SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सवृत्ति - कात्यायन शुल्बसूत्रे - स समाधिः सर्वत्र ॥ ११ ॥ सर्वत्र = समदीर्घचतुरस्त्र क्षेत्रेषु "रज्वन्तयोः पाशौ करोति” (१/३) इत्यादिना स - पूर्वोपदिष्ट एव प्रकारः समाधिः = साधनोपायो बोध्यः ॥११॥ • समचतुरस्रे निरञ्छनलक्षणमाह प्रमाणमभ्यस्याभ्यास चतुर्थे लक्षणं करोति तन्नि रञ्छनम् ।। १२ ॥ ६ [ कं. १ • प्रमाणम् = इष्टक्षेत्रप्रमाणमितां रज्जुम् अभ्यस्थ = द्विगुणं कृत्वा अभ्यासस्य = अभ्यस्तरज्वाः ( कृतचतुर्भागायाः ) चतुर्थे = प्रमाण रज्जुसंनिकृष्टे चतुर्थे भागे सङ्ख्यासमासभङ्गसमीपे चिन्हं कुर्यात् न त्वन्ते तत् निरञ्छनसंज्ञकं भवति । निरञ्छयते श्राकृष्यते रज्जुर नेनेति निरञ्छनं क्षेत्रायामरज्जुः । श्रत्र प्रमाणरज्वा अभ्यासरज्ज्वाश्च चत्वारश्चत्वारो भागाः कार्याः । तेन सा रज्जुरष्टधा विभक्ता भवति । तत्र प्रमाणरज्जुसन्निकृष्टे अभ्यासरज्जुचतुर्थे भागे निरञ्छने कृते एकतः पञ्चांशा, अपरतस्त्रयोंऽशा भवन्ति । तत्र भागत्रयात्मिका रज्जुः तिर्ययानीशब्देन पञ्चभागात्मिका रज्जुरक्ष्णयाशब्देन व्यवह्रियते । एतच्चानुपदमेव वक्ष्यति ॥ १२ ॥ " अक्ष्णया तिर्यमानीशेषः ॥ १३ ॥ == त्रिभागा रज्जुस्तिर्यङ्मानी । तस्याः शेषस्तिर्यङ्मानीशेषः पञ्चभागा रज्जुः, सा प्रश्णया इत्युच्यते । श्रक्षिवत् क्षेत्रं नयतीत्यक्ष्णया । तिर्यक् प्रमाणं मीयतेऽनया सा तिर्यङ्मानी । श्रक्ष्णया कर्णं इत्यनर्थान्तरम् । यत्र प्रमाणरज्जुश्चतुर्भागा, तिर्ययानी च त्रिभागा, तत्राक्ष्णया रज्जुः पञ्चभागा भवतीत्यर्थः ॥ १३ ॥ दीर्घचतुरस्त्रे महावेदि - पत्नीशाला सदश्रादौ निरञ्छन स्व लक्षणमाह– प्रमासार्द्ध वाऽभ्यस्याभ्यासषष्ठे लक्षणं करोति तन्नि रञ्छनम् ॥ १४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034615
Book TitleShulb Sutram
Original Sutra AuthorN/A
AuthorKatyayan Maharshi
PublisherAchyut Granthmala
Publication Year1929
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy