SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५४ सवृत्ति-कान्यायन-शुल्बसूत्रे [कं. ७ पञ्चाशच्छर्कराः पश्चात्पूर्वे देवास्त्रिसप्ततिः।। दक्षिणे तु प्रदातव्या दश पञ्च च सप्त च ॥३६॥ शंस्यश्चतुर्विंशतिपार्श्वभागश्चतुर्दशैराविलिखेत्तु नर्यम् । तथैव चाष्टद्विगुणैरथर्यस्त्रिंशद्भिरायम्य हरेत्तृतीयम् ॥३७॥ अग्नेरुदक् सार्द्धनवाङ्गुले मध्यं ततो लिखेत् । वृत्तमेकोनविंशत्या प्राची ज्या मध्यगा भवेत् । उदगई विहायार्वाक् खरोऽग्नेर्दक्षिणस्य तु ॥३८॥ दक्षिणाग्निस्थानादुत्तरतः सार्द्धषु नवाङ्गुलेषु मध्यं प्रकल्प्य तत एकोनविंशत्यङलमितव्यासार्द्धन वृत्तं कृत्वा तन्मध्ये प्राची रेखारूपा कार्या, तया वृत्तं द्विधा विभतं भवति, तत उत्तरभागमपहाय दक्षिणभागेऽरनिमितो दक्षिणाग्निखरो विधेयः ॥३८॥ सूत्रदोषदरिद्रस्य गूढमन्त्रस्य धीमतः। समातेयं क्रिया शोल्बी कात्यायनमहात्मनः॥३६॥ सूत्रस्य ग्रन्थविशेषस्य दोषा असामञ्जस्यादयः, तैर्दरिद्रस्य रहितस्य, गूढत्वेन स्वं प्रभावमाख्यापयतो धीमतः शोल्बी क्षेत्रमानसम्बर्द्धिनी । शुल्व माने । शुल्बनं शुल्बः। तस्येदमित्यण । टिड्डेति ङीप् ॥३६॥ इति कातीयशुल्बसूत्रवृत्तौ सप्तमी कण्डिका ॥ ७ ॥ इति श्रीमन्महामहोपाध्यायाहिताग्नि पं० श्री १०६ प्रभुदत्तशर्मसुत-श्रीविद्याधरशर्मकृता कात्यायनकृतशुल्बसूत्रवृत्तिः समाप्ता । शमिति । FOUNDATION TITIEHAMIRPram PANENTER Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034615
Book TitleShulb Sutram
Original Sutra AuthorN/A
AuthorKatyayan Maharshi
PublisherAchyut Granthmala
Publication Year1929
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy