SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३२ सवृत्ति-कात्यायन-शुल्बसूत्रेतत् एकसमासेन समस्य समचतुरस्रीकृत्य, एकीकृत्य, निर्हत्य = "अतिदीर्घ चेत्" इत्युक्तविधिना (३३) पृथक् कृत्वा, शिष्टं सर्वमग्निं तथाकृति = द्रोणाकारं कृत्वा निहतंदशमांशं पुरस्तात्पश्चाद्वोपदध्याद्योजयेत् । अवशिष्टं चतुरस्रभुजपार्श्वमानीकं स्वदशमांशोनचतुरस्रं तत् = पूर्वोक्तभुजप्रमाणतिर्यङ्मानीकं नवभागात्मकं क्षेत्र दीर्घचतुरस्राख्यं तथाकृति द्रोणाकृति समचतुरस्ररूपं कृत्वा तस्य समचतुरस्रस्य पुरस्तात्पश्चाद्वा वृन्तरूपं समचतुरस्रमुपदध्यात् योजयेत् मेलयेदिति यावत् ॥३॥ मण्डलेऽप्येवम् ॥४॥ मण्डले = मण्डलाकारायां रथचक्रचितौ कङ्कचितावपि वृत्तिाधानपक्षे = एवम् पूर्ववत् पक्षपुच्छसमासेन चतुरस्त्रं कृत्वा तद्दशमांशमपहृत्य चतुरस्त्रं पूर्वोक्तविधिना कृत्वा तमपि वृत्तं विधाय पुरस्ता. त्पश्चाद्वा योजयेत् । क्षेत्रदशमांशं वृन्तं "मण्डलं चतुरस्रं चिकीर्षन्" ( २०१४ ) इत्यादिना वृत्तं सम्पाद्य पुरस्तात्पश्चाद्वोपदध्यात् । पक्ष. पुच्छविशेषसहितस्यात्मनोऽपि मण्डलता “मण्डलं चतुरस्त्रं चिकीर्षन्" (३।१४) इत्यनेनैव सम्पादनीयेति ॥४॥ प्रऽउगचितिमाहप्रऽउगे यावानग्निः सपक्षपुच्छविशेषस्तावद् द्विगुणं समचतुरस्रं कृत्वा यः पुरस्तात्करणीमध्ये शङ्कयौं च श्रोण्योः सोऽग्निः ॥५॥ प्रउगसंज्ञके व्यस्त्रेऽग्निक्षेत्रे कर्तव्ये याव-प्रमाणकमग्निक्षेत्र पक्षपु. च्छविशेषसहितं, तत्प्रमाणकं समचतुरस्रं कृत्वा तद् द्विकरण्या द्विगुणितं कृत्वा समचतुरस्रं पुनर्विधाय तस्य द्विगुणरूपसमचतुरस्रक्षे. त्रस्य करणीमध्ये पुरस्ताद्यः शङ्कः, श्रोण्योश्च यौ शङ्क, तच्छङ्कत्रय. मुलेषु सूत्रं निपात्य यत् व्यस्रिक्षेत्र द्विगुणसमचतुरस्त्रार्धरूपं जायते सेयं प्रउगचितिः। अथाऽत्र अ. इ. उ, प्रउगक्षेत्रम् , यत्र क. तिर्यङमानोदलबिन्दुः, ततः अ. क, सूत्रप्रसारणेन अ. क. इ, अ. क. उ, इति यत्रिद्वयं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034615
Book TitleShulb Sutram
Original Sutra AuthorN/A
AuthorKatyayan Maharshi
PublisherAchyut Granthmala
Publication Year1929
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy