SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३१ कं. ४ ] चितिनिरूपणम् । नुक्ते शाखान्तरविहिते श्येनचित् अलजचिती अपि ऊो । श्येनाकारा चितिः श्येनचित् । अलजः पक्षी, तदाकारा चितिरलजचित् ॥१॥ एवमग्नीनुद्दिश्य क्रमेण तेषां क्षेत्रसमासं विवक्षुद्रोणचिदाकारसाधनमाह- . द्रोणे यावानग्निः सपक्षषुच्छ विशेषस्तावत्समचतुरस्त्रं कृत्वा द्रोणदशमो विभागो वृन्तमित्येके ॥२॥ पत्तौ च पुच्छं च विशेषश्च पक्षपुच्छविशेषाः (१) । तैः सहितः सपक्षपुच्छविशेषः । द्रोणे द्रोणाकारे चतुरस्रेऽग्निक्षेत्रे कर्तव्ये पक्ष-पुच्छ-विशेषसहितो यावानग्निः = यावदग्निस्थानं सार्द्धसप्तपुरु. षात्मकं, तत्प्रमाणकं चतुरस्त्रं कृत्वा तावत् नानाप्रमाणसमासविधिना समस्य, समसितस्य समचतुरस्रस्य द्रोणस्य दशमांशो वृन्तं वृन्ताकारं दण्डाकारं स्वल्पचतुरस्त्रं योजनीयमित्येके प्राचार्या अभिप्रयन्ति । एकग्रहणाद्विकल्पः ॥२॥ वृन्तकरणप्रकारं तद्योजनविधि चाहतद्दशमेनापच्छिद्यापच्छियैकसमासेन समस्य निहत्य सर्वमग्निं तथाकृतिं कृत्वा पुरस्तात्पश्चाद्वोपदध्यात् ॥३॥ तत् = पूर्वोक्तं सार्धसप्तपुरुषात्मकं पक्षपुच्छविशेषयुतं समचतुरस्रमग्निक्षेत्रं समचतुरनं कृत्वा तस्य समचतुरस्रक्षेत्रभुजस्य दशमेन = दशमांशेन तिर्यडयानी पार्श्वमानी च दशधा अपच्छुिद्यापच्छिद्य = विभज्य शतांशीकृत्य तत्र तिर्यमान्योः पार्श्वमान्यो प्रथमविभागान्तयो रज्जुप्रसारणेन चतुरस्रक्षेत्रभुजप्रमाणपार्श्व मानीकं तहशमांशतिर्यमानीकं यदतिदीर्घक्षेत्रं दशमांशरूपं जायते (१) चितिरिय सार्द्धसतपुरुषात्मिका, तत्र मध्ये द्विपुरुषायाम द्विपुरुषविस्तार चतुरस्त्रं स्थण्डिलं निर्माय तत्संलग्नमेव दक्षिणपश्चिमोत्तरेषु त्रिष्वपि एकैकपुरुषविस्तारं दक्षिणोत्तरपार्श्वयोः सारत्रिकैकैकपुरुषायाम, पश्चिमे च सवित. स्तिकपुरुषायाम स्थण्डिलत्रयं निर्मातव्यम् । स्थण्डिलमिदं प्राङ्मुखं मन्तव्यम् । तस्य दक्षिणोत्तरयोर्ये स्थण्डिले, तयोः क्रमादक्षिणोत्तरी पक्षौ इति संज्ञा। पश्चिमस्य च पुच्छमिति व्यवहारः, मध्यभागस्य चात्मेति। अस्या एव चितेः सुपर्णचितिरिति नाम। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034615
Book TitleShulb Sutram
Original Sutra AuthorN/A
AuthorKatyayan Maharshi
PublisherAchyut Granthmala
Publication Year1929
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy