SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कं. ४ ] चितिनिरूपणम् । ३३ जातम्, तत्र श्र. क. इ, त्र्यस्त्रि क्षेत्रस्य श्र. ग. उ, रूपेण स्थापनेन श्र. ग. उ. क, दीर्घचतुरस्त्रं प्रउगक्षेत्रसममिति स्पष्टमेवेति ॥ ५ ॥ अ A क 可 उभयतः प्रउगचितिमाह उभयतःप्रउगे तावदेव दीर्घचतुरस्रं कृत्वा करणीमध्येषु शङ्कवः स समाधिः ॥६॥ उभयतः उगेऽग्नौ कर्तव्ये यावानग्निः, तत्प्रमाणकं सपक्षपुच्छं चतुरस्त्रं कृत्वा अथ तत्प्रमाणकमेव समचतुरस्रं तत्र पुरस्ताद्वर्धयित्वा विस्तारद्विगुणं दीर्घचतुरस्रं निष्पाद्य ततस्तिर्यङमान्योः पार्श्वमान्योश्च मध्येषु चत्वारः शङ्कवो निखेयाः । तत्र सूत्रचतु के दत्ते : उभयतस्त्रिकोणा चितिर्भवति, स समाधिश्चितिप्रकारः || ६ || = प्रउगस्य चतुरस्त्रीकरणोपायमाह प्रउगं चतुरस्रं चिकीर्षन्मध्ये प्राञ्चमपच्छिद्य विपर्यस्येतरत उपधाय दीर्घचतुरस्रसमासेन समस्येत्स समाधिः ||७|| प्रउगं = त्रिकोणं चतुरस्र = समचरतुस्रं कर्तुमिष्यते चेत् तदा मध्ये प्राञ्चं = पूर्वभागमपच्छिद्य = विभज्य तिर्यङ्मानीं द्विधा कृत्वा ततः पूर्वत्रिकोणाग्रं यावत् सूत्रप्रसारणेन त्रिकोणद्वयं ३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034615
Book TitleShulb Sutram
Original Sutra AuthorN/A
AuthorKatyayan Maharshi
PublisherAchyut Granthmala
Publication Year1929
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy