SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कं. ४ ] चितिनिरूपणम् । ३५ एतेनैव त्रिकर्षसमासो व्याख्यातः पञ्चकर्णानां च प्रउगेऽपच्छिद्य ॥ ६॥ एतेनैव प्रकारेण त्रिकर्णसमासः त्रिभुजाकारप्रउगक्षेत्रस्य समचतुरस्त्रीकरणप्रकारो व्याख्यातो भवतीत्यर्थः । यथा- प्राक् तिर्यङ मानीकप्रमाणात् द्विगुणितपश्चात्तिर्यङ्मानीकं तुल्यपार्श्वमानीकद्वयं यत् समचतुरस्रं, (वेदिरूपं ) तत् श्रंसाभ्यां पश्चात्तिर्यङ्मानीमध्यं यावत् सूत्रद्वय प्रसारणेन त्रीणि व्यस्त्राणि जायन्ते । तत्र त्र्यस्त्रिद्वयमूर्ध्वमुखम् एकं चाधोमुखम् । ततः तेषां त्र्यस्त्रीणां समचतुरस्री करणं. पूर्ववत् " ग यथाऽत्र अ. इ. उ. क, वेदीरूपं क्षेत्रम्, यत्र श्र. इ, प्राक्तिर्यङ् मोनीकम् उ. क, पश्चात्तिर्यङमानीकम, अ. क, इ. उ, पार्श्वमानोयं, ग. मध्यबिन्दुः । अ. ग, इ. ग, सूत्रप्रसारणेन . क. ग, क. इ. ग, इ. ग. उ, इति त्रिभुजत्रयं जायते । एवं पञ्चानां त्र्यस्त्रिक्षेत्राणां समचतुरस्त्रीकरणप्रकारो भवितुमर्हति । तत्र पञ्चापि व्यस्त्राणि समानि चेत् तदा द्वयोर्द्वयोस्त्रयस्त्रिक्षेत्रयोर्योगेन उभयतः प्रउगक्षेत्रद्वयम् एकं व्यस्त्रि क्षेत्रं च भवितुमर्हति । ततः पूर्ववत् उभयतः प्रउगक्षेत्रद्वयं समचतुरस्त्रीकृत्य शिष्टं त्रिभुजं च पूर्ववदेव समचतुरस्त्रीकुर्यात् । ततस्तेषां समचतुरस्राणां योगरूपमेकं समचतुरस्रं निष्पादयेदिति । एवं पञ्चकर्णानां समचतुस्त्रीकरण प्रकारोनिष्पद्यते । यदि व्यस्त्रिक्षेत्राणि विषमानि स्युस्तदा पृथक् पृथक् प्रउगक्षेत्रसमचतुरस्त्रीकरणरीत्या पञ्चापि समचतुरस्राणि निष्पाद्य तानि एकसमासेन समस्येत् । " अत्र द्वयोर्द्वयोरुयत्रिक्षेत्रयोर्योगेन एकैकमुभयतः प्रउगक्षेत्रं, शिष्टं च व्यस्त्रिक्षेत्रमेकमिति ॥ ६ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034615
Book TitleShulb Sutram
Original Sutra AuthorN/A
AuthorKatyayan Maharshi
PublisherAchyut Granthmala
Publication Year1929
Total Pages70
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy