SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ कं. १] परिभाषाप्रकरणम् । "विशत्यरत्निः शाला स्यात्तदर्धेन तु विस्तृता" (निग. प.) इति दीर्घचतुरस्रा भवति, तदर्धे शङ्कः । इयमपि प्राग्वंशा कार्या ॥२०॥ तत्रोदीची प्राचीवत् ।। २१ ॥ “उदीचीनवर्ड शामेव शालां मिन्वन्ति" इति सत्रेषूदीचीनवंशा शाला विहिता। तत्रोदीची प्राचीत्वेन व्यवहर्तव्या । "प्राच्यन्तयोः शङ्क निहन्ति” (११६) इत्यादि यदुक्तं, तदुदीच्यां कर्तव्यमित्यर्थः । शालाया उदगायतत्वादादावुदगग्ररज्जुन्यासं कृत्वा शङ्क निहत्य पश्चात्तिर्यमानं साध्यमिति यावत् । सत्रेषु ससप्ततिशतारनिदीर्घा शाला विहिता, तर्धं पञ्चाशीतिररत्नयः, तत्र शङ्कः ॥ २१ ॥ सदसश्चैवम् ॥२२॥ सोमयागे सदोऽभिधानो मण्डपोऽशदशारनिदोघों नवारनि. विस्तृतो दीर्घचतुरस्र उदग्वंशो विहितः (का. श्री ८।६।३)। तत्रापि शालावत् उदीची प्राचीत्वेन व्यवहर्तव्या। सदोमण्डपस्य दैर्ये विस्तारे चान्येऽपि पक्षाः सन्ति, ते तत एवावगन्तव्याः (का. श्री. ८।६।६ )॥२२॥ परिभाषामाह अपरिमितं प्रमाणाद् भूयः ॥२३॥ . यत्र सूत्रकृता अपरिमितशब्दः प्रयुक्तः, यथा-वरुणप्रघासे वेदिमुपक्रम्य "अपरिमिता वा" (का. श्री. ५।३।१४) इति, यथा च दीक्षासु "द्वादश दोक्षा अपरिमिता वा” (७।१।२४ ) इत्यादौ, तत्र सर्वत्र प्रमाणात् = उक्तमानात् भूयः अधिकं मानं ग्राह्यम् । अपरि. मितशब्दः पूर्वोक्तप्रमाणादधिकप्रमाणे सढोऽवगन्तव्यो, न तु न परिमिता अपरिमिता इति नञ् समासेन विगृह्य प्रमाणाभाववाचक इत्यर्थः (१) । अधिकप्रमाणता च एकेनैव सम्पादनीया, न तु द्वित्रा (१) अपमितां वेति यदिष्टिवेदावुक्तम, (२०६१) अपरिमितेष्टक इति च यच्चयनेऽप्युक्तम्, (१७२८) एतद् द्वयं विना उक्तमानाधिकवाची अपरिमित. शब्दः । इष्टिवेद्यां चयने च मानाभावार्थोऽपरिमितशब्दः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034615
Book TitleShulb Sutram
Original Sutra AuthorN/A
AuthorKatyayan Maharshi
PublisherAchyut Granthmala
Publication Year1929
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy