत्तरा श्रोणिः । एते शङ्कवः प्राच्यन्तयोरित्यादिसूत्रद्वयेनोक्ताः ( ६-७ ) । तेन पूर्वोक्तप्रकारं व्यस्त्रि क्षेत्रमुत्पद्यते श्रोणिसाधनार्थम् । पाशविपर्यासेन निरछनचिह्नं प्रत्यकक्षोणिचिह्नसमीपवर्तिं भवति ॥ १०॥
(१) महति क्षेत्रे एकेन रज्जुप्रसारणस्य कर्तुमशक्यत्वाद्धरन्तीति (मूले) बहुवचनम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________
सवृत्ति - कात्यायन शुल्बसूत्रे -
स समाधिः सर्वत्र ॥ ११ ॥
सर्वत्र = समदीर्घचतुरस्त्र क्षेत्रेषु "रज्वन्तयोः पाशौ करोति” (१/३) इत्यादिना स - पूर्वोपदिष्ट एव प्रकारः समाधिः = साधनोपायो बोध्यः ॥११॥
•
समचतुरस्रे निरञ्छनलक्षणमाह
प्रमाणमभ्यस्याभ्यास चतुर्थे लक्षणं करोति तन्नि रञ्छनम् ।। १२ ॥
६
[ कं. १
•
प्रमाणम् = इष्टक्षेत्रप्रमाणमितां रज्जुम् अभ्यस्थ = द्विगुणं कृत्वा अभ्यासस्य = अभ्यस्तरज्वाः ( कृतचतुर्भागायाः ) चतुर्थे = प्रमाण रज्जुसंनिकृष्टे चतुर्थे भागे सङ्ख्यासमासभङ्गसमीपे चिन्हं कुर्यात् न त्वन्ते तत् निरञ्छनसंज्ञकं भवति । निरञ्छयते श्राकृष्यते रज्जुर नेनेति निरञ्छनं क्षेत्रायामरज्जुः । श्रत्र प्रमाणरज्वा अभ्यासरज्ज्वाश्च चत्वारश्चत्वारो भागाः कार्याः । तेन सा रज्जुरष्टधा विभक्ता भवति । तत्र प्रमाणरज्जुसन्निकृष्टे अभ्यासरज्जुचतुर्थे भागे निरञ्छने कृते एकतः पञ्चांशा, अपरतस्त्रयोंऽशा भवन्ति । तत्र भागत्रयात्मिका रज्जुः तिर्ययानीशब्देन पञ्चभागात्मिका रज्जुरक्ष्णयाशब्देन व्यवह्रियते । एतच्चानुपदमेव वक्ष्यति ॥ १२ ॥
"
अक्ष्णया तिर्यमानीशेषः ॥ १३ ॥
==
त्रिभागा रज्जुस्तिर्यङ्मानी । तस्याः शेषस्तिर्यङ्मानीशेषः पञ्चभागा रज्जुः, सा प्रश्णया इत्युच्यते । श्रक्षिवत् क्षेत्रं नयतीत्यक्ष्णया । तिर्यक् प्रमाणं मीयतेऽनया सा तिर्यङ्मानी । श्रक्ष्णया कर्णं इत्यनर्थान्तरम् । यत्र प्रमाणरज्जुश्चतुर्भागा, तिर्ययानी च त्रिभागा, तत्राक्ष्णया रज्जुः पञ्चभागा भवतीत्यर्थः ॥ १३ ॥
दीर्घचतुरस्त्रे महावेदि - पत्नीशाला सदश्रादौ
निरञ्छन स्व
लक्षणमाह–
प्रमासार्द्ध वाऽभ्यस्याभ्यासषष्ठे लक्षणं करोति तन्नि
रञ्छनम् ॥ १४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________
कं. १]
परिभाषाप्रकरणम् ।
अथवा (१) प्रमाणस्य = इष्टक्षेत्रायामप्रमाणरज्ज्वा अद्धं प्रमाण मभ्यस्य = द्विगुणीकृत्य प्रमाणरज्ज्वां वर्द्धयित्वा अभ्यस्तरज्जुषोहा विभज्य प्रमाणरज्जुसंलग्ने षष्ठेऽशे चिन्हं करोति, तन्निरञ्छनम् । यथा-सोमयागे षट्त्रिंशद्धस्तदीर्घा महावेदिः, तत्र प्रमाणरज्जुः षत्रिंशद्धस्तदीर्घा , तदर्धमष्टादश , तत्राष्टादशहस्तवृद्धौ चतुष्पश्चाशद्धस्तमिता रज्जुः सम्पद्यते, तत्राभ्यस्तरजौ षोढा विभक्तायां हस्तत्रयात्मक एकैको भागो भवति, तत्र षष्ठंऽशे चिन्हे दीयमाने ऊनचत्वारिंशद्धस्तेषु चिह्नं भवति, तन्निरञ्छनम् । पञ्चदशहस्तात्मकाः पञ्च भागा अवशिष्टा भवन्ति । अत्रापि प्रमाणरज्जुः षत्रिंशद्धस्तदीर्घा, तिर्यमानी रज्जुः पञ्चदशहस्तदीर्घा, अदणयारज्जु. रेकोनत्रिंशद्धस्तदीर्घेति बोध्यम् ॥१४॥
अदणया तिर्यमानीशेषः ॥१५॥ पूर्वोक्तायां चतुःपञ्चाशद्धस्तदीर्घायां रज्वां पञ्चदशहस्ता रज्जुस्तिर्यङमानी। तस्याः शेषः = एकोनचत्वारिंशद्धस्तदीर्घा रज्जुः अक्षणया इत्युच्यते ॥१५॥ समचतुरस्त्रस्य श्रोण्यंसस्थानमाह
प्रमाणार्द्ध समचतुरस्रस्य शङ्कः ॥१६॥ अभीप्सितस्थ समवतुरस्रस्य = क्षेत्रस्य यत् प्रमाणम् = पायामः, तस्याः (श्रोण्यंसपरिच्छेदाय ) शङ्कर्देयः, स चाभ्या. सरजोर? देयः। यथा-हस्तमिते क्षेत्रे हस्ताद्धे इति । समास्तुल्याश्च. त्वारोऽस्रयः कोणा यस्य तत्समचतुरस्त्रम् ॥ १६ ॥ दीर्घचतुरस्रस्य श्रोण्यंससाधनमाह
शास्त्रवदधैं दीर्घचतुरस्रस्य ॥१७॥ (१) “वाशब्दो दीर्वचतुरस्त्र-विषमदीर्घचतुरस्रयोरेव विकल्पावबोधको, न चतुरस्रस्थापि, असंभवात् । अत्रोदाहरणेनैव व्याख्या । यथा-द्वादशाङ्गलायामे षडङ्ग लविस्तारमिते दीर्घचतुरस्त्रे द्वादशाङ्गुलायामप्रमाणाद्धं षडङ्गलानि, तान्य भ्यस्य वर्द्धयित्वा, तस्य षडङ्गलमिताभ्यासस्य षष्ठेशे प्रमाणाज्जुसनिकृष्टाभ्यास षष्ठांशे सङ्ख्यासमासभङ्गादेकाले पाशात्मञ्चमाङ्गले इत्यर्थः" इति गङ्गाघरमाध्ये। Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________
सवृत्ति - कात्यायन शुल्बसूत्रे -
[ कं. १
दीर्घचतुरस्रस्य क्षेत्रस्य यावान् विस्तारः शास्त्रे उक्तः, तदर्भे तिर्यङमानचिह्नं रजवां कुर्यात् । यथा – ज्योतिष्टोमे महावेद्याः श्रोणिः त्रिंशद्धस्ता त्रयस्त्रिंशद्धस्ता वा विहिता (का.श्रौ. ८३६- १०) | तत्र त्रिंशद्धस्तपक्षे सार्द्धषोडशसु हस्तेषु चिन्हं कृत्वा तत्र शङकुं निखन्यात् । दीर्घचतुरस्रे विस्तारस्यानियतत्वादिदमुक्तम् ॥ १७ ॥
शकटमुखस्य चैवम् ॥ १८ ॥
सचयने सोमयागे शकटमुखाकृतिं व्यस्त्रां चिति विकल्पेन वक्ष्यति, ( ४/५ ) सैव चितिः शकटमुखशब्देनोच्यते । चयनयागे शकटमुखाकारस्य त्र्यस्त्रिक्षेत्रस्य शास्त्रोक्त विस्तारार्द्ध श्रोण्यथं शकुं दद्यात् । इदं च चिन्हं श्राणिसाधनाय, व्यस्त्रिक्षेत्रेऽसाभावात् ॥ १८ ॥ एतेन प्राग्व०श-वेदिमानानि व्याख्यातानि ॥ १६ ॥
"
एतेन समचतुरस्र-दीर्घ चतुरस्र ध्यस्त्रिक्षेत्र साधनेन प्राग्वंशानां हविर्द्धानादिमण्डपानां वेदीनां च मानानि व्याख्यातानि = उक्तानि बोद्धव्यानि, अर्थात् तेषामप्यर्द्ध शङ्कुर्देयः । प्राक् = प्रागग्रो वंशः = पृष्ठवंशः = मध्यबलो यस्य मण्डपादेः स प्रागग्रः । ( यस्य वंशस्योपरि दक्षिणत उत्तरतश्च वंशाः प्रोता भवन्ति स मध्यमो वंशः पृष्ठवंश इत्युच्यते ) तत्र सोमयागे पत्नीशाला, विमितं हविर्द्धानमण्डपः, श्राग्नीधमण्डपः, मार्जालीयमण्डपश्वेत्येते प्राग्वंशा भवन्ति । तत्र पत्नीशाला ऽऽग्नीध्र-मार्जलीयाः पञ्चहस्तमिताः, तदर्धं सार्द्धहस्तद्वयात्मकं, तत्र शङ्कः । विमितं (१) दशारनिदीर्घम् तदर्धे शङ्कः । हविर्धानमण्डपो दशहस्तदीर्घः, तदर्थं शङ्कः । वेदिश्व) ऐष्टिकी, सौमि की, वारुणप्रधासिकी च । ऐष्टिकी वेदिरुयरनिदोर्घा, सोमिकी पत्रशदरनिदीर्घा, वारुणप्रधासिकी सप्तारत्तिदीर्घा षडरनिदोर्घा वा । तदर्भे शङ्कुः ॥ १६ ॥
1
"
1
शालामानं च ॥ २०॥
ज्योतिष्टोमे "शालां वा" ( ७|११२६ ) इति सूत्रेण विमितेन सह शाला विकल्प्यते । तस्याः शालाया मानं च दीर्घचतुरस्ररज्जुकथनेन व्याख्यातम् । शाला च
(१) "विमितं चतुरस्त्रं स्याद्दशारत्रिप्रमाणतः” इति निगमपरिशिष्टम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________
कं. १]
परिभाषाप्रकरणम् । "विशत्यरत्निः शाला स्यात्तदर्धेन तु विस्तृता" (निग. प.)
इति दीर्घचतुरस्रा भवति, तदर्धे शङ्कः । इयमपि प्राग्वंशा कार्या ॥२०॥
तत्रोदीची प्राचीवत् ।। २१ ॥ “उदीचीनवर्ड शामेव शालां मिन्वन्ति" इति सत्रेषूदीचीनवंशा शाला विहिता। तत्रोदीची प्राचीत्वेन व्यवहर्तव्या । "प्राच्यन्तयोः शङ्क निहन्ति” (११६) इत्यादि यदुक्तं, तदुदीच्यां कर्तव्यमित्यर्थः । शालाया उदगायतत्वादादावुदगग्ररज्जुन्यासं कृत्वा शङ्क निहत्य पश्चात्तिर्यमानं साध्यमिति यावत् । सत्रेषु ससप्ततिशतारनिदीर्घा शाला विहिता, तर्धं पञ्चाशीतिररत्नयः, तत्र शङ्कः ॥ २१ ॥
सदसश्चैवम् ॥२२॥ सोमयागे सदोऽभिधानो मण्डपोऽशदशारनिदोघों नवारनि. विस्तृतो दीर्घचतुरस्र उदग्वंशो विहितः (का. श्री ८।६।३)। तत्रापि शालावत् उदीची प्राचीत्वेन व्यवहर्तव्या। सदोमण्डपस्य दैर्ये विस्तारे चान्येऽपि पक्षाः सन्ति, ते तत एवावगन्तव्याः (का. श्री. ८।६।६ )॥२२॥ परिभाषामाह
अपरिमितं प्रमाणाद् भूयः ॥२३॥ . यत्र सूत्रकृता अपरिमितशब्दः प्रयुक्तः, यथा-वरुणप्रघासे वेदिमुपक्रम्य "अपरिमिता वा" (का. श्री. ५।३।१४) इति, यथा च दीक्षासु "द्वादश दोक्षा अपरिमिता वा” (७।१।२४ ) इत्यादौ, तत्र सर्वत्र प्रमाणात् = उक्तमानात् भूयः अधिकं मानं ग्राह्यम् । अपरि. मितशब्दः पूर्वोक्तप्रमाणादधिकप्रमाणे सढोऽवगन्तव्यो, न तु न परिमिता अपरिमिता इति नञ् समासेन विगृह्य प्रमाणाभाववाचक इत्यर्थः (१) । अधिकप्रमाणता च एकेनैव सम्पादनीया, न तु द्वित्रा
(१) अपमितां वेति यदिष्टिवेदावुक्तम, (२०६१) अपरिमितेष्टक इति च यच्चयनेऽप्युक्तम्, (१७२८) एतद् द्वयं विना उक्तमानाधिकवाची अपरिमित. शब्दः । इष्टिवेद्यां चयने च मानाभावार्थोऽपरिमितशब्दः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________
१०
सवृत्ति-कात्यायन-शुल्बसूत्रे- [कं. १ दिना, अनवस्थाप्रसङ्गात् । तेन "द्वादशदीक्षा अपरिमिता वा" इत्यत्र त्रयोदश दीक्षा अपरिमितशब्दार्थः । एवं सर्वत्रोह्यम् ॥२३॥
एवं सर्वत्र प्राप्तौ व्यवस्थामाहप्रमाणे शास्त्रं प्रमाणं निहासविवृद्धयोः ।। २४ ।। प्रमाणे = मानेऽपेक्षिते (शुल्ब ) शास्त्रमेव प्रमाणं नान्यत् ।'
यथा-"पञ्चारनिः पञ्चदशपर्यन्तः सोमे" ( का. श्री. ६।१।२६) इत्यादिना यूपस्यारनिना परिमाणमुक्तं ज्योतिष्टोमे, अश्वमेधे च “एकविठशतिरश्वमेधे" ( का. श्री. ६।१३२) इति, अत्र यूपपरिमाणस्य वृद्धौ हासे च शास्त्रोक्ते एव ह्रासवृद्धी ग्राह्ये, न स्वे. च्छया । यथा वाऽष्टविधादिचयने पुरुषमात्राभ्युच्चयेन वृद्धिः । यथा च सौत्रामणीवेद्यां सौमिकीवेदीतो ह्रासः । अयं च हासःप्रक्रमतृतीयमानेनैव कार्य इति वक्ष्यते (२०१५) ॥ २४ ॥
योगश्च ॥ २५ ॥ योगो नाम युक्तिः, साऽप्याश्रयणीया । युक्त्या ह्रासवृद्धी विधेये, नाधिकन्यूने (१) ॥ २५॥
दक्षिणाग्निस्थानमाह सूत्रयुग्मेनइतरस्य वितृतीये दक्षिणत इत्येतदक्ष्यामः ।।२६।।
"इतरस्य वितृतीये दक्षिणतः” ( का०श्रौ० ४१८) इति दक्षिणाग्निं प्रकृत्योक्तम् , तद् विविच्य वक्यामः । अग्निहोत्र. शोलायां पश्चिमभागे गार्हपत्यस्थानं सार्द्धत्रयोदशाङ्गुलकर्काटकभ्रा मणेन वृत्तं (२) निर्माय तन्मध्यात् पुरस्तात् एकादशप्रक्रमव्यव
(1) अत एव चतुर्भागादिवृहत्यन्सानामिष्टकानां न तुल्यो हासः। तत्र योगो युक्तिरेव प्रमाणम् । अत एव देवयाज्ञिकैरिष्टकानिर्माणपद्धतौ पुरुषे पुरुष. द्वात्रिंशांशं वर्द्धयित्वा तत इष्टकायन्त्रनिर्माणमभिहितम् ।
(२) "परिमण्डलधिष्ण्यं गार्हपत्यस्य, चतुरस्र माहवनीयस्य । अर्द्धचन्द्र इव दक्षिणाग्नेः, सभ्यावसथ्ययोर्गार्हपत्यवत्" इति (निग० प०)। कर्काचार्यास्तु "अन्यन्वाधानमध्वर्युर्यजमानो वा” (२०१२) इति सूत्रे आहवनीयप्रमाणं बाहुपरिमितमाहुः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________
कं. १]
परिभाषाप्रकरणम् ।
११
हिते (१) द्वादशप्रक्रमव्यवहिते वा देशे श्राहवनीयमध्यं कल्पयेत् । श्रहवनीयश्च चतुर्विंशत्यङ्गुलसमचतुरस्रः । एवमन्यायतनद्वयमुक्त्वा पश्चादिदमुक्तम् "इतरस्य वितृतीये दक्षिणतः " ( का.श्रौ. ४।८।१८ ) इति । इतरस्य दक्षिणाग्नेः स्थानं गार्हपत्यस्य पुरस्ताद् वितृतीये दक्षि गतः कर्तव्यमिति तदर्थः । तं वितृतीयार्थं विविच्य वक्ष्यामः ॥ २६ ॥
प्रतिज्ञातमाह
गार्हपत्याहवनीययोरन्तरठ० पढ्ढा सप्तधा वाऽऽगन्तुसमं त्रेधा विभज्यापर वितृतीयलक्षणेन दक्षिणाऽऽयम्य तस्मिन्नग्निः || २७ ॥
गार्हपत्यश्चाहवनीयश्च गार्हपत्याहवनीयौ । तयोरन्तरम् - अन्तरालम्, तच्च श्रष्टौ, एकादश द्वादश वा प्रक्रमाः । ( प्रक्रमो द्वादशाङ्गुलः ) तदन्तरालं क्रमेण चतुः पञ्च षढस्तात्मकम्, तन्मितां रज्जुमादाय, तां च षड्धा सप्तधा वा कृत्वा, उभयत्रापि आगन्तुसमम् = श्रागन्तुना - वर्द्धितभागेन समं = सह यथा तथा, अर्थात् षड्धापक्षे षष्ठं भागं विवर्ध्य, सप्तधापक्षे सप्तमं भागं विवर्द्ध्वं वर्द्धितभागसहितां तां मध्यरज्जुं त्रेधा विभज्य = त्रिभागां कृत्वा, तत्र तृतीये तृतीये भागे चिहं कृत्वा अपरवितृतीयलक्षणेन = श्रपरे पश्चिमे भागे तृतीये यत् लक्षणं चिन्हं तद् धृत्वा, रज्जुप्रान्तपाशौ गार्हपत्याहवनीयमध्यस्थितशङ्कोर्निधायापरवितृतीयचिन्हं दक्षिणा = दक्षिणस्यां दिश्याकृष्य = तस्मिन्ननिः, श्रकृष्टतृतीयभागचिन्ह स्पृष्टे भूभागे दक्षिणाग्निः, दक्षिणाग्नर्मध्यशङ्करित्यर्थः ॥ २७ ॥
उत्करस्थानमाह
विपर्यस्योत्तरत उत्करः ।। २८ ।।
विपर्यासः पाशयोः, उत्तरत श्राकर्षः । तेनायमर्थः । विपर्यस्य = बोढ़ा सप्तधा वा विभक्तागन्तुभागसहितवर्द्धित त्रिभाग चिन्हितरज्जुपाशौ विपरीतौ कृत्वा पूर्वतृतीयभागचिन्हमुदगाकृष्य गहपत्याह
( १ ) प्रक्रमो द्वादशाङ्गुलः
ल:
" आधाने पदिकं कुर्यात्सोमे तु द्विपदो भवेत् ।
अग्नौ तु त्रिपदं कुर्यात् प्रक्रमं याज्ञिको बुधः ।” (श्लो० शु० ३४ )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #23
--------------------------------------------------------------------------
________________
१२ सवृत्ति-कात्यायन-शुल्बसूत्रे- [कं. २ वनीययोरन्तरालमितां रज्जु षडा सप्तधा वा कृत्वा तावन्तमपरं भागं संव_ त्रेधा विभज्य पाहवनीयसनिकृष्टतृतीयभागकृतचिन्हे. नोदगाकृष्य तच्चिह्नस्पृष्टभूभागे उत्करः कार्यः, उत्करमध्यं कार्य मित्यर्थः। परिसमूहिततृणधूलिपुञ्ज उत्करः, तत्स्थानं कार्यम् । तञ्च ज्यङ्गुलकर्काटकभ्रामणेन वृत्तमेकाङ्गुलगर्तवञ्च कार्यम् ॥२८॥ पक्षान्तरमाहअपि वाऽन्तरत्रिभागोनया रज्ज्वा पूर्वार्द्ध सम
चतुरस्रं कृत्वा श्रोण्यामग्निः ॥ २६ ॥ अपि वा = अथवा अन्तरे = गार्हपत्याहवनीययोर्मध्ये या रज्जुः, सा त्रिभागेन स्वतृतीयांशेन ऊना कार्या। तया च करण्या पाहवनीयमध्यात्प्रत्यक् समचतुरस्त्रं कर्त्तव्यम् । तस्य चतुरस्रस्य श्रोण्यां = दक्षिणश्रोण्यामग्निः = दक्षिणाग्निः कार्यः, तन्मध्यं कार्यमित्यर्थः।
अत्राष्टप्रक्रमाधानपक्षे प्रक्रमस्य च पादमात्रत्वकरणे दक्षिणाग्निखरस्य अर्द्धचन्द्राकृतेररनिमात्रस्य परिशिष्टोक्तस्य पूर्वाग्रं वेदिमध्ये पततीति गाहपत्यखरपूर्वभागादष्टसुपादेषु पाहवनीयखरपश्चिमभागः कर्तव्यः । एकादश-द्वादशपरिमितप्रक्रमपक्षे तु गार्हपत्याहवनी. ययोरन्तरमेव तावन्मातव्यम् ॥ २६ ॥
विपर्यस्योत्तराईस उत्करः ॥ ३०॥ विपर्यस्य = वैपरीत्येन चतुरस्त्रं कृत्वा तस्य चतुरस्रस्योत्तरांसे उत्करः कार्यः। विपर्यासवचनात्पश्चिमाद्धे गार्हपत्यमध्यात्पुरस्तादग्निद्वयान्तरालमितरज्वो स्वत्रिभागोनया करण्या चतुरस्रं कर्त्तव्यं, तदुत्तरांसे चोत्करः कार्यः ॥ ३०॥
इति प्रथमा कण्डिका ॥१॥
चातुर्मास्ययागे वरुणप्रघासाख्ये द्वितीयपर्वणि दक्षिणोत्तरे द्वे वेदी भवतः, तत्र दक्षिणा प्रतिस्थातुः, उत्तरा अध्वर्योः (का. श्री. ५।४।३२) । तत्र उत्तरवेदेः प्रमाणं "रथमान्युत्तरा" इति (का. श्री. सू. ५।३।११) रथात्मकमुक्तम् । रथमानं च तत्र नोक्तम् । अत आह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #24
--------------------------------------------------------------------------
________________
कं. २ ]
वेदिकथनम् ।
अङ्गुलै रथसम्मिताया: प्रमाणम् ॥ १ ॥ वरुणप्रधासपर्वणि रथसम्मिताया उत्तरवेदेः प्रमाणमङ्गुलैः कृत्वा वक्ष्याम इति सूत्रशेषः ॥ १ ॥
तत्रांष्टाशीतिशतमीषा ॥ २ ॥
रथे प्रागपरायतः काष्ठविशेष ईषा । अत्र ईषाशब्देन वेदेः पूर्वापरायामो लक्ष्यते । तेन वरुणप्रधासपर्वणि उत्तरवेदेः पूर्वपश्चिमायामः श्रष्टाशीत्यधिकशताङ्गुलपरिमितो भवतीति सूत्रार्थः । चतुरङ्गुलन्यूनाष्टहस्तमिति यावत् ॥ २ ॥
चतुःशतमः ॥ ३॥
रथस्य पश्चाद्भागे तिर्यग्गतं काष्ठमक्षशब्देनोच्यते । श्रत्र श्रक्षशब्देन वेदेः श्रोणिप्रदेशो लक्ष्यते । अतश्च वरुणप्रधासीयोत्तरवेदेः पश्चाद्गागः चतुरङ्गुलाधिकशताङ्गुलमितो भवतीति सूत्रार्थः । श्रष्टाङ्गुलाधिकं हस्तचतुष्टयमित्यर्थः ॥ ३ ॥ षडशीतिर्युगम् ॥ ४ ॥
१३
वृषस्कन्धोपरि दीयमानं काष्ठं युगशब्देनोच्यते । श्रत्र युगशब्देन वेद्याः पूर्वभागो लक्ष्यते । तेन वारुणप्रघासिक्या उत्तरवेदेः पूर्वभागः षडशीत्यङ्गुलो भवति, दशाङ्गुलोनाश्चत्वारो हस्ता इत्यर्थः । एवं प्रकारेण रथमात्री वेदिः साधनीया । पक्षान्तराण्यपि कातीयश्रौतसूत्रोक्तानि (अ. ५ कं. ३ सू. २६ ) बोध्यानि ॥ ४ ॥
वरुणप्रघासे श्राहवनीयस्थानापन्ना उत्तरवेदिः “शम्यामात्रीम् " ( का.श्रौ. सू. श्र. ५ कं. ३ सू. २६ ) इति शम्यामात्री उक्ता । शम्या प्रमाणं च तत्र नोक्तं, तदत्राह
2
चत्वारोऽष्टकाः शम्या ॥ ५ ॥
AU
चतुर्गुणिता अष्टसङ्ख्या द्वात्रिंशद्धति । तेन द्वात्रिंशदङ्गुला (अष्टाङ्गुलाधिक हस्तमिता ) शम्या भवतीति सूत्रार्थः । शम्याशब्देन युगप्रवेश्यं काष्ठं रथाङ्गमुच्यते । इह वेदिमानकृत्काष्ठं लक्ष्यते ॥५॥
पितृमेधे 'दिक्स्रक्तिं (१) पुरुषमात्रं मिमीते" इत्युक्तम् (का.श्रौ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
( १ ) दिक्षु वक्तयः कोणा यस्य तत् दिक्स्रक्ति, दिक्कोणं चतुरस्रमित्यर्थः ।
www.umaragyanbhandar.com
Page #25
--------------------------------------------------------------------------
________________
१४
सवृत्ति कात्यायन शुल्बसूत्रे -
[ कं. २
सू. २१।२।८ ) । अत्र ग्रन्थे विदिक्क्तेः समचतुरस्रस्य प्रकार उक्तः (१।१६) । इदानीं दिक्त्रक्तिताकरणार्थमिदमाह - पैतृक्यां द्विपुरुषं चतुरस्रं कृत्वा करणीमध्येषु शङ्कवः स समाधिः ॥ ६ ॥
पैतृक्यां= पितृमेधवेदौ विंशतिशताङ्गलकपुरुष मितसमचतुरस्रस्य क्षेत्रस्य प्रणयारज्वा द्विपुरुषक्षेत्रफलकं समचतुरस्रं तिलन्यूनसप्ततिशताङ्गुलमितं कृत्वा तस्य पार्श्वमानीद्वय तिर्यङ्मानीद्वयरूपाणां दिचतुष्टयगतानां चतसृणां करणीनां मध्येषु शङ्कचतुष्टयं दद्यात्, सूत्रचतुष्टयं च पातयेत् तद्दिग्गतकोणकं पुरुषमात्रं सम चतुरसं भवति, स समाधिः = क्षेत्रमापनमित्यर्थः । कथं दिक्स्रक्तिता स्यादित्याक्षेपे ह्येवं समाधानं भवतीत्यर्थः ।
"
विंशतिशताङ्गुलः पुरुषः । पुरुषक्षेत्रफलकं चतुरस्रं १४४०० अङ्गुलमिताभिः करणीभिर्निष्पद्यते । तस्य चतुरस्य द्वे रेखे पार्श्व मानीशब्दाभिधेये, द्वे च तिर्यङ्मानीशब्दाभिधेये । मध्ये एका तिर्यग्दत्ता रज्जुः श्रक्ष्णया ( क ) शब्दाभिधेया । तत्प्रमाणया अक्ष्णया रज्वा यच्चतुरस्रमुत्पद्यते तद् द्विपुरुषक्षेत्रफलकं भवति । तच्च चतुरखं दिक्कोणकं सम्पाद्यमिति ॥ ६ ॥
अत्र ग्रन्थे व्यवहारार्थं पञ्च रजुसंज्ञा श्राह - करणी, तत्करणी, तिर्यङ्मानी, पार्श्वमान्यदण्या चेति
पश्च रज्जवः ॥ ७॥
करणी, तत्करणी, तिर्यङ्गमामी, पार्श्वमानी, श्रदणया, एताः पञ्च रज्जूनां संज्ञाः । क्रियते क्षेत्रं निष्पाद्यते श्रनया सा करणी, प्राचीसूत्ररूपा मध्यरज्जुः, समचतुरस्रे प्राचीमध्यरेखामिता रज्जुः प्रमाणरज्जुः करणी नाम । तदिति क्षेत्र द्वैगुण्यत्रैगुण्यादि सामान्येनोच्यते । तेन तत् क्षेत्रद्वैगुण्यादि क्रियतेऽनया सा तत्करणी, द्विकरणी, त्रिकरणी चतुष्करणी इत्यादि । ततश्च द्वे क्षेत्रे समस्य एकत्र करोति साद्विकरणी । एवं त्रिकरणी चतुष्करण्यादयः । तिर्यक एयं सस्वरूपं मीयतेऽनया सा तिर्यङमानी । प्राध्यन्तयोस्तिर्यग्वर्तमानं रज्जुद्वयमक्षिवत् क्षेत्रं नयति इत्यचणया कर्णसूत्रं तिर्यग्दत्ता मध्यरज्जुः । तस्यां दत्तायां चतुरस्त्रमक्षिद्वयसदृशं भवति ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #26
--------------------------------------------------------------------------
________________
१५
वेदिकथनम् ।
कं. २]
सोमयागे - " यजमानंदशपद्यां वा" ( ५/३ ) इत्यनेन दशपदा उत्तरवेदिर्भवतीत्युक्तम् । श्रत्र तस्या वेदेः करणीमाह - पदं तिर्यङ्मानी, त्रिपदा पार्श्वमानी, तस्थादयारज्जुर्दशकरणी ॥ ८ ॥
=
यस्य क्षेत्रस्य तिर्यङमानी दक्षिणोत्तरायता रज्जुः पदम् = एकपदपरिमिता श्रर्थाद् द्वादशाङ्गुलप्रमाणा भवति, पार्श्वमानी च त्रिपदा = पदत्रयपरिमिता सार्द्धहस्तायता भवति, तस्यादणयारज्जुः दशकरणी = दशपदक्षेत्रफलकस्य चतुरस्रस्य करणी = निष्पादिका किञ्चिदधिकषट्त्रिंशदङ्गुलरूपा भवति, तस्यादण्यारज्वा दशपदफलकं क्षेत्रं निष्पाद्यत इत्यर्थः ॥ ८ ॥
श्रग्नौ चत्वारिंशत्पदा उत्तरवेदिर्विहिता, तत्साधनमाहद्विपदा निर्यङमानी, षट्पदा पार्श्वमानी, तस्यादण्या रज्जुश्चत्वारिंशत्करणी ॥ ६ ॥
यस्मिन् क्षेत्रे तिर्यङ्मानी दक्षिणोत्तरा रज्जुर्द्विपदा, पार्श्वमानी = प्रागायतं सूत्रं च षट्पदा, तस्यादणयारज्जुः = कोणसूत्रं चत्वारिंशत्करणी = चत्वारिंशत्पद क्षेत्रफलकस्य चतुरस्रस्य साधिका सत्र्यंशपदषट्कमिता भवति, तया रज्वा निष्पादितं क्षेत्रं चत्वारिंशत्पदफलकं भवतीत्यर्थः ॥ ६ ॥
H
उत्तरवेदिः षडविधा - शम्यामात्री, वितृतीया, अपरिमिता, युगमात्री, दशपदा, चत्वारिंशत्पदा चेति । तत्रान्त्ये वेदी उक्त श - हा वितृतीया चोत्तरवेदिवेदेः क्षेत्रफलतृतीयांशेन भवति । अपरिमिता च " अपरितं प्रमाणाइ भूयः " (का० शु० १।२३ ) इत्यनेनावगता | शम्यामात्री युगमात्री चेत्यवशिष्टं (१) वेदिद्वयप्रमाणं " षडशीतियुगम्, चत्वारोऽष्टकाः शम्या" ( का०शु० २२४ - ५ ) इति सूत्राभ्यां रथमात्रवेदीप्रसङ्ग एवोक्तमित्याह
उपदिष्टं
शम्याप्रमाणं च
युगप्रमाण० दर्शनात् ॥ १० ॥
(१) सोमे चयने च युगमात्री उत्तरवेदिः श्रूयते, (५।३।३०) शम्यामात्री च वरुणघासे (५।३।२९) ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #27
--------------------------------------------------------------------------
________________
सवृत्ति - कात्यायन -शुल्बसूत्रे -
[ कं. २
युगप्रमाण- शम्याप्रमाणयोर्वेद्योः श्रुतौ दर्शनात् तत्प्रमाणं पूर्वमुपदिष्टम् ( २४ - ५ ) ॥ १० ॥
१६
क्षेत्रमापनार्थं किंचिदाह
दीर्घचतुरस्रस्यादणपा रज्जुस्तिर्यङ्मानी पार्श्वमानी च यत्पृथग्भूते कुरुतस्तदुभयं करोतीति क्षेत्रज्ञानम् ॥ ११ ॥
दीर्घचतुरस्रस्य क्षेत्रस्य या तिर्यङ्मानी, साऽन्यत्र करणीत्वेन पृथग्भूता सती यत्प्रमाणकं समचतुरस्रं करोति, तथा दीर्घ चतुरस्रस्य क्षेत्रस्य या पार्श्वमानी साऽन्यत्र करणीत्वेन पृथग्भूता सती यत्प्रमाणकं समचतुरस्रं करोति, तदुभयमपि मिलितं दीर्घचतुरस्त्रस्यादण्या रज्जुः करोति इति क्षेत्रज्ञानं = क्षेत्रमान प्रकारो ज्ञातव्यः (१) ॥ ११ ॥
अथ द्वैगुण्यादिक्षेत्र प्रकारमाहसमचतुरस्रस्यादण्या रज्जुर्द्विकरणी ॥ १२ ॥
समचतुरस्रस्य क्षेत्रस्य याऽक्ष्णया = कर्णसूत्रभूता रज्जुः, सा द्विकरणी = द्विगुणक्षेत्रस्य प्राचीसूत्रप्रमाणमित्यर्थः ( २ ) ॥ १२ ॥
(१) यथा - " पदं तिर्यङ्मानी, त्रिपदा पार्श्वमानी, तस्याक्ष्णया रज्जुदेशकरणीति दीर्घचतुरस्रमुक्तम् । तत्र पदप्रमाणा तिर्यङ्मानी पदक्षेत्रफलकं चतुरस्रं करोति, पार्श्वमानी तु त्रिपदा, सा च नवपदक्षेत्रफलकं चतुरस्रं करोति, एवमुभयं मिलित्वा दशपदक्षेत्रफलकं चतुरस्रं जातं तच्च दीर्घचतुरस्रस्य पदमात्रतिर्यङ्मानी - त्रिपदपार्श्वमानीभ्यां जातस्याक्ष्णयारज्जुरेव करोतीति ज्ञेयम्। तिर्यङ्मान्याः पार्श्वमान्याश्च वर्गों कृत्वा तावेकीकृत्य तस्य मूले समानीते दीर्घचतुरस्रस्य कर्णसूत्रमानमेव भवति" इति महीधरः ।
"
9
( २ ) - यथा - ' - "हस्तमात्रे समचतुरस्त्रे चतुर्विंशत्यङ्गुलमिता प्रमाणरज्जु :, ततश्चतुर्विंशत्या चतुर्विंशत्या गुणिता षट्सप्तत्यधिका पञ्चशती भवति सा द्विगुणिता द्वापञ्चाशदधिकैकादशशती, तस्था मूलं किंचिन्न्यून चतुखिंशदङ्गुलानि तान्येव द्विहस्तसमचतुरस्वरूप मानम्" इति महीधरः । त्रिहस्तादौ एकहस्तवर्ग त्रिगुणादि कृत्वा तत्तन्मूलानयनेन तत्तदायामप्रमाणं बोध्यम् । यथा - त्रिहस्ते ४१ अङ्गुलानि ५ वा इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #28
--------------------------------------------------------------------------
________________
कं. २]
चतुरस्रादिक्षेत्रकथनम् । द्विकरणीसाधने प्रकारान्तरमाहकरणीं तृतीयेन वर्धयेत्तच्च स्वचतुर्थेनात्मचतुस्त्रिठशोनेन
सविशेष इति विशेषः ॥ १३ ॥ करणी = क्षेत्रायामं तृतीयेन = स्वतृतीयांशेन वर्धयेत् , तदिति सामान्ये नपुंसकम् । तत् = तं तृतीयांशं स्वचतुर्थेन = स्वस्य तृतीयां शस्य यश्चतुर्थो भागः, तेन वर्धयेत् । किं भूतेन स्वचतुर्थेन, आत्मचतुस्त्रिंशोनेन = आत्मनः = चतुर्थांशस्य यश्चतुस्त्रिंशोभागः, तेन ऊनेन = हीनेन रहितेन, अर्थात् स्वचतुस्त्रिंशांशहीनचतुर्थभागेन तृतीयांशं वर्धयेत् । सविशेषो = भेदकः, करणी-द्विकरण्योरिति विशेषः । द्विक. रणीसाधकं प्रकारान्तरमित्यर्थः (१) ॥ १३ ॥
त्रिकरणीसाधनमाहप्रमाणं तियाग्दिकरण्यायामस्तस्याक्षणयारज्जुस्त्रिकरणी॥१४॥
त्रिगुणीकर्तुमिष्टस्य क्षेत्रस्य करणी प्रमाणशब्देनोच्यते । प्रमाणं = त्रिगुणीकर्तुमिष्टस्य क्षेत्रस्य करणीरूपं, तिर्यक् = तिर्यमानीत्वेन प्रसार्य, द्विकरणी = पूर्वोक्तं द्विकरणीमानम् एकहस्तस्यादणयारूपम्
(१)अत्र रामवाजपेयिनः। "यथा-द्वादशाङ्गलकरणीकं समचतुरस्रं द्विगुणीकर्तुमिष्यते, तस्य करणी तृतीयांशेन वर्द्धितषोडशाङ्गला भवति । स च तृतीयोऽशचतुरङ्गलात्मकः स्वकोयतुरीयांशेनाङ्गलेन स्वचतुस्त्रिंशभागेन वर्द्धनीयः। अत्राङ्गलस्य उदरदेशमिताश्चतुस्त्रिंशत्तिला अवयवाः कथ्यन्ते। तत्र तिलोनसप्तदशाङ्गुला द्विकरणी भवति । या पूर्व समचतुरस्रस्याक्ष्णया द्विकरणी उक्ता, सा कियती भवतीति स्वरूपज्ञापनार्थमिदं सूत्रम्" इति।
महीधरः । “यथा-हम्तमितसमचतुरस्रस्य करणी चतुर्विशत्यङ्गलरूपा। मा च द्विगुणीक्रियते यदा, तदा तां तृतीयांशेन वर्धयेत् । चतुर्विशतेस्तृतीयांशोऽष्टावङ्गलानि, एवं द्वात्रिंशदङ्गलानि जातानि । स तृतीयांशोऽष्टाङ्गुलात्मकः स्वचतुर्थेनाङ्गलद्वयेन पुनर्वद्धितः, तदा चतुस्त्रिंशदङ्गलानि । स्वचतुर्थेन कोद्रशेन-आत्मचतुस्त्रिंशोनेन । एवमगुलद्वयस्य चतुस्त्रिंशो भागो यूकात्रयं लिक्षाषट्कं किंचिदूनं बालागं च, तावता होनेनाङगुलद्वयेन तृतीयो भागो वर्द्धितः। एवं च द्विहस्त करण्येतावती सम्पन्ना-त्रयस्त्रिंशदङ्गुलानि, सप्त यवाः, चतस्नो यूकाः, द्वेलिले, किंचिन्न्यून बालाग्रमिति । किं बहुना-तिलद्वयोनानि चतुस्विंशदङ्गलानि द्विहस्तकरणीत्यर्थ" इति।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #29
--------------------------------------------------------------------------
________________
१८
सवृत्ति-कात्यायन-शुल्बसूत्रे- [कं. २ अायामः = पार्श्वमानीत्वेन प्रसार्य; एवं क्षेत्रे त्रिकोणे कृते तस्य क्षेत्रस्यादणयारज्जुः त्रिकरणी स्यात्, हस्तमात्राणि त्रीणि चतुरस्राणि सक्षिपतीत्यर्थः (१)॥१४॥ त्रिकरणीकथनस्य प्रयोजनमाह
तृतीयकरण्येतेन व्याख्याता ॥१।।
एतेन त्रिकरणीकथनेन तृतीयकरणी अपि व्याख्याता। "प्रक्रमतृतीयेनावृत्तेन” ( १६।२।२) इति सौत्रामण्यामुक्तम् । तत्र प्रक्रमस्य तृतीयो भागः प्रक्रमतृतीयं न भवति, किन्तु या करणी प्रक्रमक्षेत्रतृतीयांशं समचतुरस्रं करोति, सा प्रक्रमतृतीयशब्देनोच्यते, सैव तृतीया करणी। "वितृतीये यजेत" वितृतीयं वै सौत्रामणी" इति श्रूयते। तत्र तया तृतीयकरण्या प्रक्रमत्वेन कल्पितया या वेदिर्मीयते सा सोमवेदेस्तृतीयांशरूपा स्यात् (२) ॥१५॥
एवं त्रिकरणोकथनेन कथं तृतीयकरणी व्याख्यातेति स्पष्टयितुं सूत्रत्रयेणाह
प्रमाणविभागस्तु नवधा ॥ १६ ॥ प्रमाणस्य = प्रक्रमरूपस्य विभागो नवधा विधेयः। "द्वादशागुलं पदम्" "द्विपदः प्रक्रमः” (श्लो. शु. ३४)। प्रक्रममितया रज्ज्वा क्षेत्रं चतुरस्रीकृत्य, तस्य तिर्यङ्मान्यौ पार्श्वमान्यौ च त्रेधा विभज्य, पूर्वापरायतं दक्षिणोत्तरायतं च सूत्रद्वयं दद्यात् । एवं नवधा विभागो भवति । एकैको भागः पदपदक्षेत्रकलकः स्यात् ॥ १६ ॥
करणीतृतीयं नवभागः ॥१७॥ (७)महीधरः “यथा-हस्तमिता तिर्यमानी, किंचिदुनचतुर्विंशदगुलामता, पार्श्वमानी, तयोरग्रं प्रापिता कर्णरज्जुस्त्रिकरणी त्रिहस्तक्षेत्रस्य करणी साधिका। तया साधितं समचतुरस्त्रं त्रिहस्तं भवतीत्यर्थः।"
(२) अत्र प्रक्रमशब्देन प्रक्रमपरिमितस्थलमापिका रजुरभिधीयते, न तु प्रक्रमः । तदुक्ती प्रक्रमस्य विभागकरणमेव प्रामुयात् । स च दैर्घ्य विस्तारे चोभयत्र कर्तव्यो भवतीति नवमांशे पर्यवस्यति । तत्र च यागानुष्ठानं प्रामयात् । तत्त नेष्टम् । अतः प्रक्रममितं यत्क्षेत्रं, तस्य यस्तृतीयोऽशस्तन्मापिका या रजुस्तया
मानं कृत्वोत्तरवेदिनिष्पादनीयेति । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #30
--------------------------------------------------------------------------
________________
१९
कं. २]
चतुरस्रादिक्षेत्रकथनम् । करण्याः = प्रक्रमरूपायास्तृतीयं = तृतीयो भागः पदम्पः करणीभूय चतुरस्त्रं कुर्वन् नवभागो भवति । नवमं भागं पदं सङ्: क्षिपतीत्यर्थः ॥१७॥
नव भागास्त्रयस्तृनीयकरणी ॥१८॥ प्रक्रमरूपकरणीत्रयस्य समचतुरस्रस्य ये त्रयो नव भागाः सा तृतीयकरणी । सा चेत्थं कार्या। पदमितया करण्या समचतुरस्त्रं कृत्वा तत्कर्णसूत्रं पददिकरणोरूपं पार्श्वमानी कृत्वा पदमितकरणोमेव च तिर्यमानीं विधाय ताभ्यां दीर्घचतुरस्र कृते तत्कर्णरज्जुस्तृतीयकरणो। सा च करणीभूय समचतुरस्रं कुर्यात् , तत्र त्रयो नव भागाः सक्षिप्यन्ते ॥१८॥
एवं “तृतीयकरण्येतेन व्याख्याना" (२०१५) इति प्रतिज्ञातं सूत्रत्रयेण निरूप्य तृतीयकरण्याः प्रयोजनं सूत्रद्वयेनाह
सौत्रामण्यां प्रक्रमार्था ॥१६॥ सौत्रामणीयागे प्रक्रमकथनाय तृतीयकरणी उक्ता । सौत्रामण्यां तृतीयकरणोरूपप्रक्रमेण सोमवद्वेदिर्मिता सतो सौमित्या वेदेस्तृती. यांशरूपा स्यात् ॥१६॥
त्रिकरणी, समासा ॥२०॥ त्रिकरणी - तृतीयकरणी येयं पूर्वमुक्ता सा समासा = त्रया. णां प्रक्रमनवभागानां सङ्क्षपार्था । तया विना नवभागत्रयस्य संक्षे'तुमशक्यत्वात् । अतः प्रक्रमनवभागत्रयमेव सौत्रामणीप्रक्रम इत्यर्थः ॥२०॥
उक्तं चतुरस्रसमासं निगमयतितुल्यप्रमाणाना समचतुरस्त्राणामुक्तः समासः ॥२१॥
तुल्यं प्रमाणं येषां तानि तुल्यप्रमाणामि हस्तादिरूपाणि । तादृशानां समचतुरस्त्राणां समासः - संक्षेप एकीकरणप्रकार उक्तः॥२१॥
एवं तुल्यप्रमाणानां समचतुरस्त्राणां समासमुकवाऽतुल्य. प्रमाणानां समचतुरस्राणां समासमाहShree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #31
--------------------------------------------------------------------------
________________
२० सवृत्ति-कात्यायन-शुल्बसूत्रे
[कं. ३ नानाप्रमाणसमासे हसीयसः करण्या वर्षीयसोऽ. पच्छिन्द्यात्तस्याक्षणयारज्जुरुभे समस्यतीति
समासः ॥२२॥ नानाप्रमाणानां = भिन्नप्रमाणानां समचतुरस्राणां समासे = संक्षेपे कार्ये हसीयसो ह्रस्वतरस्य समचतुरस्रस्य (अष्टाङ्गु लादेः) करण्या वर्षीयसो वृद्धतरस्य (द्वादशाङ्गुलादेः ) करणी पार्श्वमानी तिर्यमानी वाऽपच्छिन्द्यात् = ह्रस्वकरणीमानेन दीर्घकरणी कोणतो मित्वा विदारयित्वाऽवशिष्टं चतुरङ्गुलादिभागं जह्यात् । तस्य ह्रस्वकरणीमानेन छिन्नस्य दीर्घक्षेत्रस्य अदणयारज्जुः करणी. भूय अन्यच्चतुरस्रं कुर्वती उभे = वृद्धहस्वतरे क्षेत्रे समस्यति संक्षिपति इति समासः= अतुल्यप्रमाणसमचतुरस्त्रसंक्षेपप्रकारः (१) ॥२२॥
इति कात्यायनशुल्बसूत्रवृत्तौ चतुरस्रादिक्षेत्रनिरूपणी द्वितीया कण्डिका ॥२॥
एवं ह्रस्वमहतोः क्षेत्रयोः समासं निरूप्य महत्क्षेत्रात ह्रस्वक्षेत्रस्य पृथक्करणं कथं विधातव्यमित्याहचतुरस्राच्चतुरस्रं निर्जिहीर्षन् यावनिर्जिहीर्षे त्तावदुभयतो ऽपच्छिद्य शङकू निखाय पार्श्वमानी कृत्वा पार्श्वमानी सम्मितामक्षणयां तत्रोपसहरति समासे
ऽपच्छेदः सा करण्येष निर्हासः ॥१॥ तत्र बृहत्प्रमाणकसमचतुरस्रस्य एकपार्श्वगतकोणाभ्यां संमुखभुजयोरल्पचतुरस्त्रभुजतुल्ये रेखे अपच्छिद्य तच्छेदनबिन्दुद्वये शङ्क निखाय, शङ्कमूलयोवृहत्समचतुरस्त्रभुजतुल्यसूत्रं बद्ध्वा बृहच्चतुरस्त्रभुजतुल्यदैर्घ्यम् अल्पसमचतुरस्रभुजविस्तारं दीर्घचतुरस्रमुत्पादयेत् । तत्र एककोणाद् बृहत्समचतुरस्रभुजतुल्यां रेखां तथा
(१) महीधरः-यथा-द्वादशाङ्गलकरणीकमेकं चतुरस्रं, तत्राष्टाङ्गुलकरणीकं समसितव्यं, तत्र द्वादशाङ्गलारण्यां कोणादारभ्याष्टाङ्गलेषु चिन्हं कुर्यात् । चतु. रङ्गलानि यक्त्वा चिन्हादारभ्याभिमुखकोणान्तं कर्णसूत्रं दत्वा तन्मितकरण्या यच्चतुरस्रान्तरं क्रियते, तत्र हस्वमहतोः क्षेत्रयोः समासः स्यात् । एवमन्ययोरपि हस्वमहतोः क्षेत्रयो:समासप्रकारो बोध्यः । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #32
--------------------------------------------------------------------------
________________
कं. ३ ]
क्षेत्रसमासकथनम् ।
स्थापयेत् यथा तदग्रं संमुखपार्श्वमान्यां लगति । ततस्तद्योगबिन्दोः कोणदिग्गतभुजपर्यन्तं पार्श्वमानीखण्डं यत्, तत्र यत्समचतुरस्रं तदेवाभीष्टम्, अर्थात् बृहत्प्रमाणाल्पप्रमाणसमचतुरस्रयोरन्तररूपम् (१) ।
यथा
क. ग. च. बृहत्प्रमाणकसमचतुरस्रात् इ. उ. व. र. अल्पप्रमाणकसमचतुरस्रमपनेतव्यम्, तदा अ. क. कोणाभ्याम् अ. प. क. म.रेखे अल्पप्रमाण कसमचतुरस्रभुजतुल्ये छित्वा प.म. छेदनबिन्दुद्वये शङ्क निखाय प. म. शङ्कुमूलगता रेखा कार्या । एवं सति श्र.क. म. प. दीर्घचतुरस्रं निष्पद्यते । यत्र अ क प म रेखे दीर्घचतुरस्रभुज - तुल्ये, श्र. प., क. म. रेखे च अल्पचतुरस्रभुजतुल्ये श्रसाते ततः अ. के भुजतुल्यां रेखां क. कोण बिन्दोस्तथा स्थापनीया, यथा तदग्रं प. म. रेखायां ल. बिन्दौ भवेत् । एवं सति ल. म. रेखानिमित्तं समचतुरस्रंयत्, तदेव बृहच्चतुरस्राल्पचतुरस्रयोरन्तररूपं भवितुमर्हति ॥ १ ॥
-
ल
क
म
उ
२१
व
(१) "चतुरस्रात् = महतः समचतुरस्रात् चतुरस्रं = ह्रस्वं समचतुरस्रं निर्जिहीर्षन् = निर्हर्तुमिच्छन् पृथक्कर्तुमिच्छन् यावत् = यत्प्रमाणं समचतुरस्रं निर्जिहीर्खेत = पृथक्कर्तुमिच्छेत्, तावत् = तत्प्रमाणां करणीमुभयतो महच्चतुरस्र गर्श्वमाम्योरपच्छिद्य = श्रोणित भारभ्याङ्कयित्त्वा चिन्हद्वये शङ्क निखाय पार्श्वमानीं कृत्वा शङ्कद्वयप्रसारितां महचतुरस्रकरणीभूतां रज्जुं पार्श्वमानीश्वेन परिकरूप्य पाश्वमानीसंमितां तामेत्र रज्जुमक्ष्गयां = कर्णपूत्रं तत्र = अधस्तिर्यङ्मान्यामुपसंहरति = एकतरशङ्कौ रज्जुपाशं निक्षिप्य तां रज्जुं तिर्यङ्गान्यामधः कर्णसूत्रत्वेन प्रसारयति स समासेऽपच्छेदः = समासे क्षेत्रद्वयस्यैक्ये कृते सति अपच्छेदस्त्याज्योंSशः, तस्यां रज्जौ तिर्यङ्मानीस्पृष्टायां त्रिकोणे जाते त्रिकोणबहिर्भूतो यो महाचतु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #33
--------------------------------------------------------------------------
________________
सवृत्ति - कात्यायन-शुल्बसूत्रे -
दीर्घचतुरस्रस्य समचतुरस्त्रीकरणोपायमाह - दीर्घ चतुरस्र० समचतुरस्र चिकीर्षन्मध्ये तिर्यगपच्छिद्यान्यतरद्विभज्येतरत्पुरस्ताद्दक्षिणतश्चोपदध्या च्छेषमागन्तुना पूरयेत्तस्योक्तो निर्ह्रासः || २ ||
श्रत्र श्रयामार्द्ध विस्तारं चतुरस्रं दीर्घचतुरस्रपदेन व्यवहियते । दीर्घचतुरस्रं - विस्तारद्विगुणायामं चतुरस्रं समचतुरस्र कर्तुमिच्छन् मध्ये तिर्यग्ररज्जुं प्रसार्यापच्छिद्य = विभज्य श्रायामस्य तुल्यं भागद्वयं कृत्वा (तद्भागचिह्नात् तिर्यङ्मानीसूत्र प्रसारणेन द्वे समचतुरस्त्रे कृत्वा) अन्यतरद् विभज्य = तत्र एकतरस्य समचतुरस्रस्य पुनस्तथैव भागद्वयकरणेन द्वे दीर्घचतुरस्रे विधाय, इतरत् = भागद्वयं पुरस्ताद्दक्षिणतश्चोपदध्यात् = एकं भागं दीर्घचतुरस्ररूपं पूर्वत्र श्रविभक्तसमचतुरस्त्रे तिर्यगायामं कृत्वा योजयेत्, अन्यं भागं दक्षिणस्यां प्रागा· यामं कृत्वा योजयेत् शेषम् समचतुरस्त्रे क्रियमाणे न्यूनमाग्नेय कोण गतमष्टमांशमागन्तुना = अध्याहृतेनाष्टमांशेन पूरयेत् ।
२२
"
=
[ कं. ३
नन्वेवं समचतुरस्रमधिकं जातम्, अष्टमांशस्याध्याहृतत्वात्, श्रत श्राह तस्योक्तो निर्ह्रासः - तस्यागन्तोरंशस्य निर्ह्रासः = त्यागः कार्यः, स च त्यागप्रकार उक्तः "चतुरस्राच्चतुरस्त्रं निर्जिहीर्षन्” इति सूत्रे ( ३९ ) ।
1
यथा— श्र. इ. उ. क. दीर्घसमचतुरस्रमास्ते । श्र. इ. दैर्ध्य - रेखायाः ख. बिन्दौ भागद्वयकरणेन, ततश्च ख. ङ. रेखाकरणेन च - क. ख., ङ. ई, इति समचतुरस्रद्वयं जातम् । तत्र ङ. ई. समचतुरस्त्रस्य ग. बिन्दौ तथैव भागद्वयकरणेन ङ. ग. घ. इ. इति दीर्घचतुरस्रद्वयं जायते । ततः घ. इ. दीर्घचतुरस्रं श्र. छ. रूपेण निवेशितं यथा श्र. च. रेखा अ. क. रेखा एकैव भवेत् । एवं सति ख. छ. ख. ङ, रेखाऽपि एकैव स्यात् । ततः च. छ., ग. घ. रेखयोः ख. मार्गे वर्द्धनेन क. च. प. घ. समचतुरस्रं जातम् । यत्र
"
रस्स्रतिर्यङ्मानीभागः सोऽपच्छेदः = त्यक्तभ्यः, सा करणी = त्रिकोणान्तःपाती तिर्ययानीभागः करणी, तया करण्या कृतमन्यच्चतुरस्रं ह्रस्वक्षेत्रे महतः पृथक्कृते शेणंक्षेत्रं भवति । एष निर्ह्रासः = महत्क्षेत्राद् हस्वस्य पृथक्करणोपायः" इति महीधर
व्याख्या ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #34
--------------------------------------------------------------------------
________________
कं. ३ ]
चतुरस्रादिक्षेत्रकथनम् ।
ख. प. लघुसमचतुरस्रमधिकमिति तु स्पष्टम् । ततः ख. प. बृहत्समचतुरस्रात् ख. प. समचतुरस्रस्य निर्ह्रासेन ( १ ) यत्समचतुरस्रं तत् अभीष्टदीर्घसमचतुरस्रमिति ॥ २ ॥
श्र
ख
२३
एवं
विस्तारद्विगुणायामदीर्घचतुरस्त्रस्य समचतुरस्रकरण प्रकारमुक्त्वा इदानीं विस्तारद्विगुणाधिकायामदीर्घ चतुरस्रस्य समचतुरस्त्रसाधनोपायमाह
अतिदीर्घ चेतिर्यङ्मान्याऽपच्छिद्याऽपच्छिद्यैकसमासेन समस्य शेषं यथायोगमुपसर्ट ० हरेदि त्येकसमासः ॥ ३ ॥
श्रतिदीर्घं = विस्तारद्विगुणाधिकायामं दीर्घचतुरस्रं चेत् तदा तिर्ययान्या दक्षिणोत्तररजवा पार्श्वमानीसूत्रमपच्छिद्य अपच्छिद्य =
(१) निर्ह्रासप्रकारश्च ( २ ) - बृहत्समचतुरस्रात् लघुसमचतुरस्रं निहतुमिच्छन् बृहत्समचतुरस्र संमुखभुजयोः लघुसमचतुरस्रभुजतुल्ये रेखे छित्वा तच्छेदनबिन्दुद्वयगत पार्श्व मानीरूपप्रसारणेन बृहत्समचतुरस्रभुजतुल्प्रपार्श्वमानीकं लघुसमचतुरस्त्र भुजतुल्य तिर्यङ्मानीकं च दीर्घचतुरस्त्रं जायते । तत्र एककोणात् बृहत्समचतुरस्रभुज तुल्यसूत्रं तथाऽक्षणयारूपेण प्रसारयेत् यथा तदग्रं संमुखपार्श्वमानी संलग्नं भवेत् । एवं सति तत्संयोगबिन्दोः अभीष्टकोणगततिर्यङ् मानीपर्यन्तं यत् संमुखपार्श्वमानीखण्डं तद्रूपकरण्या निर्मितं समचतुरस्रं चिकीर्षितं समचतुस्त्रं भवितुमर्हति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #35
--------------------------------------------------------------------------
________________
सवृत्ति-कात्यायन-शुल्बसूत्रे- [कं. ३ पुनः पुनर्विभज्य विभज्य तत्तच्छेदनबिन्दुतः तिर्यमानीसूत्रप्रसारणेन समचतुरस्राणि कृत्वा तानि एकसमासेन (द्विकरणी-त्रिकरणी त्यादिविधानेन) समस्य = संयोज्य, अर्थात् तेषां योगतुल्यं समचतुरस्रं यथायोगं यया कयाऽपि युक्त्या उपसंहरेत् = समस्येत् एकी कुर्यात् इत्येकसमासः = एकसमचतुरस्त्रीकरणोपायः । यथा
अ. इ. उ. क. दीर्घचतुरस्रं यस्य समचतुरस्त्रकरणमभीष्टम् , तदा अ. क. तिर्यमानीतुल्यानि अ. क, ग. च, च. प, खण्डानि कृत्वा तत्तद्विन्दुतः ग. ल, च.व, प. र, तिर्यमानीरेखा करणेन क. ग, ल. च, व. प, इति त्रीणि समचतुरस्राणि जातानि । शिष्टं च र.इ. दीर्घचतुरस्त्रं भवेत् । ततः उक्तसमचतुरस्राणां योगतुल्यं समचतुरस्त्रं त्रिकरणी विधानरोत्या (१) त. थ. द. ध. तुल्यं विधाय, शिष्टस्य च र. इ. मितस्य दीर्घ चतुरस्रस्य तुल्यं समचतुरस्रं दीर्घचतुरस्रमिति पूर्वसूत्रोक्तप्रकारेण ट. ठ. ड. ढ. तुल्यं कृत्वा ततोऽनयोर्विहितसमचतुरस्रयोर्योगतुल्यं समचतुरस्रं "नानाप्रमाणसमासे” ( २२२ ) इत्यादिशास्त्रेण (२) ए. ऐ. ओ. औ. तुल्यं निष्पादयेत् । एवम् इदमेव समचतुरस्रमतिदीर्घचतुरस्त्रतुल्यं निष्पन्नम् ॥ ३॥
च
(१) अत्र त्रिकरणोविधानमाह-समचतुरस्रस्य अक्ष्यगरज्जुर्दिकरणी भवति, अर्थात् तादृशकरण्या विहितं समचतुरस्त्रमभीष्टसमचतुरस्राद् द्विगुणं भवति। अत्र अभीष्ट समचतुरस्रप्रमाणतुल्या तिर्यमानी,. द्विकरणी पाश्चमानी, तत्र अश्णया रज्जुस्त्रिकरणी भवति ।
(२) अत्र भिनप्रमाणयोः समचतुरस्त्रयोः समासप्रकारमाह-यत्र अल्प प्रमाणं तिर्यङ्नानं, बृहत्प्रमाणं पार्श्वमानं, तत्र अक्षणयारण्जुः करणी। अनया
काण्या यत्समचतुरस्रं, तत् तपोनिप्रमाणसमचतुरस्र पोर्योगतुल्यं भवितुमर्हति । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #36
--------------------------------------------------------------------------
________________
कं. ३ ]
མ
चतुरस्रादिक्षेत्र कथनम
थ
ऐ
to
६२५
श्र
श्रो
इदानीं समचतुरस्रस्य विषमचतुरस्रस्य च दीर्घचतुरस्रकरणप्रकारमहि—
समचतुरस्रं दीर्घचतुरस्रं चिकीर्षन्मध्येऽक्ष्णयाऽपच्छि विभज्येतरत्पुरस्तादुत्तरतश्चोपदध्याद्, विषमं
चेद्यथायोगमुपसर्ट • हरेदिति व्यासः || ४ ||
समचतुरस्रं दीर्घचतुरस्रं = विस्तारद्विगुणायामं कर्त्तुमिच्छन् मध्ये अपच्छिद्य = अर्थात् कर्णरूपया श्रदणयया विभज्य, अग्निकोणाद् वायव्यकोणान्तं सूत्र प्रसारणेन भागद्वयं कृत्वा, अपच्छिन्नमंशं पुनर्विभज्य = नैर्ऋतकोणाददण्याद्धं यावद् भागद्वयं कृत्वा त्रिकोणद्वयं समु. त्पादनीयम्, तत्र इतरत् - एकं त्रिकोणं पुरस्तात् = पूर्वस्यां योजयेत्, अपरं च उत्तरस्यां योजयेत्, तथा सति दिक्कोणं विस्तारद्विगुणायामं दोर्घचतुरस्रं स्यात् । क्षेत्रज्ञानमात्रमेवास्य प्रयोजनम् ।
=
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #37
--------------------------------------------------------------------------
________________
२६
सवृत्ति-कात्यायन-शुल्बसूत्रे
[ कं. ३ यथा-अ.इ.उ.क. समचतुरस्रस्य दीर्घचतुरस्रकरणमभीष्टम्, तदा इ. क. प्रदणयया इ. क. अ, इ. क. उ, इति विभागद्वयं कृत्वा तत्र इ. क. उ, त्रिभुजे ख अदणयादलबिन्दोः उ कोणपर्यन्तं ख. उ. सूत्रप्रमाणेन इ ख. उ, उ. ख. क, इति त्रिभुजद्वयं जातम् । तत्र इ. ख. उ, त्रिभुजं इ. ग. उ, रूपेण तथा स्थापितं यथा इ. उ. अक्ष्णया इ. अ. रूपा स्यात्, ख. कोणश्च ग. बिन्दुगतो भवेत् । एवमेव उ. क. ख, त्रिभुजमपि अ.क. घ. रूपेण तथैव स्थापनीयम् । ततः इ. ग. घ. क. चतुर्भुजं दीर्घाख्यं जातम्। इ. ग. विस्तारस्य इ. ख. दैर्ध्यार्द्धसमत्वात् (१)।
विषमचतुर्भुजस्य दीर्घचतुरस्रकरणप्रकारमाह-विषमं चेदिति ।
विषमचतुर्भुजस्य दीर्घचतुरस्रं कर्तुमिच्छन् यथायोगं यथासंभवमुपसंहरेत् , कुर्यादित्यर्थः। अर्थात् विषमचतुरस्रस्य सम चतुरस्रत्वं विधाय ततः पूर्वोक्तविधिना दीर्घचतुरस्रत्वं कुर्यादित्येवमुपसंहारः (व्यासः समासः)।
यथाऽत्र कल्प्यताम्-अ. इ. उ. क. विषमचतुर्भुजमास्ते, यत्र अ. क. भुजात् इ. उ भुजो द्विगुणः, अ. ग. विस्तारमानं च अ. क. समम् , तदाऽत्र अ. ग, क. घ. तिर्यमानीसूत्रप्रसारणेन अ. क. घ.
(१) अन त्रिभुजस्थापने विधीयमाने अ ग; भ. घ. रेखाद्वयमपि एकैव रेखेति दीर्घतुचरत्रसमुत्पादने नान्यथात्वेन भ्रमितव्यम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #38
--------------------------------------------------------------------------
________________
कं. ३]
चतुरस्रादिक्षेत्रकथनम् ।
ग. एकं समचतुरस्रम, तथा अ. ग. इ, क. घ. उ. त्रिकोणद्वयं चेत्येवं त्रीणि क्षेत्राणि जायन्ते । तत्र श्र. ग. इ. त्रिकोणं क. उ रूपेण तथा निवेशितं यथा श्र. इ. रेखा क. उ. रूपेण तिष्ठति, कोणश्च त बिन्दुगतश्च भवेत् । एवं सति अ. ग. उ त चतुर्भुजमपि पूर्वोक्त विषमचतुर्भुजतुल्यमेवेति स्पष्टमेव । ततः क. त. रेखायाः ट. दलबिन्दुतः ट च तिर्यक्सुत्र प्रसारणेन क. घ. च. ट. ट. च. उ. त. इति चतुर्भुजद्वयं जातं, तत्र ट. च. उ. त. चतुर्भुजस्य श्र. प. फ. क. रूपेण निवेशनेन ट. च, प. फ, रेखयोः ब. बिन्दुं यावद्वर्धनेन यत् प. ब. च. ग. समचतुर्भुजं जातं, तत्र फ. ब. ट. क. समचतुरस्रम् उद्दिष्टसमचतुरस्रापेक्षयाऽधिकम् । तस्थ "चतुरस्राच्चतुरस्रम्" ( ३९ ) इति निर्ह्रासप्रकारेण निर्ह्रासे कृते यत् समचतुरस्रं, तत् उद्दिष्टविषमचतुर्भुजसममिति स्पष्टमेव । ततस्तस्य दीर्घचतुरस्रत्वकरणं पूर्वोक्तयुक्तया स्पष्टमेव । एवं सति विषमचतुरस्त्रस्य दीर्घ • समचतुरस्रत्वं निष्पन्नम् ॥ ४ ॥
श्र
ग
नियमविशेषमाह -
फ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
क
घ
व
त.
'T.
प्रमाणं चतुरस्रमादेशादन्यत् ॥५॥
प्रमाणे वक्तव्ये अनादेशे समचतुरस्रमेव प्रमाणं भवति, यथा धिष्ण्यानाम् । श्रादेशे तु श्रन्यत् प्रमाणं मण्डलादि भवति, यथागार्हपत्यादिखरेषु । सोमयागे मृदा निर्मिताः स्वल्पवेदिका श्रष्टा दशाङ्गुलसमचतुरस्राश्चतुरगुङ्लोच्चा श्रग्नीनामाश्रयभूता धिष्ण्या इत्युच्यन्ते ॥५॥
-
www.umaragyanbhandar.com
Page #39
--------------------------------------------------------------------------
________________
सवृत्ति - कात्यायन शुल्बसूत्रे - पूर्वमुक्तानां करणीनां क्षेत्रफलं वक्तुमुपक्रमतेद्विप्रमाणा चतुःकरणी, त्रिप्रमाणा नवकरणी, चतुः प्रमाणा षोडशकरणी ||६||
२८
[ कं. ३
द्वेप्रमाणे यस्याः सा द्विप्रमाणा करणी । तया द्विहस्तप्रमाणकरण्या कृतं समचतुरस्त्रं चतुःकरणी = चतुर्हस्तक्षेत्रफलकं स्यात् । एवं व्यरत्नकरण्या कृतं समचतुरस्रं नवार निक्षेत्रफलकं भवति । चतुररत्निकरण्या कृतं समचतुरस्रं षोडशार निक्षेत्रफलकं भवति । एतत् क्षेत्रप्रदर्शनम् ॥६॥
यदुक्तं तदेवानुक्तोदाहरणेऽपि बोधयितुं विशदयतियावत्प्रमाणा रज्जुर्भवति तावन्तस्तावन्तो वर्गा भवन्ति तान्समस्येत् ॥७॥
यावत् प्रमाणा रज्जुः समचतुरस्रीकरणार्थं करणी क्रियते तावन्तस्तावन्तो वर्गास्तत् क्षेत्रफलरूपाः स्युः । वर्गो नाम सदृशाङ्क गुणनम् । यथा पञ्च पञ्चगुणाः पञ्चविंशतिः पञ्चवर्गाः । तेन पञ्चगुणा करणी रज्जुः करणी कृता यत्समचतुरस्त्रं करोति तत्पञ्चविंशति क्षेत्रफलकं स्यात् । एवं षड्गुणया कृतं षट्त्रिंशत्क्षेत्रफल कमित्यादि ज्ञेयम् ॥७॥
वर्गस्य मूलाङ्कादधिकत्वेन दर्शनात् श्रर्घादिमानया रजवा कृतं समचतुरस्रमर्धादितोऽधिकप्रमाणं विज्ञाय प्रतिकारुणिकेन सूत्रकृता ये गणितं न विदुस्तान्प्रत्येतदुच्यते
अर्धप्रमाणेन पादप्रमाणं विधीयते ॥ ८ ॥
अर्धमानया रज्वा यत् क्षेत्रं समचतुरस्त्रीक्रियते तस्य श्रर्द्धमिता या रज्जुः, तया करण्या यावत्समचतुरस्रीक्रियते तावतः क्षेत्रस्य पादः = तुरीयो भागो भवति ॥ ८ ॥
तृतीयेन नवमोऽशः ॥ ६ ॥
एवं करणीतृतीयेन भागेन करण्या कृतं समचतुरस्रं तत्करणी चतुरस्रान्नवमोऽशो भवति त्र्यंशगुणात् त्र्यंशो हि नवमोऽशः ॥ ६ ॥
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #40
--------------------------------------------------------------------------
________________
२९
कं. ३]
चतुरस्रादिकथनम् ।
चतुर्थेन षोडशी कला ॥१०॥ करणीचतुर्थांशेन करण्या कृतं समचतुरस्रं षोडशांशक्षेत्रफलक भवति ॥१०॥
पादस्य नवमांशस्य षोडशांशादेश्च पृथुक्षेत्रादपकर्षः कथं कर्तव्य
स्तदाह
एष निहाँसस्तस्य पुरस्तादुक्तठ० शास्त्रम् ॥११॥
एष निहाँसः= अल्पक्षेत्रसाधनम् । तस्य निर्दासस्य क्षेत्रात् क्षेत्रान्तरानयनस्य शास्त्रं "चतुरस्राच्चतुरस्त्रं निर्जिहीर्षन्” (३३१) इत्यादि पूर्वमुक्तम् ॥११॥
यावत्प्रमाणारज्जुर्भवतीति विवृद्धींसो भवति ॥१२॥
"अर्द्धप्रमाणेन पादप्रमाणम्" ( ३८ ) इत्यादिना यः क्षेत्रस्य ह्रास उक्तः स कस्य, इत्यपेक्षायाम् "यावत्प्रमाणा रज्जुर्भवति तावन्तो वर्गा भवन्ति" ( ३१७) इति सूत्रेण या क्षेत्ररूपा वृद्धिरुक्ता, तस्या विवृधेरयं हासो भवति । यथा-करणोचतुर्थांशेन चतुरस्र कृते करण्या षोडशांशस्य समास इत्यादि ॥ १२॥
चतुरस्रस्य मण्डलकरणमाहचतुरस्र मण्डलं चिकीर्षन्मध्याद से निपात्य पार्श्वतः परिलिख्य तत्र यदतिरिक्तं भवति तस्य तृतीयेन
सह मण्डलं परिलिखेत्स समाधिः॥ १३ ॥
चतुरस्र क्षेत्र मण्डलं = वृत्तं कर्तुमिच्छन् मध्यात् = चतुर्भुज मध्यात् अंसे = चतुर्भुजकोणे सूत्रं निपात्य दत्वा = चतुरस्र करणसूत्रद्वये दत्ते सूत्रयोः संयोगस्थलं मध्यं स्यात् । ततो मध्यादारभ्य अंसान्तं पातिते अदणयार्द्धरूपे सूत्रे पार्वतः = पार्श्वमानेन करण्यधैन अङ्कयित्वा यदतिरिक्तम् = अङ्कनादधिको भागो भवति ( तं त्रेधा विभज्य ) तस्य शिष्टस्य तृतीयेनांशेन सह करण्यv संवद्ध्य तन्माShree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #41
--------------------------------------------------------------------------
________________
३०
सवृत्ति - कात्यायन शुल्बसूत्रे -
[ कं. ४
नेन मण्डलं परिलिखेत् स समाधिः = चतुरस्रस्य मण्डलकरणप्रकारः ( १ ) ॥ १३ ॥
मण्डलस्य चतुरस्त्रीकरणमाह
मण्डलं चतुरस्रं चिकीर्षन् विष्कम्भं पञ्चदश भागान् कृत्वा द्वावुद्धरेच्छेषः करणी ॥ १४ ॥
मण्डलं = वृत्तक्षेत्रं चतुर्भुजं चिकीर्षन् विष्कम्भं = वृत्तव्यासं पञ्चदश भागान् = अष्टादश भागान् कृत्वा द्वौ भागौ उद्धरेत् = त्यजेत्, शेषः = त्रयोदशभागरूपः करणी । तत्करणी कृतं समचतुरस्रं वृत्ततुल्य क्षेत्रफलं स्यात् ॥ १४॥
इति समासनिरूपणी, तृतीया कण्डिका ॥३॥
श्रग्निचितीनिरूपयति
द्रोणचिद्रथचक्रचित्कङ्कचित्प्रऽउगचिदुभयतः
प्रउगः, समुह्यपुरीष इत्यग्नयः ॥ १ ॥
हिता,
कात्यायन श्रौतसूत्रे षोडशेऽध्याये सुपर्णचितिश्चतुरस्रा वि द्रोणचिदादयश्चानुक्ता श्रत्रोच्यन्ते । द्रोणश्चनुरस्रः । तदाकारा चितिर्दोराचित् । रथचकं वृत्तम्, तदाकारा वृत्ता चिती रथचक्रचित् । कङ्को = वको गगन उड्डीयमानः । तदाकारा चितिः कङ्कचित् । प्रउगः = शकटाङ्गं शकटस्याग्रभागःध्यस्त्रि, तदाकारा चितिः प्रउगचित् । उभयतस्य त्राकारा मध्यस्थूला चितिरुभयतः उगचित् । अन्यत आनीय समूह्यः = समूहीकृतः पुञ्जीकृतः पुरीषो = मृत्तिका, तदिव चितिः स मुह्यपुरीष चिदित्युच्यते । एतेऽग्नयः = यत्राग्निः प्रणीयते तानीष्टकाचितिस्थानानि बोध्यानि ( २ ) । अत्रा
( १ ) यथा - पोडशाङ्गस्य चतुरस्रस्प मध्यादसान्तं कर्णसूत्रमेकादशाङ्गुलं भवति । तत्र पार्श्वमानाष्टाङ्गुलैश्विह्ने कृते शेषमङ्गुलत्रयम् । तत्तृतीयो भागो - ङ्गुलम् । तत्सहिताष्टाङ्गुलमानेन नवाङ्गुलरवा मध्याद् वृत्ते कृतेऽष्टादशाङ्गुलं वृत्तं भवति । तच्च षोडशाङ्गुलचतुरङ्गुरुतुल्य क्षेत्रफलकं भवतीति ।
(२) अग्निशब्देन इष्टकाभिः सम्पादितमभ्याधारभूतं स्थण्डिलमुच्यते चितिः, चयनम, अग्निचयनम् इत्यपि तस्यैव पर्यायाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #42
--------------------------------------------------------------------------
________________
३१
कं. ४ ]
चितिनिरूपणम् । नुक्ते शाखान्तरविहिते श्येनचित् अलजचिती अपि ऊो । श्येनाकारा चितिः श्येनचित् । अलजः पक्षी, तदाकारा चितिरलजचित् ॥१॥
एवमग्नीनुद्दिश्य क्रमेण तेषां क्षेत्रसमासं विवक्षुद्रोणचिदाकारसाधनमाह- . द्रोणे यावानग्निः सपक्षषुच्छ विशेषस्तावत्समचतुरस्त्रं
कृत्वा द्रोणदशमो विभागो वृन्तमित्येके ॥२॥ पत्तौ च पुच्छं च विशेषश्च पक्षपुच्छविशेषाः (१) । तैः सहितः सपक्षपुच्छविशेषः । द्रोणे द्रोणाकारे चतुरस्रेऽग्निक्षेत्रे कर्तव्ये पक्ष-पुच्छ-विशेषसहितो यावानग्निः = यावदग्निस्थानं सार्द्धसप्तपुरु. षात्मकं, तत्प्रमाणकं चतुरस्त्रं कृत्वा तावत् नानाप्रमाणसमासविधिना समस्य, समसितस्य समचतुरस्रस्य द्रोणस्य दशमांशो वृन्तं वृन्ताकारं दण्डाकारं स्वल्पचतुरस्त्रं योजनीयमित्येके प्राचार्या अभिप्रयन्ति । एकग्रहणाद्विकल्पः ॥२॥
वृन्तकरणप्रकारं तद्योजनविधि चाहतद्दशमेनापच्छिद्यापच्छियैकसमासेन समस्य निहत्य सर्वमग्निं तथाकृतिं कृत्वा पुरस्तात्पश्चाद्वोपदध्यात् ॥३॥
तत् = पूर्वोक्तं सार्धसप्तपुरुषात्मकं पक्षपुच्छविशेषयुतं समचतुरस्रमग्निक्षेत्रं समचतुरनं कृत्वा तस्य समचतुरस्रक्षेत्रभुजस्य दशमेन = दशमांशेन तिर्यडयानी पार्श्वमानी च दशधा अपच्छुिद्यापच्छिद्य = विभज्य शतांशीकृत्य तत्र तिर्यमान्योः पार्श्वमान्यो प्रथमविभागान्तयो रज्जुप्रसारणेन चतुरस्रक्षेत्रभुजप्रमाणपार्श्व मानीकं तहशमांशतिर्यमानीकं यदतिदीर्घक्षेत्रं दशमांशरूपं जायते
(१) चितिरिय सार्द्धसतपुरुषात्मिका, तत्र मध्ये द्विपुरुषायाम द्विपुरुषविस्तार चतुरस्त्रं स्थण्डिलं निर्माय तत्संलग्नमेव दक्षिणपश्चिमोत्तरेषु त्रिष्वपि एकैकपुरुषविस्तारं दक्षिणोत्तरपार्श्वयोः सारत्रिकैकैकपुरुषायाम, पश्चिमे च सवित. स्तिकपुरुषायाम स्थण्डिलत्रयं निर्मातव्यम् । स्थण्डिलमिदं प्राङ्मुखं मन्तव्यम् । तस्य दक्षिणोत्तरयोर्ये स्थण्डिले, तयोः क्रमादक्षिणोत्तरी पक्षौ इति संज्ञा। पश्चिमस्य च पुच्छमिति व्यवहारः, मध्यभागस्य चात्मेति। अस्या एव चितेः सुपर्णचितिरिति नाम।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #43
--------------------------------------------------------------------------
________________
३२
सवृत्ति-कात्यायन-शुल्बसूत्रेतत् एकसमासेन समस्य समचतुरस्रीकृत्य, एकीकृत्य, निर्हत्य = "अतिदीर्घ चेत्" इत्युक्तविधिना (३३) पृथक् कृत्वा, शिष्टं सर्वमग्निं तथाकृति = द्रोणाकारं कृत्वा निहतंदशमांशं पुरस्तात्पश्चाद्वोपदध्याद्योजयेत् । अवशिष्टं चतुरस्रभुजपार्श्वमानीकं स्वदशमांशोनचतुरस्रं तत् = पूर्वोक्तभुजप्रमाणतिर्यङ्मानीकं नवभागात्मकं क्षेत्र दीर्घचतुरस्राख्यं तथाकृति द्रोणाकृति समचतुरस्ररूपं कृत्वा तस्य समचतुरस्रस्य पुरस्तात्पश्चाद्वा वृन्तरूपं समचतुरस्रमुपदध्यात् योजयेत् मेलयेदिति यावत् ॥३॥
मण्डलेऽप्येवम् ॥४॥ मण्डले = मण्डलाकारायां रथचक्रचितौ कङ्कचितावपि वृत्तिाधानपक्षे = एवम् पूर्ववत् पक्षपुच्छसमासेन चतुरस्त्रं कृत्वा तद्दशमांशमपहृत्य चतुरस्त्रं पूर्वोक्तविधिना कृत्वा तमपि वृत्तं विधाय पुरस्ता. त्पश्चाद्वा योजयेत् । क्षेत्रदशमांशं वृन्तं "मण्डलं चतुरस्रं चिकीर्षन्" ( २०१४ ) इत्यादिना वृत्तं सम्पाद्य पुरस्तात्पश्चाद्वोपदध्यात् । पक्ष. पुच्छविशेषसहितस्यात्मनोऽपि मण्डलता “मण्डलं चतुरस्त्रं चिकीर्षन्" (३।१४) इत्यनेनैव सम्पादनीयेति ॥४॥
प्रऽउगचितिमाहप्रऽउगे यावानग्निः सपक्षपुच्छविशेषस्तावद् द्विगुणं समचतुरस्रं कृत्वा यः पुरस्तात्करणीमध्ये शङ्कयौं
च श्रोण्योः सोऽग्निः ॥५॥ प्रउगसंज्ञके व्यस्त्रेऽग्निक्षेत्रे कर्तव्ये याव-प्रमाणकमग्निक्षेत्र पक्षपु. च्छविशेषसहितं, तत्प्रमाणकं समचतुरस्रं कृत्वा तद् द्विकरण्या द्विगुणितं कृत्वा समचतुरस्रं पुनर्विधाय तस्य द्विगुणरूपसमचतुरस्रक्षे. त्रस्य करणीमध्ये पुरस्ताद्यः शङ्कः, श्रोण्योश्च यौ शङ्क, तच्छङ्कत्रय. मुलेषु सूत्रं निपात्य यत् व्यस्रिक्षेत्र द्विगुणसमचतुरस्त्रार्धरूपं जायते सेयं प्रउगचितिः।
अथाऽत्र अ. इ. उ, प्रउगक्षेत्रम् , यत्र क. तिर्यङमानोदलबिन्दुः, ततः अ. क, सूत्रप्रसारणेन अ. क. इ, अ. क. उ, इति यत्रिद्वयं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #44
--------------------------------------------------------------------------
________________
कं. ४ ]
चितिनिरूपणम् ।
३३
जातम्, तत्र श्र. क. इ, त्र्यस्त्रि क्षेत्रस्य श्र. ग. उ, रूपेण स्थापनेन श्र.
ग. उ. क, दीर्घचतुरस्त्रं प्रउगक्षेत्रसममिति स्पष्टमेवेति ॥ ५ ॥
अ
A
क
可
उभयतः प्रउगचितिमाह
उभयतःप्रउगे तावदेव दीर्घचतुरस्रं कृत्वा करणीमध्येषु शङ्कवः स समाधिः ॥६॥
उभयतः उगेऽग्नौ कर्तव्ये यावानग्निः, तत्प्रमाणकं सपक्षपुच्छं चतुरस्त्रं कृत्वा अथ तत्प्रमाणकमेव समचतुरस्रं तत्र पुरस्ताद्वर्धयित्वा विस्तारद्विगुणं दीर्घचतुरस्रं निष्पाद्य ततस्तिर्यङमान्योः पार्श्वमान्योश्च मध्येषु चत्वारः शङ्कवो निखेयाः । तत्र सूत्रचतु के दत्ते : उभयतस्त्रिकोणा चितिर्भवति, स समाधिश्चितिप्रकारः || ६ ||
=
प्रउगस्य चतुरस्त्रीकरणोपायमाह
प्रउगं चतुरस्रं चिकीर्षन्मध्ये प्राञ्चमपच्छिद्य विपर्यस्येतरत उपधाय दीर्घचतुरस्रसमासेन समस्येत्स समाधिः ||७||
प्रउगं = त्रिकोणं चतुरस्र = समचरतुस्रं कर्तुमिष्यते चेत् तदा मध्ये प्राञ्चं = पूर्वभागमपच्छिद्य = विभज्य तिर्यङ्मानीं द्विधा कृत्वा ततः पूर्वत्रिकोणाग्रं यावत् सूत्रप्रसारणेन त्रिकोणद्वयं
३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #45
--------------------------------------------------------------------------
________________
३४
सवृत्ति-कात्यायन-शुल्बसूत्रे
[कं. ४ जायते; तत एक त्रिकोण विपर्यस्य विपरीतं = पश्चिममुखं कृत्वा तथा निदध्यात् यथा पूर्वप्रउगनेत्रभुजोऽदणया भवेत्। एवं कृते त्रिकोणद्वयसयोगेन यदीर्घचतुरस्रं जायते तत्प्रउगक्षेत्रतुल्यम् । तद्दी. र्घचतुरस्त्रं समचतुरस्त्रं कुर्यात् । एवं प्रउगक्षेत्रस्य समचतुरस्त्रीकरणं निष्पन्नम् , स समाधिः त्रिकोणस्य समचतुरस्त्रकरणप्रकारः ॥ ७॥
उभयतः प्रउगस्य चतुरस्त्रीकरणोपायमाह उभयतः प्रउगं चेन्मध्ये तियगपच्छिद्य पूर्ववत्समस्यत् ॥८॥
यदि उभयतः प्रगउं = त्रिकोणं समचतुरस्रं कर्तुमिष्यते तदा उभ. यतः व्यस्त्रिद्वययोगसूत्रस्य चतुरस्राकारस्य उभयतः प्रउगक्षेत्रस्य अक्ष्णयासूत्रद्वयप्रसारणेन उक्तक्षेत्रे चत्वारि व्यस्त्रिक्षेत्राणि उत्पाद्य एकैकं ज्यस्त्रिक्षेत्रं स्वपार्श्वगतव्यस्त्रिक्षेत्रादितरतो विपर्यस्य तथा स्थापयेत् यथा प्रउगक्षेत्रभुजःअक्षणयारूपो भवेत् । एवं सति दीर्घचतुरस्रद्वययो. गेन प्रउगक्षेत्रं लघ्वक्ष्णयार्द्धमतिदीघं बृहदक्ष्णया दीर्घचतुरस्रमुभ यतःप्रउगक्षेत्रतुल्यं भवति । तदीर्घचतुरस्त्रं पूर्ववत्समचतुरस्त्रं कुर्यात्। एवमुभयतः प्रउगक्षेत्रस्य समचतुरस्त्रीकरणं निष्पन्नम् । अत्र अ. इ. उ. क. उभयतःप्रउगक्षेत्रम् , अ. उ, बृहदक्ष्णया, क. इ, लध्व. क्ष्णया, अ. उ. ग. प, अतिदीर्घसमचतुरस्त्रमुमयतःप्रउगक्षेत्र सममिति ॥ ८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #46
--------------------------------------------------------------------------
________________
कं. ४ ]
चितिनिरूपणम् ।
३५
एतेनैव त्रिकर्षसमासो व्याख्यातः पञ्चकर्णानां च प्रउगेऽपच्छिद्य ॥ ६॥
एतेनैव प्रकारेण त्रिकर्णसमासः त्रिभुजाकारप्रउगक्षेत्रस्य समचतुरस्त्रीकरणप्रकारो व्याख्यातो भवतीत्यर्थः । यथा- प्राक् तिर्यङ मानीकप्रमाणात् द्विगुणितपश्चात्तिर्यङ्मानीकं तुल्यपार्श्वमानीकद्वयं यत् समचतुरस्रं, (वेदिरूपं ) तत् श्रंसाभ्यां पश्चात्तिर्यङ्मानीमध्यं यावत् सूत्रद्वय प्रसारणेन त्रीणि व्यस्त्राणि जायन्ते । तत्र त्र्यस्त्रिद्वयमूर्ध्वमुखम् एकं चाधोमुखम् । ततः तेषां त्र्यस्त्रीणां समचतुरस्री करणं. पूर्ववत्
"
ग
यथाऽत्र अ. इ. उ. क, वेदीरूपं क्षेत्रम्, यत्र श्र. इ, प्राक्तिर्यङ् मोनीकम् उ. क, पश्चात्तिर्यङमानीकम, अ. क, इ. उ, पार्श्वमानोयं, ग. मध्यबिन्दुः । अ. ग, इ. ग, सूत्रप्रसारणेन . क. ग, क. इ. ग, इ. ग. उ, इति त्रिभुजत्रयं जायते । एवं पञ्चानां त्र्यस्त्रिक्षेत्राणां समचतुरस्त्रीकरणप्रकारो भवितुमर्हति । तत्र पञ्चापि व्यस्त्राणि समानि चेत् तदा द्वयोर्द्वयोस्त्रयस्त्रिक्षेत्रयोर्योगेन उभयतः प्रउगक्षेत्रद्वयम् एकं व्यस्त्रि क्षेत्रं च भवितुमर्हति । ततः पूर्ववत् उभयतः प्रउगक्षेत्रद्वयं समचतुरस्त्रीकृत्य शिष्टं त्रिभुजं च पूर्ववदेव समचतुरस्त्रीकुर्यात् । ततस्तेषां समचतुरस्राणां योगरूपमेकं समचतुरस्रं निष्पादयेदिति । एवं पञ्चकर्णानां समचतुस्त्रीकरण प्रकारोनिष्पद्यते । यदि व्यस्त्रिक्षेत्राणि विषमानि स्युस्तदा पृथक् पृथक् प्रउगक्षेत्रसमचतुरस्त्रीकरणरीत्या पञ्चापि समचतुरस्राणि निष्पाद्य तानि एकसमासेन समस्येत् ।
"
अत्र द्वयोर्द्वयोरुयत्रिक्षेत्रयोर्योगेन एकैकमुभयतः प्रउगक्षेत्रं, शिष्टं च व्यस्त्रिक्षेत्रमेकमिति ॥ ६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #47
--------------------------------------------------------------------------
________________
३६
[ कं. ५
सवृत्ति-कात्यायन-शुल्बसूत्रे
क्षेत्रदर्शनम्
-
-
एककर्णानां द्विकर्णानां च समचतुस्रेऽपच्छिद्य ॥१०॥
एककर्णानां = तुल्यकर्णानां पञ्चानां व्यस्त्रीणां प्रउगेऽपच्छिद्योक्त. रीत्या समासः। द्विकर्णानां च समचतुरस्र वृद्धकरणीमपच्छिद्य नाना प्रमाणेत्युक्तविधिना समासः कार्यः ॥ १०॥
इति शुल्कवृत्तौ चितिनिरूपणी चतुर्थी कण्डिका ॥४॥
"द्विपुरुषां रज्जु मित्वा" ( १६।८) इत्यादिना प्रथमाग्निक्षेत्रस्य सप्तविधस्य साधनं श्रौतसूत्रे उक्तम् । अतोऽत्र द्वितीयादिषु अष्टवि. धाद्यग्निक्षेत्रेषु पुरुषाभ्युच्चयं वक्तुमुपक्रमते
उत्तरेषु पुरुषोचयेनैकशतविधादित्येतद्रक्ष्यामः ॥१॥ __ श्रौतसूत्रे (१६।८।१ ) सार्द्धसप्तपुरुषात्मकमग्निमुक्त्वा “उत्त. रेषु पुरुषोच्चयेनैकशतविधात् ” (१६।८।२०) इति यदुक्तम् , एतत्पुरुषोच्चयविधानं विविच्य कथयिष्यामः । उत्तरेषु द्वितीयादिषु चयनेषु एकशतविधान्तेषु एकैकपुरुषवृद्धया अग्निक्षेत्र निर्मातव्यम् । तत्राद्योऽग्निः सार्द्धसप्तपुरुषक्षेत्रफलकः सप्तविधः । द्वितीयोऽष्टविधः, तृतीयो नवविधः, इत्यायेकशतविधपुरुषपर्यन्तं पञ्चनवतिः। अश्व. मेधे च द्वावन्यौ द्विगुण-त्रिगुणसंज्ञो वक्ष्यमाणौ । एवं सप्तनवतिरनि. चयनभेदाः। एवं पुरुषोच्चयो य उक्तस्तं वश्यामः (१) ॥ १॥
(१)। द्वितीयादिषु चयनेषु पञ्चनवतितमचयनं यावत्प्रतिचयमेकैकपुरुष. वृद्धयाऽग्निक्षेत्रस्य मानं कर्तव्यम् । प्रथमपुरुषे सार्द्ध सप्तपुरुषप्रमाणमग्निक्षेत्रम्, द्वितीये अष्टपुरुषप्रमाणं, तृतीये नवपुरुषप्रमाणम, एवं पञ्चनवतितमे चयने एकाधिकं शतं पुरुषा भवन्ति। अर्धपुरुषमानं तु सर्वत्राधिकास्त्येव । इदमेव विशेषशब्देन अधिमानशब्देन च व्यवहियते । तस्यापि प्रतिचयनं स्वसप्तमभागेन वृद्धिर्भवत्येव । अन्तिमे चयने तस्याप्येकोत्तरशतं स्वसप्तमभागा भवन्ति । अग्निक्षे. त्रवदेव द्वितीयादिषु चयनेषु वेदिप्रमाणमपि वर्द्धनीयम् । इष्टकानां च सर्वासां प्रमाणं वर्द्धनीयम्, न तु तासां सङ्ख्याधिक्यमाश्रित्य क्षेत्रपूरणम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #48
--------------------------------------------------------------------------
________________
कं. ५]
पुरुषोच्चयकथनम् । तत्रादावाश्वमेधिकं चयनद्वयमाहआद्योऽग्निर्द्विगुणस्त्रिगुणो भवतीति सर्वसमासः ॥२॥
आद्यः प्रथमोऽग्निः सार्द्धसप्तपुरुषक्षेत्रफलको द्विगुणो द्विकरण्या द्विगुणः, त्रिकरण्या त्रिगुणश्च इत्येवं सर्वसमासः = सर्वस्य पक्ष-पुच्छसहितस्य क्षेत्रस्य समासः कर्त्तव्यः। अयमर्थः-सार्द्धसप्त पुरुषक्षेत्रफलकः, एवं पञ्चदशपुरुषात्मकः सार्द्ध द्वाविंशतिपुरुषात्मकश्वाग्निर्भवितुमर्हति । तत्र श्रात्मादिविशेषविधानमाह-तत्र यथा पूर्वाग्नौ पुरुषचतुष्टयात्मक आत्मा निर्दिष्टः स च द्विपुरुषरज्वा संभ. वितुमर्हति, तथाऽत्रापि द्विपुरुषरज्ज्वा निर्मितसमचतुरस्रस्य क्षेत्रस्यअदणयारूपया द्विकरण्या निर्मितं समचतुरस्त्रं क्षेत्रमष्टपुरुषात्मकं द्विगुणक्षेत्रस्य श्रात्मा भवितुमर्हति । एवं त्रिकरण्या रज्ज्वा निर्मितं समचतुरस्रं द्वादशपुरुषात्मकं त्रिगुणक्षेत्रस्यात्मा भवितुमर्हति । अथ च आद्याग्नेः पत्तौ सपञ्चमांशपुरुषात्मको निर्दिष्टौ, तथाऽत्रापि । तौ च पुरुषविस्तारेण सपञ्चमांशपुरुषदैर्येण निष्पन्नौ; तथाऽत्रापि द्विगुणपुरुषपञ्चमांशयुतपुरुषद्वयतुल्यौ। एवं द्विगुण-त्रिगुणाग्नेरा. स्मादिविधानं च निष्पद्यते ॥२॥
आद्योऽग्निर्द्विगुणस्त्रिगुण एकविठशतिविधो वा" (का. श्री. २०१४।१५) इत्यश्वमेधे उक्तम् । तत्र द्विगुणत्रिगुणावग्नी उक्तौ। अथैकविंशतिविधमाहएकविठशतिविधो भवतीति पुरुषाभ्यासः ॥ ३ ॥
अश्वमेधे “एकवि:०शतिविधो भवति" इत्युक्तम् । तत्र पुरुषा. भ्यासः कार्यः। प्राकृतसप्तविधसार्धपुरुषात्मकेऽग्नौ एकैकपुरुषा. भ्यासेनाष्टविधादिषु जायमानेषु चतुर्दशपुरुषाभ्यासेनैकविंशति विधः सम्पादनीयः । तद्यथा-सार्धसप्तपुरु गमकेऽग्नौ एकपुरुष. प्रक्षेपेणाष्टविधः, द्विपुरुषाभ्यासेन नवविधः, त्रिपुरुषाभ्यासेन दशविधः, एवं क्रमेण एकैकपुरुषवृद्धया चतुर्दशपुरुषाभ्यासेन एक विशतिविधोऽग्निर्भवति ॥ ३ ॥
पुरुषाभ्यासप्रकारमेवाहपुरुषाभ्यासे यावानग्निः सपक्षपुच्छविशेषस्तावत्समचतु.
रस्रं कृत्वा तस्मिन् पुरुषप्रमाणमवध्यात् ॥ ४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #49
--------------------------------------------------------------------------
________________
३८
सवृत्ति-कात्यायन-शुल्बसूत्रे- [कं. ५ पुरुषाभ्यासे कर्तव्ये यावान् पूर्वोक्तोऽग्निः सार्धसप्तपुरुषात्मकः सपक्षपुच्छविशेषः पक्षाभ्यां पुच्छेन विशेषेण = अधिमानेन च सहितः तत्प्रमाणं समचतुरस्रं नानाप्रमाणसमासविधिना कृत्वा तस्मिन् सम. चतुरस्त्रीकृतेऽग्नौ पुरुषप्रमाणं =पुरुषप्रमाणं क्षेत्रमवदध्यात् = नानाप्रमा. णसमासविधिनैव प्रक्षिपेत्। एवं सार्द्धष्टपुरुषात्मकं चतुरस्रं स्यात् । तद्यथा-सार्द्धसप्तपुरुषात्मकेऽग्नौ पुरुषचतुष्टयात्मकं समचतुरस्रं पुरुषद्वयरज्जुरूपकरण्या निर्मितमात्मपदवाच्यम् । षडरत्निदीर्घ पञ्चारनिविस्तृतं क्षेत्रद्वयं पक्षपदवाच्यम् । सार्द्धपञ्चारनिदीर्घ पञ्चारनिविस्तृतं क्षेत्रं पुच्छपदवाच्यम् । एतेषां योगेन सार्द्धसप्तपुरुषात्मकमग्निक्षेत्रं भवति । अतः पक्षरूपं दीर्घचतुरस्रद्वयं पूर्वोक्त प्रकारेण समचतुरस्रीकृत्य द्विकरण्या द्वयमप्येकसमासेन समस्य, एवं पुच्छरूपदीर्घचतुरस्त्रमपि समचतुरस्त्रीकृत्य द्वयमपि आत्मरूप पुरुषचतुष्टयात्मकसमचतुरस्त्रेण तयैव दिशा समस्येत् । एवं निष्प नं समचतुरस्रं सार्द्धसप्तपुरुषात्मकं भवति । ततस्तस्मिन् समचतु. रस्ने पुरुषप्रमाणं = पुरुषमात्रदैर्ध्यविस्ताराभ्यां निर्मितं समचतु. रत्रमवध्यात् = समस्येत् समस्य चतुरस्त्रीकुर्यात्, तदा सार्द्धष्टपुरुषफलकं समचतुरस्रं भवितुमर्हति । एवमेकपुरुषाभ्यासो निष्पनः । एवमेव द्विव्यादिपुरुषाभ्यासप्रकारो बोध्यः ॥ ४॥
द्वितीये चयने कियान् पुरुषभागः प्रक्षिप्त इत्याशङ्कायां तत्र क्षिप्त पुरुषमानं पृथग्दर्शयतिसमस्तं पञ्चदश भागान् कृत्वा द्वावेकसमासेन
समस्येत्स पुरुषः ॥ ५ ॥ समस्तं = पुरुषाभ्यासविशिष्टं समचतुरस्र सार्हृष्टपुरुषफलक पञ्चदश भागान् समान् कृत्वा अर्थात् तिर्यमानी पार्श्वमानी वा पञ्चदशधा विभज्य तत्तद्विभागान्तेभ्यः सूत्रप्रसारणेन पञ्चदशांशतिर्यङ्मानीकानि समचतुरस्रभुजपार्श्वमानोकानि पञ्चदश चतुरस्राणि उत्पाद्य तत्र द्वौ भागौ उक्तदीर्घपञ्चदशचतुरस्र चतुरस्रद्वयमेकसमासेनसमस्य समचतुरस्रीकुर्यात्, स पुरुषः = तत्पुरुषप्रमाणमित्यर्थः । अत्र पञ्चदशांशोऽष्टाङ्गुलविस्तारं विंशत्यधिकशताङ्गुलदीघ क्षेत्रं दीर्घचतुरस्त्रात्मकं भवति । तद् द्वयं समचतुरस्त्रीकृतपुरुषप्र.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #50
--------------------------------------------------------------------------
________________
कं.५]
पुरुषोश्चयकथनम् ।
माणं द्वितीयचयने वर्धते । श्रा एकशतविधादेवमेव पञ्चदशभागद्वयेन वृद्धिर्भवति । तद् द्वितीयचयनादौ पञ्चदशभागद्वयमर्धाष्टमविभागरूपं भवति तत्समचतुरस्रं पुरुषद्वयात्मकमवधेयम् । श्रतस्तत्करणी पुरुषः स्यादिति । अर्थात् एतादृशेन पुरुषप्रमाणेन " द्विपुरुषां रज्जुं मित्वा" इत्यादिना आद्याग्नौ आत्मादिनिर्माणवत् श्रात्मादिकं निर्मेयमिति । एवमेव द्वित्रादिपुरुषाभ्यासविशिष्टे सार्द्धनव-सार्द्धदशादिफलके समचतुरस्रेऽपि पुरुषप्रमाणमभ्युपगन्तव्यमिति ॥ ५ ॥
३९
पुरुष प्रमाणस्य पृथग्दर्शने प्रयोजनमाह
तस्य दशमेन पादमात्री भवति, पञ्चमेन बृहती || ६ ||
तस्य समचतुरस्त्रीकृतस्य पुरुषप्रमाणस्य दशमेन दशमांशेन पादमात्री इष्टका स्यात् । पुरुषकरणी दशमो भागः पद्येत्यर्थः । करणीक्षेत्रफलशततमो भाग इति यावत् । पञ्चमेन = पुरुष करणीपश्चमभागेन क्षेत्रफलपञ्चविंशतिभागेन बृहती नामेष्टका स्यात् । पद्या- बृहत्योः कथनमन्यासामिष्टकानामप्युपलक्षणम् ॥ ६ ॥
=
पुरुषवर्द्धने द्वितीयं प्रकारमाह
पुरुषं वा पञ्चमेनोभयतोऽपच्छिद्यं पञ्च भागान्त्समस्य तृतीयं तृतीयं निर्हृत्य पुरुषप्रमाणेऽवदध्या दित्यपरम् ||७||
अथवा पुरुषं = पुरुषप्रमाणकं समचतुरस्रं पञ्चमेन = पञ्चमभागेन अच्छिद्य विभज्य पुरुषप्रमाणकक्षेत्रस्य तिर्यङमानीं पार्श्वमानी च पञ्चधा विभज्य पञ्चविंशतिं कोष्ठान् कृत्वा तन्मध्ये पञ्चभागान् पञ्चकोष्ठान् समस्य समचतुरस्त्रीकुर्यात् । ततः तृतीयं तृतीयं निर्हृत्य = पञ्चकरणीकृतं चतुरस्रं त्रिधा कृत्वा स्वतृतीयभागं तत्स्मात्स्वसमचतुरस्रादपहृत्य निष्काश्य शिष्टं भागद्वयं समतुरस्री कृत्य तस्मिन्पुरुषप्रमाणे क्षत्रे समस्येत् नानाप्रमाणसमासविधिना समचतुरस्त्रीकुर्यात् । तत्समचतुरस्रं पुरुषप्रमाण कमभ्युपगन्तव्यम् । तस्य करणी पुरुषप्रमाणमित्यर्थः । सोऽष्टविधादौ पुरुषो भवति । श्रस्मिन्नपि पक्षे पुरुषक्षेत्रस्य पञ्चमो भागश्चतुर्विंशत्यङ्गुलविस्तारो विंशतिशताङ्गुलदीर्घश्च चतुरस्रो भवति । तस्मात्तृतीये भागे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #51
--------------------------------------------------------------------------
________________
सवृत्ति कात्यायन शुल्बसूत्रे -
[ कं. ५
निष्काशिते षोडशाङ्गुल विस्तारं विंशतिशताङ्गुलदीर्घं क्षेत्रं भवतीति तावदेवायाति । तस्य दशमेन पादमात्री पञ्चमेन बृहतीत्यत्रापि समानः ॥ ७ ॥
४०
पुरुषं पञ्चदश भागान् कृत्वेत्यत्र पञ्चदशमो भागः कियान् भवतीति स्पष्टयितुमाह
पञ्चदशभागोऽष्टाङ्गुलम् ॥८॥
पुरुषकरण्याः पञ्चदशो भागोऽष्टाङ्गलात्मकः स्यात् । तद् द्वयं षोडशाङ्गुलविपुलं विंशतिशताङ्गुलदीर्घं क्षेत्रम् । तदावापे कृते पुरुषो वर्द्धितो भवति ॥ ८ ॥
वितस्त्यङ्गुलपदशब्दानां लोकप्रसिद्धानां मानमाहपञ्चारनिर्द्विदशवितस्तिविंशतिशताङ्गुलः पुरुष इत्येतस्माद् द्वादशाङ्गुलं पदमिति च ॥ ६ ॥
2
पञ्चरत्नयो यस्य दश वितस्तयो यस्य, विंशतिशतमङ्गलानि यस्य स पुरुष इत्यरत्न्यादिमानमेतस्मात्पुरुषाद् ज्ञेयम् । पदं च द्वादशाङ्गुलमित्यपि ज्ञेयम् ॥ ६ ॥
पुरुषवर्द्धने तृतीयं प्रकारमाह
पुरुषं वा सप्तमेनोभयतोऽपच्छिद्य सप्त भागान्त्समस्य सप्तमभागमङ्गुलं निर्हृत्य पुरुषप्रमाणेऽवदध्यादि
त्यपरम् ॥१०॥
अथवा पुरुषं = पुरुषप्रमाणकं समचतुरस्रक्षेत्रं सप्तमेन स्वसप्तमांशेन उभयतोऽपच्छिद्य विभज्य सूत्रप्रसारणेन एकोनपञ्चाशत् सम कोष्ठान् निष्पाद्य तन्मध्ये सप्त भागान् पुरुष सप्तमांशरूपान् समस्य समचतुरस्त्रीकृत्य सप्तमभागमङ्गुलं निर्हृत्य = सप्तमभागेनाङ्गल सप्तमांशेन सहितमङ्गलमेकविंशतिशताङ्गुलदीर्घं क्षेत्रं समचतुरस्त्रीकृत्य - समसितसप्तमांश रूप समचतुरस्रात् निष्काश्येत्यर्थः । शिष्टं समचतुरस्रीकृत्य तस्मिन् पुरुषप्रमाणके क्षेत्रेऽवदध्यात् = समस्य चतुरस्त्रीकुर्यात् इत्यपरं पुरुषविधानम् । श्रयमर्थः । श्रङ्गुलसप्तमांशसहितां सप्तदशा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #52
--------------------------------------------------------------------------
________________
कं. ५]
पुरुषोच्चयकथनम् ।
४१
कुलविस्तारां विंशतिशताङ्गलदीयां भूमिं दीर्घचतुरस्ररूपां समचतुरस्त्रीकृत्य सप्तमांशसहितमङ्गलं तस्मात् सप्तमभागकृतचतुरस्रा दपनीय शेषं समचतुरस्त्रीकृत्य नानाप्रमाणसमासविधिना पुरुषप्रमाणक्षेत्रे आवपेत् । स वर्द्धितसार्द्धसप्तमांशः पुरुष इति । अस्मिन्नपि पक्षे पूर्वप्रकारद्वयोक्तमेवायाति । तथाहि - पुरुषक्षेत्रस्य सप्तमो भागोऽङ्गुलसप्तमभागयुक्त सप्तदशाङ्गुल विस्तारं विंशतिशताझुलदीर्घक्षेत्रं तस्मात् सप्तमभागेऽङ्गुलेऽपनीते षोडशाङ्गुलविस्तारं विंशतिशताङ्गुलदीर्घं क्षेत्रमवशिष्यत इति । तद्दशमांशेन पादमात्री भवतीत्याद्यपि समानम् । नवविधादिष्वप्येवमेव बोध्यम् ॥१०॥
"
अधिमानरूपाणामरत्निवितस्तीनां पुरुषे प्रक्षेपो न कार्य इत्याह- नारत्निवितस्तीनां समासो विद्यते सङ्ख्यायोगात् ॥ ११ ॥ अरत्निवितस्तीनां समासः = पुरुषमध्ये प्रक्षेपो नास्ति । श्रधिमानभूता या अरत्नि वितस्तयः, तासां पृथग्वर्द्धनस्योक्तत्वात्पुरुषाणामेव वर्द्धनं, नारत्न्यादीनाम् । कुतः ? संख्यायोगात् = अष्टानवतिविधे चयने "चतुर्दशारत्नीन् दक्षिणे पक्ष उपदधाति चतुर्दशोत्तरे चतुर्दश वितस्तीः पुच्छ उपदधाति" इति श्रुत्याऽरत्यादिषु वर्द्ध नार्थसंख्यायोगः पृथगुच्यते । अतः सप्तविधे एकविंशतिविधेऽष्टानवतिविधे एकशतविधे पुंसामेवोच्चयो, नारत्न्यादीनामिति (१) ॥ १२ ॥
एकशतविधप्रकारदर्शनेऽष्टानवतिविधे एवानौ तदधिक साधिमानपुरुषत्रयस्य विविच्य निवेशनमाह -
अथ त्रिपुषार्थं रज्जुं मिमीते तार्थ सप्तधा समस्पति तस्यै चतुरो भागानात्मन्नुप दधाति त्रीन्पचपुच्छेषु ॥ १२ ॥
त्रिपुरुषां= त्रिपुरुषमितफलसाधनकां रज्जुं मित्वा तथा रज्ज्वा त्रिपुरुष फलकं चतुरस्रं विधाय तत् सप्तधा विभज्य चत्वारो भागा अष्टनवतिविधानेरात्मनि षट्पञ्चाशत्पुरुषात्मके प्रक्षेव्याः । एकैको
(१) अत्र रामचन्द्र वाजपेयिनः – ये श्वेतसूत्रार्थमजानन्तः शुद्धपुरुषमात्रवृद्धिमाहुः, ते श्रुतिं विप्लावयन्ति इत्युपेक्ष्याः । न ह्यनेन सूत्रेणाधिमानस्य वृद्धिरेव निषिध्यते किन्तु पुरुषमध्ये क्षेपमात्रं निषिध्यते, पृथग्वर्धनं तु स्यादेवेति ।
४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #53
--------------------------------------------------------------------------
________________
४२
सवृत्ति - कात्यायन-शुल्बसूत्रे -
[ कं. ६ भागः श्ररनिवितस्तिरहिते चतुर्दशपुरुषात्मके श्रष्टानवतिविधाग्नेः पक्षपुच्छे क्षेप्यः । एवं सति पुरुषसप्तमांशेन पञ्चगुणेन सहितः सप्तपञ्चाशत्पुरुषा एकशत विधाग्नेरात्मा भवति । पुरुषसप्तमांशेन त्रिगुणेन सहितश्चतुर्दशपुरुषः प्रत्येकं पक्षौ पुच्छश्च भवति । एवं सर्वयोगेन एकशतपुरुषात्मक एकशतविधोऽग्निः । ततः पक्ष पुच्छेषु स्वकीयारत्रिवितस्तिवर्द्धनेन अष्टोत्तरशत पुरुषात्मक एकशतविधोऽग्निर्भवतीति अरत्निवितस्तिवर्द्धनं पृथगुक्तम् ॥१२॥
इति शुल्ववृत्तौ पुरुषोच्चयनिरूपणी पञ्चमी कण्डिका ॥५॥
यथाऽग्निवेदीष्टकाप्रमाणं वर्द्धत इत्येतद्वक्ष्यामः ॥ १ ॥
"यथाऽग्नि वेदीष्टकाप्रमाणं ( २६/८/२१ ) इति यत् श्रौतसूत्रे उक्तं, तद्वक्ष्यामः = वृद्धिप्रकारं कथयिष्याम इत्यर्थः । कल्पसूत्रस्यायमर्थः । वेदिश्व इष्टकाश्च वेदीष्टकाः, तासां प्रमाणं यथाऽग्नि = श्रग्निमानमनतिक्रम्य श्रग्निक्षेत्रप्रमाणं यथा वर्द्धते तथा वेदि प्रमाणमिष्टकाप्रमाणं च वर्द्धते । वेदिवृद्धिं विना वर्द्धितस्याग्नेर्मानासंभवात् । अवर्द्धिताश्चेष्टका वर्द्धितमग्निक्षेत्रं न पूरयन्ति इति वेदे रिष्टकानां च यथाऽग्नि वर्द्धनं भवति ॥ १ ॥
वेदवर्धनं प्रक्रमवर्धनेनैव भवतीति चरमे चयने प्रक्रममाहया करणी चतुर्दश प्रक्रमान्त्संक्षिपति त्रींश्च प्रक्रमसप्तम भागान्स एकशतविधे प्रक्रमः ॥ २ ॥
या करणी चतुर्दश क्षेत्राणि, त्रीन् = त्रिगुणितान् प्रक्रमसप्तम भागान् प्रक्रमपरिमित क्षेत्र सप्तमांशांश्च सङ्क्षिपति एकीकरोति समचतुरस्त्रीकरोति तादृशकरणीरूपः प्रक्रम एकशतविधेऽग्नौ अन्तिमे चयने बोध्यः ( १ ) । तत्साधनप्रकारो यथा - प्रक्रमद्वय
( १ ) इष्टका निर्माणप्रकारः । पूर्व यजमानेनोर्ध्वबाहुना प्रपदोच्छ्रितेन वा समं वंशं मिनुयात् स पुरुषः । तस्य पुरुष प्रमाणस्य द्वात्रिंशांशं तत्र वर्धयित्वा वंशं तावत्प्रमाणं कुर्यात् । "इसते पाकशोषाभ्यां द्वात्रिंशद्भागमिष्टका | तस्मादाप्रमाणं तु कुर्यान्मानाधिकं बुधः" इति श्लोकशुल्बे वचनादार्द्राणामिष्टकानां पाकात् शोषाच्च द्वात्रिंशांशो हासो भवति । "इष्टका पाक-शोषाभ्यां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #54
--------------------------------------------------------------------------
________________
४३
कं. ६ ] वेदीष्टकावर्द्धनप्रकरणम् । त्रिंशम्मात्रा तु हीयते" ( का० शु० के० ९ सू० २३ ) इति वचनान्तराच पुरुषे पुरुषद्वात्रिंशांशं वा त्रिंशांश वा वर्द्धयित्वा इष्टकायन्त्रनिर्माणं कुर्यात् । रामचन्द्रवाजपेयिनस्तु " अयं द्वात्रिंशांशहासः पादभागाविषयः। तेन पद्यायां द्वौ द्वात्रिंशांशी, जङ्घामान्यां त्रयो द्वात्रिंशांशाः, बृहत्यां वक्रासु च चत्वारो द्वात्रिंशांशा वर्द्धनीयाः । एवमर्द्धबृहतीनां त्रिग्राहिण्यां च हासादिकमूह्यमित्याहुः। ततस्तं वंशं दशधा विभज्य चिन्हानि कुर्यात् । एवं, तस्य वंशस्य दशमो भागः पदसंज्ञको भवति, पदस्य द्वादशांशोऽगुलमिति । अत्रेष्टकाश्चतुर्दशविधा भवन्ति । पद्या, अर्द्धपद्या, पोदोनपद्या, जङ्घामात्री, अध्यर्द्धा, अर्होत्सेधा पद्या, अर्होत्सेधा अर्द्धपद्या, पादभागा, त्रिग्राहिणी, अर्धपादभागा, बृहती, वका, अर्द्धबृहती, चतुर्भागा, इति । तत्र द्वादशाङ्गुलसमचतुरस्राः पद्याः, द्वादशाङ्गुदीर्घाः षडङ्गुविस्तृताः अर्द्धपद्याः, द्वादशाङ्गुलसमचतुरस्राः एकेन पादेन ( कोणेन) न्यूनाः = त्रुटिताः पादोनपद्याः, अष्टादशालसमचतुरस्रा जडामात्र्यः, अष्टादशाङ्गुलदीर्घा द्वादशाङ्गुलविस्तृता अध्यः ,द्वादशाङ्गुलसमचतुरस्रास्यगुलोच्चा दुव्यङ्गुलोच्चा वा अर्होत्सेधापद्याः, द्वादशाङ्गुलदीर्घाः षडङ्गुविस्तृतारूयङ्गुलोच्चा दुव्यगुलोच्चा वा अर्होत्सेधा अद्धपद्याः, षडङ्गुलसमचतुरस्राः पादभागाः, चतुर्विशत्यगुलदीर्वाः अष्टादशागुलविस्तारास्त्रिग्राहिण्यः, षडङ्गलदीर्घाख्यङ्गलविस्तृता अर्द्धपादभागाः, चतुर्विंशत्यङ्गलसमचतुरस्त्रा बृहत्यः, चतुर्विशत्यङ्गलदीर्वा द्वादशाङ्गलविस्तृता अर्द्धबृहत्यः, व्यङ्गलसमचतुरस्राश्चतुर्भागा इति । उच्चता तु षडङ्गुलमिता सर्वासां चतुरङ्गुलमिता वा। अर्घोत्सेधापद्याऽद्धोत्सेधार्द्धपद्ययोस्तु दुव्यङ्गले व्यङ्गलं वोच्चत्वम् । वक्राणां प्रमाणसाधनोपायस्त्वेवम् । पूर्वमर्द्धव्यामेन व्याममात्रप्रमाणं वृत्तं विलिख्य तन्मध्ये चतुर्विशत्यङ्गलं समचतुरस्रं साधयित्वा तस्य कोणेषु कोणादारभ्य वृत्तं यावदेखाः कुर्यात्, एवं चतुरस्रस्य दिश आरभ्य वृत्तं यावत् रेखा दद्यात् , एवं कृते अष्टौ वक्रा विभागा जायन्ते । एतादृशं क्षेत्रं विलोक्य वक्रदारुघटनेन वकेष्टकानां प्रमाणं निष्पादनीयम् । सर्वासु इष्टकासु अङ्गुलिकाष्ठादिना त्रीणि त्रीणि चिन्हानि कार्याणि । तानि च चिन्हानि वक्राणि, ऋजूनि, तिरश्वालिखितानि च तासु तास्विष्टकासु कार्याणि । तत्र वक्राणि चिन्हानि ~~ एतादृशानि भवन्ति । ऋजूनि च ॥ एतादृशानि, तिरश्चालिखितानि च--- एतादृशानि कार्याणि । अथेष्ट कानां सङ्ख्या -तत्र एकादश सहस्राणि एकशतं च सप्तत्यधिकं समग्रा इष्टकाः ११७० । तत्र दश सहस्राणि अष्टौ शतानि च लोकम्पृणाः १०८०० । त्रीणि शतानि सप्तत्यधिकानि यजुष्मत्यः । (शतपथे तु दर्भस्तंब-दूर्वेष्टका-स्वयमातृण्णा-कूर्मोलूखलायाः पञ्चविंशसङख्या इष्टका आसां मध्येऽधिकाः पठित्वा त्रीणि शतानि पञ्चनवतिर्यजुष्मत्य उक्ताः । एताः पञ्चविंशतिरिष्टकास्तिस्रो नैत्यश्वोक्तसङ्ख्यातोऽधिकाः)। उक्तष्टकानां मध्ये नव सहस्त्राणि द्वे शते द्वाषष्टयधिके ९२६२ पादभागाः तत्र वक्रालिखिताः पादभागाः १७३२, ऋग्वालिखिताः पादभागाः ७५३० । भर्द्धपादभागाः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #55
--------------------------------------------------------------------------
________________
सवृत्ति-कात्यायन-शुल्बसूत्रेतिर्यङ्मानीकं सप्तप्रक्रमपार्श्वमानीकं दीर्घचतुरन चतुर्दशप्रकमफलकं निर्माय तत्समचतुरस्त्रीकुर्यात् । तेन चतुर्दशफलकं समचतुरस्र स्यात् । एवं व्यङ्गुलसप्तमांशयुतपञ्चदशाङ्गुलविस्तारं षट् विंशदङ्गुलदीर्घचतुरस्र प्रक्रमक्षेत्रस्य त्रिगुणितसप्तमांशरूपं समचतुरस्त्रीकुर्यात् । ततोऽनयोः समचतुरस्रयोः समासे या करणो सा चतु दश प्रक्रमान् त्रीश्च प्रक्रमसप्तमभागांश्च सक्षिपति । अतः सैव करणी एकशतविधेऽनो प्रक्रमः (१) ॥२॥
षट् शतान्यष्टसप्तत्यधिकानि । तत्र-वक्रालिखिता अर्द्धपादभागाः २६२, ऋचालिखिता अर्द्धपादभागाः ४१६ । चतुर्भागा द्वादश । तत्र वक्रालिखिताश्चत्वारः, ऋज्वालिखिता अष्टौ। पद्याः सप्तशतानि सप्त सप्तत्यधिकानि। तत्र-पूर्णोत्सेधाः पद्याः ७५९, अर्होत्सेधाः पद्याः १८ । अर्द्धपद्या अष्टाशीतिशतम । तत्राोत्सेद्या द्वादश । तत्र चतस्रस्तिाश्वालिखिताः, अष्टौ ज्वालिखिताः। तिरश्चालिखिताः सप्तविंशतिः। तासां मध्ये चतस्त्रोऽोत्सेधाः, त्रयोविंशतिः पूर्णोत्सेधाः। शेषा ऋज्वालिखिताः, वक्रालिखिते अर्धपद्य द्वे इति। जवामान्यः ५०, त्रिग्राहिण्यः ७०, वकाः ८, अध्य ः १११, बृहत्यः ६ वा ७, अर्द्धवृत्यः ४, पादोने २ इति ।
इयमिष्टकानां सङ्ख्या उपधानकालीना। निष्पादनकाले सर्वा इष्टका उत्तसङ्ख्यातोऽधिकाः कारयितव्याः । यथा भेदनादिनाऽल्पा न भवेयुः ।
(१) अयमर्थः-त्रिपदकरणीकसमचतुरस्नस्य यः सप्तमोऽशः पत्रिंशदङ्ग लायामोऽङ्गलसप्तमांशसहितपञ्चाङ्गलविस्तारो भूभागः कृतः, पञ्चदशाङ्गुलानि त्रिससमभागयुतानि विस्तारे षटत्रिंशदङ्गलान्यायामे भवन्ति । तं चतुरस्त्रीकृत्य या करणी चतुर्दशगुणं त्रिपदकरणीकं संक्षिपति तत्करणीके चतुरस्र नानाप्रमाणसमासविधिना तं प्रक्षिपेत् । तत्क्षेत्रस्य करणी एकशतविधे चयने प्रक्रमवाच्या। तेन प्रक्रमेण प्रकृतिवद्वेदिः साध्या । स चान्तिमचयनप्रक्रमः, किंचिदूनसप्तत्रिंशदधिकशता. ङ्गलप्रमितो भवति । तच्चैवं विधेयम्। पूर्वमग्निक्षेत्रं सार्द्धसप्तपुरुषात्मकं समचतुरस्रीकृतं स्वसप्तमभागेन द्वितीयचयने वर्द्धयेत् । एवं तृतीयादिष्वपि एकैकीच्चयेन स्वसप्तमभागवृद्धिः। तृतीये द्वौ सप्तम भागावधिको, चतुर्थे त्रयः, पञ्चमे चत्वारः, षष्टे पञ्च, सप्तमे षट् । अष्टमे प्रथमक्षेत्रस्य द्विकरणी। एवं क्रमेण पञ्चनवतितमे चयने चतुर्णवतिः सप्त भागाः वर्द्धन्ते । तत्साधनोपायस्तु-प्रथमे चयने पदयाप्रमाणेन पृथक चतुर्दश चतुरस्राणि संसाध्य तानि नानाप्रमाणसमासविधिना एकी. कृत्य चतुर्दशकरणीकमेकं चतुरस्रं साधयेत् । ततः पद्याप्रमाणक्षेत्रं सप्तधा विभज्य तस्य त्रीन् भागान् समस्य = चतुरस्रं कृत्वा तत्सप्तमभागत्रयसाधितं चतुरस्त्रं चतुर्दशकरणोके चतुरस्त्रे नानाप्रमाणसमासविधिनाऽऽवपेत् । तदावापे कृते यावच्चतुरस्रं जायते सैकशतविधे पदयाभिर्दक्षिणोत्तरं पूर्वापरं वा पङ्क्तिस्थाShree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #56
--------------------------------------------------------------------------
________________
कं. ६] वेदिष्टकावर्द्धनप्रकरणम् ।
४५ एवमेकशतविधे प्रक्रमप्रमाण मुक्त्वा द्वितीये चयने प्रक्रमप्रमाण माहद्वितीये वा सप्तषु प्रक्रमेषु प्रक्रममवधाय तस्य सप्तम
भागेन प्रक्रमार्थः ॥ ३ ॥ द्वितीयेऽष्टविधेऽग्नौ सप्तसु प्रक्रमेषु प्रक्रमपरिमितकरण्या निर्मितेषु सप्तसु समचतुरस्त्रेषु एकं प्रक्रमम् = एकप्रकमक्षेत्रफल मवधाय प्रक्षिप्य समस्य समचतुरस्त्रीकृत्य तारशस्य प्रक्र. मस्य सप्तमभागेन प्रक्रमार्थः कार्यः। अर्थात् तस्य समचतुरस्त्रस्य सप्तमभागेन सप्तमांशेन अतिदीर्घचतुरस्रेण यत्समचतुरस्त्रं स प्रक्रमः । अर्थात् तस्य क्षेत्रस्य करणीरज्जुद्धितीयेऽष्टविधेऽग्नौ प्रक्रमो बोध्यः (२) । तेनेदं फलितम् । आद्येऽग्नी यस्त्रिपदः प्रक्रमः, तत्र तस्यैव प्रकमस्य सप्तमांशवर्द्धनेन द्वितीयस्याग्नेः प्रक्रमः । एवं द्विगुणितप्रक्रमसप्तमांशवर्द्धनेन नवविधेऽग्नौ प्रक्रमः । एवं व्यादिगुणितसप्तमांशवर्द्धनेनैव दशविधाद्यग्नो प्रक्रमो बोध्य इति (२) ॥ ३ ॥
एवं द्वितीये चयने प्रक्रमवर्द्धनमुकत्वा पुनरपि तदर्थ प्रकारान्तरमाह
प्रक्रमेण वा ससप्तमभागेन प्रक्रमार्थः ॥४॥ पिताभिरेकः पुरुषः। एवंविधेन पुरुषेण द्विपुरुषां रज्जु मित्वेत्यादिकल्पोक्त विधिनाऽऽत्मपक्षपुच्छादिकं साध्यम् । एवं विधाभिस्तिसृभिः पदयाभिः पूर्वापरस्था पिताभिरेकः प्रक्रम इति।
(१) महीधरः । “अयमर्थः-त्रिपदप्रक्रमक्षेत्रं सप्तधा विभज्य स्वसप्तभागं चतुरस्रोकृत्य प्रक्रमक्षेत्रे आवपेत् नानाप्रमाणसमासविधिना । ततः सप्तमांशाधिकप्रक्रमक्षेत्रकरण्या द्वितीयचयने प्रक्रमकार्य कर्तव्यम् । नवविधे तृतीये चयने प्रक्रमक्षेत्रस्य द्वौ सप्तमभागौ प्रक्रमक्षेत्रमध्ये प्रक्षेप्यो, चतुर्थे त्रयः, पञ्च मे चत्वारः, षष्ठे पञ्च, सप्तमे षट् , अष्टमे चयने प्रक्रमक्षेत्रद्विकरण्या समचतुरस्रं कृत्वा तस्य सप्तमो भागःप्रक्रमक्षेत्रमध्ये आवपनीयः। चतुर्थे द्विकरण्या साधितस्य सप्तमो भागः, पञ्चमे चतुःकरण्या साधितस्य सप्तमो भागः, षष्ठे पञ्च करण्या साधितस्य सप्तमो भागः, सप्तमे षष्ठकरण्या साधितस्य सप्तमो भाग इत्यादि।
(२) अयमर्थः-त्रिपदप्रक्रमप्रमाणानि सप्त समचतुरस्राणि समस्यैकं समचतुरस्रं कृत्वा तत्र त्रिपदप्रक्रमचतुरस्रनावपेत् । ततस्तस्य वर्द्धितक्षेत्रस्य यः सप्तमो भागः, तं समचतुरस्रीकृय तत्करण्या प्रक्रमकार्य द्वितीये चपने विधेयम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #57
--------------------------------------------------------------------------
________________
सवृत्ति - कात्यायन -शुल्बसूत्रे -
[ कं. ६
यद्वा सप्तमभागसहितेन प्रक्रमेण प्रेक्रमकार्यं द्वितीये चयने कार्यम् ॥ ४ ॥
४६
एवमेवैकशतविधात् ||५ ॥
यथाऽष्टविधे द्वितोयचयने एकसप्तमांशवृद्धिरुका । पवम् श्रा एकशतविधात् नवविधादेकशतविधचयनपर्यन्तं द्विज्वादयो ऽभ्य स्तसप्तमांशाः प्रक्रमक्षेत्रे वर्धनोयाः ॥ ५ ॥
अन्तःपात्य-गार्हपत्ययोर्वृद्धिं प्रतिषेधति– नान्तः पात्यगार्हपत्ययोर्वृद्धिर्भवति तावदेव योनिर्भवति न व जातं गर्भ योनिरनुवर्द्धत इतिश्रुतेर्वृद्धेरत्यन्तप्रतिषेधः ॥६॥
·
श्रन्तः पात्य गार्हपत्ययोर्वृद्धिर्न भवति । उख्याग्निस्थाने कृता व्याममात्रविस्तारा मण्डलाकारा गार्हपत्यचितिर्गार्हपत्यशब्देनोच्यते । तस्मात्पूर्वभागे वेद्यन्तपर्यन्तं प्रक्रमत्रयपरिमितो भूभागोऽन्तः पात्य शब्देनोच्यते । अत्र चयने प्रक्रमस्त्रिपदः । तयोर्द्वितीयादिचयनेषु श्रग्निक्षेत्र वेदीष्टकावत् वृद्धिः प्राप्ता सा निषिध्यते । कुतः ? तावदेव योनिर्भवति । अन्तः गत्य सहिता गार्हपत्यचितिः श्रुतावग्नेर्यो नित्वेनोक्ता | तावत्क्षेत्रं योनिर्भवति । भवतु योनिस्तथापि वृद्धिः कथं वार्यत इत्याहन वैजातमिति । जातं गर्भमनु = गर्भोत्पत्तेः पश्चात् योनिर्न वर्द्धते । यावद्योनौ गर्भः स्थितस्तावद् गर्भवृद्ध्यनुसारेण योनिर्वर्द्धते । गर्भोस्पत्यनन्तरं गर्भ एव वर्द्धते न योनिः इति श्रुत्या उक्तत्वात् अन्तः पात्य - गार्हपत्य चित्योरत्यन्तं वृद्धिप्रतिषेधः ॥ ६ ॥
द्वित्रादिपरार्द्धपर्यन्तानां
तुल्यप्रमाणानां समचतुरस्त्राणां द्विकरण्याद्युपायेन समासविधिरुक्तस्तस्य दुष्करत्वात्सुगमोपायेन करणीमाह
यावत्प्रमाणानि समचतुरस्राण्येकी कर्तुं चिकीर्षे दे कोनानि तानि भवन्ति तिर्यग द्विगुणान्येकत एकाधिकानि व्यस्त्रिर्भवति तस्येषुस्तत्करोति ॥ ७ ॥
यावत्प्रमाणानि यावत्सङ्ख्याकानि समचतुरस्राणि समानानि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #58
--------------------------------------------------------------------------
________________
कं. ६] वेदिष्टकावर्द्धनप्रकरणम् । चतुरस्राणि = एकीकर्तुमिष्टानि एकोनानि एकरहितसंख्याकानि, तानि द्विगुणानि कृत्वा एकपङ्क्तौ तथा स्थापयेत् यथा सर्वेषामाधाररेखा एकरेखायां स्युः। ततस्तां सर्वाधारयोगरूपरेखां तिर्यमानी कुर्यात् । एवं एकाधिकानामिष्टसंख्याकचतुर्भुजानां च एकपङ्क्तौ स्थापनेन या योगरूपाऽऽधाररेखा तत्प्रमाणौ भुजौ कुर्यात् । एवमाभ्यां भुजाभ्यां तस्यां तिर्यमानीरूपाधाररेखायां यत् त्र्यस्त्रिक्षेत्रं भवति तस्य इषुः भुजद्वययोगजातशीर्षकोणबिन्दोः प्राधारार्द्ध यावत् लम्बसूत्रस्याद्धं, सा करणी भवति, तया करण्या कृतं समचतुत्रमभी. ष्टचतुरस्राणि समस्यति ।
अत्र आधाराग्रबिन्दुद्वयलम्बाद्धबिन्दुगतवृत्ते विहिते आधारो ज्यारूपः, लम्बाध तु शररूपम् , इत्यतो लम्बार्धस्य इषुत्वमन्वर्थकमिति ध्येयम् ॥ ७ ॥
यूपैकादशिन्यां वेदिवर्धनं वक्तुं प्रतिजानीते___ यथायूपं वेदिवधनमित्येतदक्ष्यामः ॥८॥
“यथायूपं वेदिवर्धनम्" ( E२१ ) इति यत्कल्पकारेणोक्तं तद्वक्ष्यामः वेदिवर्धनविधिं कथयामः । "यूपैकादशिनी चेद्रथाक्ष मात्राण्यन्तराणि, पूर्वार्ध वा समं विभज्य" (८७) इति एकादशयूपानां स्थानान्युक्त्वोक्तं 'यथायूपं वेदिवर्द्धनम्' इति । यथायूपशब्देन वेदेः पूर्वभागे द्वादशाङ्गुलवृत्तरूपमेकादशयूपानां स्थौल्यमुच्यते। "चतुःशतमक्षः" (२३) इति शुल्बकृता उक्तत्वात् चतुरधिकशताङ्गलप्रमितानि रथाक्षमात्राणि । दश यूपान्तरालानि च यथा भवन्ति तथा वेदिः कर्त्तव्या । वेदिवर्धनं विना "अन्तर्वेदि मिनोति" (का. श्री. २८) इत्ययमर्थोऽन्यथा कृतः स्यात् , कतिपय यूपानां वेद्यसंस्पर्शात् (१) ॥ ८ ॥
(१) अयं भावः ज्योतिष्टोमे कल्पकारेण एकः पशुः, ऐकादश वा पशवो विहिताः । एकादशपशुपक्षेऽपि एकस्मिन्यूपे एकादशानां पशूनां नियोजनम्, एकादशसु यूपेषु वेति पक्षद्वयमुक्तम् । तत्र यूपैकादशिनीपक्षे वेदेः पूर्वभागं चतुर्विंशत्यरनिमितमेकादशधा समं विभज्य तत्रैकादश यूपालिखनेदित्येकः पक्षः। प्रतियूपं रथाक्षमानानि चतुरधिकशताङ्गलमितानि दशसङ्ख्याकानि यपा. भतरालानि कृत्वा तत्र एकादश यूपानिखनेदिति द्वितीयः पक्षः। तत्र पूर्वार्द्धसमविभागपक्षे वेदिवृद्धिर्न भवति । Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #59
--------------------------------------------------------------------------
________________
सवृत्ति - कात्यायन-शुल्बसूत्रे -
[ कं. ६
9
वेदिवर्द्धनं प्रतिज्ञातं तच्च प्रक्रमसाध्यम् । श्रतो यूपैकादशिन्यां यूपानां रथाक्षमात्रान्तरालपक्षे वेदिसाधनार्थ प्रक्रमप्रमाण
माह
४८
या रज्जुरेकादशोपरवान्त्संक्षिपति दश च रथाचांस्तस्या यश्चतुर्वि०शो भागः स प्रक्रमः ॥ ६ ॥
या रज्जुरेकादश संख्याकानु परवान् = यूपगर्तान द्वादशाङ्गुलप्रमाणान्, तथा दश रथाक्षान् = चतुरधिकशताङ्गुलप्रमितानि दशसंख्याकानि यूपान्तरालानि च संक्षिपति = मिनोति एतावदायता रज्जुः पञ्चविंशत्यङ्गुलाधिकाऽष्टाचत्वारिंशदरनिमिता भवति । तस्या यश्चतुर्विंशो भागः तृतीयभागसहित मेकमर्द्धाङ्गुलं द्वावरत्नी, स प्रक्रमः = यूपैकादशिन्यामेतावत् प्रक्रमप्रमाणमित्यर्थः ॥ ६ ॥
तेन वेदिमानं कुर्यादित्याह -
तेन वेदिं निर्माय द्वादशाङ्गुलं पुरस्तादपच्छिद्य तद्यूपाव ट्याच्छृङ्कोः पुरस्तात्प्राञ्चमवधाय तस्मिन्यूपा - न्मिनोति ॥ १० ॥
=
तेन वर्द्धितप्रमाणेन पूर्वोकेन प्रक्रमेण वेदिं निर्माय " बत्रिंशत्प्रक्रमा प्राची" (का.श्रौ. ८ (३८) इत्यादिविधिना विरच्य पुरस्ताद् = वेदेः पूर्वभागे द्वादशाङ्गुलं = द्वादशाङ्गुलप्रमाणविस्तारमपच्छिद्य = अर्थात् वेदिपूर्वभागेशानकोणादारभ्याग्नेय कोणपर्यन्तं द्वादशाङ्गुविस्तारं द्वासप्तत्यधिकैकादशशताङ्गल मितदीर्घमतिदीर्घचतुरस्ररूपं दक्षिणोत्तरायतं वेदिक्षेत्रं छित्वा तं छिन्नं भागं यूपावट्यात् = यूपावडे गर्ते भवो यूपावट्यः, तस्मात् शङ्कोः प्राञ्चं = पूर्वापरायतमवधाय = संयोज्य तस्मिन् छिन्ने = पूर्वापरतया संयोजिते वेदिभागे रथाक्षमात्रान्तरालान् गर्तान् खात्वा तेषु प्राक्संस्थान् यूपान् मिनोति । एवं कृते एकादशापि यूपा वेद्यन्तरे निवेशिताः स्युः, प्राची च यूपपतिः कृता भवति इति पूर्वपक्षः ॥ १० ॥
सिद्धान्तमाह
=
पार्श्वयोर्वाऽर्द्धमन्तर्वेदीति श्रुतेरर्धकान् ॥ ११ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #60
--------------------------------------------------------------------------
________________
कं.७] वेदीष्टकावर्द्धनप्रकरणम् ।
वाशब्दः पूर्वपक्षं व्यावर्तयति । पार्श्वयोः = यूपावट्यशङ्कोर्दक्षिणोत्तरपार्श्वयोरर्धकान् = अर्धार्धान् पञ्च पञ्च यूपान् मिनुयात् , न पूर्वभागे । पार्श्वयोरर्धकानित्युक्ते मध्यमे यूपावटे प्रथमोऽर्थात्सिद्धः। एवमेकादश यूपान् दक्षिणोत्तरपङ्क्त्या मिनुयात् । एवं च पूर्वोक्तो वेद्यपच्छेदो न कार्यः । कुतः? अर्धमन्तर्वेदीति श्रुतेः। यूपस्यार्द्धमन्त. वैदि, अर्द्ध बहिर्वेदि भवति इति शाखान्तरश्रुतेः । यूपगों द्वादशाङ्गुलवृत्तः । स च गर्तोऽर्द्ध वेद्यां निखातव्योऽर्द्ध बहिः। एवं कृते वेदि. वर्द्धनं सार्थकं भवति, एकादश यूपानां वेदिस्पर्शश्च स्यात् । पूर्वपक्ष. सूत्रे कथिता प्राची यूपपङ्क्तिस्तु तीव्रसुति यागे भवति (१) ॥ ११ ॥ मतान्तरमाह
एके प्रथमो प्रकृतिवत् ॥ १२ ॥ एके प्राचार्याः प्रथमोत्तमौ = आद्यन्तो यूपौ प्रकृतिवत् = वेदिगता? कार्यो, नव अन्ये बहिर्वेदि कार्या इतोछन्ति । अतो विकल्पः ॥ १२॥ वर्द्धितावर्धितयूपैकादशिन्या वेदे मधेयमाह
सैषा शिखण्डिनी वेदिर्भवति ॥ १३ ॥ सा एषा यूपैकादशिनोयुक्ता वेदिर्वद्धिताऽप्यवर्द्धिताऽपि शिखरिडनीत्युच्यते ॥ १३ ॥
इति वेदीष्टकावृद्धिनिरूपणी षष्ठी कण्डिका ॥ ६ ॥
भवन्ति चात्र श्लोकाः ॥१॥ अत्र सूत्रोक्तेऽर्थे श्लोका अपि केचन सन्ति शुल्बकार कृता एव ॥१॥ ते यथादिहस्ते लक्षणं कुर्यात्रिहस्तो मध्यमः शिरः ॥ शिरः पश्चाद्वितस्तिः स्यात्पूर्वार्धे हस्त एव च । सार्धहस्ते च पाशः स्यादेदिः स्यात्पौर्णमासिकी ॥२॥
(१) अस्ति तीव्रसुदभिधानः कश्चिद्यागः । तत्र यूपैकादशिनीपक्षं यागान्तर वदक्षिणोतरा यूपपङ्क्तिर्न भवति, किन्तु पूर्वापरायता भवति । तथाऽग्निष्ट एवान्तवेद्यर्द्धगतो भवति । अन्ये तु बहिर्वेदिगता वचनाद्भवन्ति । अतश्च तदर्थमपि वेद्यपच्छेदो न कार्य इति रामचन्द्रवाजपेयिप्रभृतयः।
५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #61
--------------------------------------------------------------------------
________________
५०
सवृत्ति-कात्यायन-शुल्बसूत्रे
[कं. ७ संख्याज्ञः परिमाणज्ञः समसूत्रनिरञ्छकः । समभूमौ भवेद्विद्वान् शुल्बवित् परिपृच्छकः ॥ ३ ॥
संख्याप्रतिपादकं गणितशास्त्र, तज्ज्ञः। परिमाणं मानविधिः, तज्ज्ञः। समसूत्रेणाकर्षणकर्ता । परिपृच्छकः शिल्पादीनाम् ॥३॥ न जलात्सममन्यत् स्यान्नान्यद्वृत्तात्प्रमा भवेत्। नान्यद् दूरं भ्रमादूध्वं नान्यत्सूत्रादृजुभवेत् ॥ ४॥
शतयोजनस्थमप्यभ्रान्तानां न दूरम् । यथा भ्रान्तिगोचरीकृ तमासन्नमपि दूरम् ॥४॥ तिर्यमान्याश्च सर्वाथैः पार्श्वमान्याश्च योगवित् । करणीनां विभागज्ञो नित्योयुक्तश्च कर्मसु ।।५॥
सर्वार्थः = सर्वप्रयोजने करणीनां करणीतत्करण्यदणयादी. नाम् ॥५॥
शास्त्रबुद्ध्या विभागज्ञः परशास्त्रकुतूहलः । शिल्पिभ्य स्थपतिभ्यश्चाप्याददीत मती: सदा ॥ ६॥ षडङ्गुलपरीणाहं द्वादशाङ्गुलमुच्छितम् । जरठं चावणं चैव शङ्ख कुर्याद्विचक्षणः ॥७॥ द्विवितस्तिप्रमाणस्तु खादिरो मुद्गरस्तथा । शङ्कस्तेन निखातव्यस्तस्मात्तस्य परिग्रहः ॥८॥
'षडङ्गुलद्वादशाङ्गुलयोर्विकल्पोऽल्पबृहत्क्षेत्रसाधनव्यवस्थितः । परिणाहोऽधःशिरा, विस्तारो वा । जरठं दृढम् ॥ll एकतक्ष ऋजुस्तीक्ष्णः खादिरः सम अायतः । शङ्कः कार्यस्तु शुन्बस्तिस्यार्धं गमयेन्महीम् ॥ ६ ॥
एकत एव तक्षणेन सूक्ष्मीकरणार्थं तनूकृतः । खादिर इति सार. काटोपलक्षणार्थम् । अर्धमिति दृढ़स्थितियोग्यतोपलक्षणार्थम् ॥६॥ प्रादेशमात्रो हविर्यज्ञे पूर्वलक्षणलक्षितः । शङ्करामशिराः कार्यस्तस्याप्यधं निखापयेत् ॥१०॥
श्रामशिरा आशिराः ॥१०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #62
--------------------------------------------------------------------------
________________
कं.७]
श्लोकशुल्बम् । चतुरस्त्रं मुद्गरं तत् षोडशाङ्गुलमायतम् । अविद्धं क्रमणीयं च दारुमध्याच निर्मितम् ॥११॥
अविद्ध काष्टान्तरेणाप्रोतम् । क्रमणीयं शङ्कुहननरूपक्रमणाहम् ॥११॥
अजीर्णा ग्रथिनीसूक्ष्मासमा श्लक्षणा त्वरोमशा। रज्जुर्मानाधिका कार्या अध्वरे योगमिच्छता ॥१२॥ शाणी वा बाल्पजी चैव वैणवी वा विधीयते । रज्जुस्तूभयतःपाशा त्रिवृता यज्ञकर्मणि ॥१३॥ रज्जुर्मुञ्जमयी कार्या शणैस्तु परिमिश्रिता । कात्यायनो वदत्येवमखोडा कुशवत्वजैः ॥१४॥
अखोडा = अखण्डा ॥१४॥ नवके लक्षणं कुर्यात् त्रीणि कुर्यात्रिषु त्रिषु । उत्तमो नवकः पाशः सदसो मानमुच्यते ॥१॥
प्रथमं नवारनिषु चिन्हं श्रोणिमानार्थम्, ततस्यरनिषु श्रोणिभागे निरञ्छनार्थम् , पुनस्यरनिष्वंसनिरञ्छनार्थम्, ततोऽपि । ध्यरनिष्वंसार्थम्, ततो नवसु पाश एव ॥१५॥ पञ्चदशमेकविंशं त्रिकमपरं च परतस्त्रिकं चापि । द्वादशसुपाश उत्तम इति सोमे रज्जुमानमिति ॥१६॥
पञ्चदशसु श्रोणिनिरञ्छनार्थं चिन्हम् , ततश्चिन्हादेकविंशति प्रक्रमेष्वायमनार्थं संख्यासमासभङ्गचिन्हम्, ततस्त्रिषु प्रक्रमेषु निरञ्छनचिन्हम् , ततोऽपि त्रिष्वंससमानयनाथं चिन्हम् , (चतुर्विशतिप्रक्रमा हि प्राची) ततो द्वादशसु पाश एवेति चतुष्पञ्चाशत्प्रक्रमा रज्जुः प्रमाणाद्धं वाऽभ्यस्येति कथिता ॥१५॥ पदस्थापणया, तिरश्ची याऽनयोरपणया भवेत्।। सौत्रामण्यांनिमातव्या वेदिः स्यात्सोमवत्तया ॥१७॥
पदक्षेत्रस्यादणया पार्श्वमानी, तिरश्ची - तिर्यजमानी, तयोरक्ष्ण या तृतीयकरणी सौत्रामण्यां प्रक्रम इत्यर्थः। एवं च परिशिष्टShree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #63
--------------------------------------------------------------------------
________________
५२
सवृत्ति - कात्यायन शुल्बसूत्रे -
कं. ७
कृतोऽपि त्रिपदप्रक्रमतृतीयांश एव सौत्रामण्यां प्रक्रमक्षेत्र मिष्टमिति गम्यते । केचितु "सोमे तु द्विपदो भवेत्” इति यः परिशिष्टे द्विपदः सौमिकः प्रक्रम उक्तः, तत्तृतीयभागसंक्षेपिकां तृतीयकरणीमाहुः, तन्न । पदस्याक्ष्णयेत्यादिपरिशिष्टवाक्यान्तरविरोधापातात् । तेन चयनवेदिरपि सोमवेदिरेव । अग्निः सोमाङ्गमित्युक्तत्वात् । तत्र यः प्रक्रमस्त्रिपदस्तस्य तृतीयभागसंक्षेपिका या करणी सैव सौत्रामण्यां प्रक्रमः । चयनानन्तरं च तदङ्गत्वेनापि श्रतौ सौत्रामणी पठितेति सैव वेदिः प्रस्तुता । द्विपदप्रक्रमस्त्वनग्निकसोमवेदेर्विषय इति ||१७|| घनैर्वापि ज्योतिषामभ्रदर्शने । दर्शनम् ॥ १८ ॥
नीहारेण
अप्सु दीपं प्रगृह्णीयाद्यावत्तमसि प्रमाणं च प्रमेयं च यच्चान्यद्वस्तुसंज्ञकम् । सर्व तच्छास्त्रतो ज्ञात्वा यज्ञे सिध्यन्ति याज्ञिकाः ॥ १६ ॥ यथा न दीयते मानं यथा च न विवर्धते । यथा च रमते दृष्टिस्तथा योगं समाचरेत् ||२०|| अरनिश्चतुरस्रश्च पूर्वस्याग्नेः खरो भवेत् । रथचक्राकृतिः पञ्चाच्चन्द्रार्ध इव दक्षिणः || २१ ॥ अग्नीनां तु खरः कार्यो मेखलात्रयसंयुतः । द्वादशाङ्गुल उच्छ्राये विस्तारे चतुरङ्गुलः ||२२|| तन्तुः पुष्करनालस्य षड्गुणः परिवेष्टितः । ● वत्सतर्पास्त्रिहायण्या बालेन सदृशो भवेत् ॥ २३ ॥ त्रयस्त्रिहायसीबाला: सर्षपार्धं प्रचक्षते । द्विगुणं सर्षपं विद्याद्यवः पञ्च तु सर्षपाः ॥२४॥ अगुलस्य प्रमाणं तु षड्यवाः पाश्वसंस्थिताः । चतुर्विंशाङ्गुलोऽर निर्वितस्तिर्द्वादशाङ्गुलः ॥२५॥ व्यामस्पात्र प्रमाणं तु चतुर्यूनं शताङ्गुलम् | पुरुषस्य प्रमाणं तु विंशतिस्तु शताधिका || २६ || विंशतिशताङ्गुलः पुरुषः, तत्पञ्चमोऽशोऽरलिः, चतुररनिर्व्यामः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #64
--------------------------------------------------------------------------
________________
कं. ७ ]
लोकशुल्वम् ।
५३
अरति चतुर्विंशो भागोऽङ्गुलम्, अरम्यर्थो वितस्तिः अङ्गुलस्य षष्ठोऽशो यवोदर विस्तारः, तस्य पञ्चमोऽशः सर्षपः तस्यार्द्ध सर्षपार्द्धम्, तस्य तृतीयोऽशस्त्रिहायणी बालः, तस्य षष्ठोऽशः पुष्करतन्तुरिति सङ्गिप्तोऽर्थः ॥ २६ ॥
हिरण्यशकलार्थे तु हिरण्यं यस्य नोच्यते । कृष्णलेनैव तयाख्या यज्ञे सिद्ध्यति याज्ञिकी ॥ २७॥ कृष्णलं त्रियवं मानं ताम्रायसमतः परम् । सुवर्णमाषाणां सुवर्णाश्च त्रिसप्ततिः ॥ २८ ॥ त्रीणि चैव सहस्राणि दद्याद् बहुसुवर्णके । भूयः स्थपतितो ज्ञात्वा संज्ञास्वन्यासु मानवित् । स्वर्णकारो यथाऽभ्यासात्तथा भूयो विवर्धते ॥ २६ ॥ हसते शोषपाकाभ्यां द्वात्रिंशद्भागमिष्टका तस्मादार्द्रप्रमाणं तु कुर्यान्मानाधिकं बुधः ॥ ३० ॥ अज्ञात्वा शुल्वसद्भावं यज्ञे सौत्रामणीसुते । वेदिं येकर्तुमिच्छन्ति गिरिं भिन्दन्ति ते नखैः ॥३१॥ दण्डरज्ज्वर्द्धमभ्यस्य षष्ठे त्वर्धस्य लक्षणम् । तथैव चेतरत्रापि चेतरत्रापि तिर्यङ्मानं यदृच्छया ॥ ३२॥ यावत्प्रमाणा रज्जुः स्यात्तावानेवागमो भवेत् । श्रागमार्द्धे भवेच्छङ्कुस्तदर्द्धे च निरञ्छनम् ॥ ३३॥
i
श्रागमोऽभ्या सभागः, श्रागमार्द्ध शङ्कुः श्रोण्यं सार्थः, श्रन्तरर्द्ध संख्यासमासभङ्गागमार्द्धचिह्नयोरन्तराले निरनचिह्नम् ॥ ३३ ॥
आधाने पदिकं कुर्याद् द्विपदः सौमिको भवेत् । अग्नौ च त्रिपदं कुर्यात् प्रक्रमं याज्ञिको बुधः ||३४|| कृत्तिका श्रवणः पुष्यश्चित्रास्वात्योर्यदन्तरम् । एतत्प्राच्या दिशो रूपं युगमात्रोदिते पुरः ||३५|| बडशीत्यङ्गुलं युममात्रं यदोदितं कृत्तिकादिनक्षत्रमाकाशमारोहति, तदा तदुपलक्षिता प्राची ज्ञेया ॥ ३५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #65
--------------------------------------------------------------------------
________________
५४
सवृत्ति-कान्यायन-शुल्बसूत्रे
[कं. ७ पञ्चाशच्छर्कराः पश्चात्पूर्वे देवास्त्रिसप्ततिः।। दक्षिणे तु प्रदातव्या दश पञ्च च सप्त च ॥३६॥ शंस्यश्चतुर्विंशतिपार्श्वभागश्चतुर्दशैराविलिखेत्तु नर्यम् । तथैव चाष्टद्विगुणैरथर्यस्त्रिंशद्भिरायम्य हरेत्तृतीयम् ॥३७॥ अग्नेरुदक् सार्द्धनवाङ्गुले मध्यं ततो लिखेत् । वृत्तमेकोनविंशत्या प्राची ज्या मध्यगा भवेत् । उदगई विहायार्वाक् खरोऽग्नेर्दक्षिणस्य तु ॥३८॥
दक्षिणाग्निस्थानादुत्तरतः सार्द्धषु नवाङ्गुलेषु मध्यं प्रकल्प्य तत एकोनविंशत्यङलमितव्यासार्द्धन वृत्तं कृत्वा तन्मध्ये प्राची रेखारूपा कार्या, तया वृत्तं द्विधा विभतं भवति, तत उत्तरभागमपहाय दक्षिणभागेऽरनिमितो दक्षिणाग्निखरो विधेयः ॥३८॥ सूत्रदोषदरिद्रस्य गूढमन्त्रस्य धीमतः। समातेयं क्रिया शोल्बी कात्यायनमहात्मनः॥३६॥
सूत्रस्य ग्रन्थविशेषस्य दोषा असामञ्जस्यादयः, तैर्दरिद्रस्य रहितस्य, गूढत्वेन स्वं प्रभावमाख्यापयतो धीमतः शोल्बी क्षेत्रमानसम्बर्द्धिनी । शुल्व माने । शुल्बनं शुल्बः। तस्येदमित्यण । टिड्डेति ङीप् ॥३६॥
इति कातीयशुल्बसूत्रवृत्तौ सप्तमी कण्डिका ॥ ७ ॥ इति श्रीमन्महामहोपाध्यायाहिताग्नि पं० श्री १०६ प्रभुदत्तशर्मसुत-श्रीविद्याधरशर्मकृता कात्यायनकृतशुल्बसूत्रवृत्तिः समाप्ता ।
शमिति ।
FOUNDATION
TITIEHAMIRPram
PANENTER
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #66
--------------------------------------------------------------------------
________________
कातीयशुल्बसूत्राणामकारादिक्रमेण सूचीपत्रम् ।
सूत्रा०
६१२
१११९
४८
१९
६५ ३।११.
७/१२
२७ २।१६ २।१२ ७३५ ७।२८.
१।२९
११२७.
पृष्ठाङ्काः
. सूत्रा० पृष्ठाङ्काः
४९ एके प्रथमोत्तमौ० १३ अक्षणया तिर्यमानी शेषः १११३ ८ एतेन०
१।१५ ३५ एतेनैव. ५२ अग्नीनां तु खरः का० ७।२२ ५ एवमुत्तरतः ५४ अग्नेरुदक्०
७।३८ ४६ एवमेवैक० ५२ अङ्गुलस्य०
७।२५ २९ एष निसि० १३ अङ्गलैरथ० ५१ अजीर्णा
५१११२ १४ करणी तत्करणी. ५२ अज्ञात्वा शु.
७१३१ १८ करणीतृतीयं० २३. अतिदीर्घ चेत्. ३३ १७ करणीं तृतीयेन. ४१ अथ त्रिपुरुषां० ५६१२ ५३ कृत्तिका श्रवणः पु० ९. अपरिमितं.
११२३ ५३ कृष्णलं त्रियवं० १२ अपि वाऽन्तर० ५२ अरनिश्चतु. ७।२१ ११ गार्हपत्याहवनीययो. २८ अर्धप्रमाणेन.
३८ प्रा
२९ चतुरस्त्रं. ३७ आद्योऽग्निदि०
४।१० ५१ चतुरस्रं मु० ५३ आधाने पदिकं० ७॥३४ २० चतुरस्त्राच्चतु०
२९ चतुर्थेन षोड. १० इतरस्य.
२६॥ १३ चतुःशतमक्षः
१३ चत्वारोऽष्टकाः ३६ उत्तरेषु० १५ उपदिष्टं युग०
२९ १३ तत्राष्टाशीति० ३४ उभयतः प्रउगं०
१७ ९ तत्रोदीची. ३३ उभयतः प्रउगे.
१५ ३ तदन्तरर्ट रज्वा०
३१ तद्दशमेना. ३६ एककर्णानां
४॥१० ५२ तन्तुः पुष्कर ५० एकतक्ष०
७९ ३९ तस्य दशमेन ३७ एकविठश०
४४११ ५० तिर्यङमान्याश्च०
३।१३ ७।११
३॥
३१.
२५
१९
२।२
११२१ १३
४॥३
७२३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #67
--------------------------------------------------------------------------
________________
[
२ ]
१९ तुल्यप्रमाणाना. २।१९ ३२ पुरुष वा०
४.१५ १८ तृतीयकर० २।१५ ४० तुरुषं वा स०
५1१० २८ तृतीयेन ३९ ३७ पुरुषाभ्यासे.
४।२२ ४८ तेन वेदि निर्माय० ६।१० १४ पैतृक्यां०
२६ ५२ त्रयस्त्रिहायणी ७।२४ ३३ प्रउगं चतु०
४६ १९ त्रिकरणी २।२० ३२ प्रउगे.
४|४ ५३ त्रीणि चैव० ७१२९ ४५ प्रक्रमेण वा०
५४ ६ प्रमाणमभ्यस्य.
१।१२ ५२ दण्डरज्ज्वर्द्ध ७।३२ १८ प्रमाणवि०
२०१५ १६ दीर्घचतुरस्र० ३।२ २७ प्रमाणं चतु.
३१५ २२ दीर्घचतुरस्रठ० स० ३३ ५२ प्रमाणं च प्र० ३० द्रोणचिथ०
४।३ १७ प्रमाणं तिर्यद्वि० २०१३ ३. द्रोणे यावानग्निः सप० ४॥२ ६ प्रमाणाई वा.
१११४ ४५ द्वितीयेवा ५.३ ७ प्रमाणाः
१1१६ ५५ द्विपदा तिर्यमानो. २२१ १० प्रमाणे
१.२४ ५० द्विवितस्ति० ७८ ६ प्राच्यन्तयोःश.
१६ २८ द्विप्रमाणा. ३६ ५० प्रादेशमात्रो०
६९ ४९ द्विहस्ते
४९ भवन्ति चात्र.
७१३ ५० न जलात्सम
७४ १९ नव भागास्त्रय.
२०१७
३० मण्डलं चतुरस्र० ३।१४ ५. नवके लक्षणं.
७.१५ ३२ मण्डलेऽप्येवम्
४३ २० नानाप्रमाण
२।२ ४६ नान्तःपात्य० ४१ नारनिवितस्तीनां ११९ १२ यथाग्नि वेदी
६१ ५२ नीहारेण. ७।१८ ५२ यथा न क्षीयते.
७१२०
४७ यथायूपं० ५१ पञ्चदशमेक० ७५ ४२ या करणी०
હાર ४० पञ्चदशभा० ५८ ४८ या रजरे०
५४९ .४० पञ्चारविः ५।९ २८ यावत्प्रमाणा
२७ ५४ पञ्चाशच्छकराः ७।३६ २९ यावत्प्रमाणा.
३।१२ १५ पदं तिर्यमानी
२८ ४६ यावत्प्रमाणानि० ५. पदस्पाक्ष्णया०
७.१७ ५३ यावत्प्रमाणा रजः ४८ पार्श्वयो ६।११ १० योगश्च
१२५ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
७२
७३३३
Page #68
--------------------------------------------------------------------------
________________
[
३ ]
५१ रज्जुर्मुजमयी० १ रज्जुसमासं व० ३ रज्ज्वन्तयोः पा०
७॥१४ ५० षडङ्गलप० १॥ १३ षडशीतियुगम् १४
७७ २४
११
१२८
५ विपर्यस्ये० " विपर्यस्यो. १२ विपर्यस्योत्त. ५२ व्यामयात्र
११२२ ३५ २।१२ ११३
१11
१1१८
९ सदसश्चैवम्
२५ समचतुरस्र० १३०
१६ समचतुरस्रस्या० १२६
३८ समस्तं पञ्च. २ समे शङ्क ६ स समाधिः ५४ सूत्रदोष
४९ सैषा शिख. ३७
१९ सौत्राम० ७१३
५० संख्याज्ञः
५३ स्वर्णकारो० ७६ ११७ १५ ५३ हिरण्यशकल.
१८
८ शकटमुखस्य. ८ शङ्कोः पाशौ० ५४ शंस्यश्चतु० ५१ शाणी वा बाल्वजी० ८ शालामानं च ५० शास्त्रबुध्या ७ शास्त्रवदधैं ५ श्रोण्यठ०स०
७५३९ ६।१३ २।१९
७३
१०२०
६।२९
७२७
१७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #69
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #70
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat, www.umaragyanbhandar.com